SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना कद्रव्यभेदसाध्यकस्थल गुणोद्रव्यमितिवाधभ्रमविषयैकदेशेगुणेऽपि नातिव्याप्तिरितिवन्न किञ्चिद्रूपावच्छिन्नविषयत्वाव्यापक विषय ताशून्यज्ञानीयत्वस्य प्रवेशे हृदाद्यकदेशातिब्याप्त दुरुद्ध रत्वात प्रमात्वाघ. रितेतल्लक्षणे प्रमात्व प्रवेशस्याप्यनौचित्यात् वाधविपरीत वाघज्ञानयोरे करूपेण प्रतिबन्धकत्व पक्षेऽसम्भवापत्तेश्चति ॥ अत एव स्वव्यापकत्व - सम्बन्धावच्छिन्नस्ववृत्तित्व घटितोभयसम्बन्धेन वैशिष्ट्यवाच्यमिति नातिव्याप्तिरिति निरस्तम् तथापि वाघविपरीतवाधयोरेकरूपेण प्रतिबन्धकत्वं वाधादिष्वसम्भवापत्तेः अभाववत्तादृशघटादावतिप्रसङ्गा पसेवा एतस्योपेक्षणीयत्वादिति ॥ यादृशविशिष्टविषयकनिश्वयविशिष्टयाहशविशिष्टविषयकनिश्चयस्वमिति । यद्रूपावकिछनविषयत्वाव्यापकविषयत्ता शून्य यद्रूपावच्छिन्नविषयताशालिनिश्च येन सामानाधिकरण्येन विशिष्टायां यद्रूपावच्छिन्नविषयश्वाव्यापकविषयताशुन्य यद्रूपावच्छिन्नविषयताशालिनिश्चयस्तत्वमित्यर्थः जा तिमद्वान्वहृद्यभाववानितिनिश्चयविशिष्टस्य जलवान्हदइतिनिश्चयस्व जलवान्बह्रयभाववानितिनिश्चयविशिष्टस्य जातिमाञ्जलवानित्यादि निश्चयस्याप्रतिबन्धकतया तयोर्वारणायाव्यापकविषयताशून्येति । अथ वद्रूपवृत्तिविषयतैवात्र निवेशनीया व्यर्थमव्यापक विषयताशून्य स्वनिवेशन मितिचेत्प्रागपि यद्रूपवृत्तिविषयतानिवेशस्य सम्भवदु· क्तिकस्य सम्भावितस्थलविशेषे दोषसम्भावनयैव परित्यक्तत्वेन ताहरासम्भावनाया अत्रापि जागरूकत्वात् तथाहि याहशपक्षलाध्यकस्थले साध्याभावावच्छेदकधर्मस्य केवलस्य न पक्षांशे भानमपितु किश्चि त्पदार्थविशेषितस्यैव तत्र साध्याभाववत्तद्धर्मवद्वृत्तितद्धर्मवत्पक्षेऽतिव्याप्तिः तद्धर्मवत्पक्षतावच्छेदकगत समुदायत्वस्य यद्रूपमध्ये धारणासम्भवात् तद्रूपवृत्तिविषयत्वाप्रसिद्धेः परस्परस्वावच्छिन्नविषयता शून्यत्वस्य लक्षणघटकतापक्षेऽलक्ष्यतावच्छेदकोक्तविशिष्टधर्मवत्पक्षतावच्छेदकगतमुदायत्वस्यापि धारणासम्भवात् किञ्चिद्विशे. षिततद्धर्मवत्पक्षतावच्छेदकगत समुदायत्वस्य धारणसम्भवेपि तद्रू. पार्वाच्छन्नानुयोगिताक पर्याप्तिकावच्छेदकताकविषयता शुन्यत्वस्य वि. शिष्टज्ञाने सत्त्वात् । अत्र किञ्चित्पदार्थ उक्तविशिष्टघटकाधेयत्वा तिरिक्त उक्तविशिष्टघटकपदार्थविशेषित तज्ज्ञानस्योक एव ग्राह्य विशिष्टज्ञानात्मकत्वस्यैव स्वीकारात् तेनाधेयत्वविशेषिततद्धर्मवत्पक्ष
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy