SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सामान्यनिकविवेचना प्रत्येकशरीरे उक्तरीतेरनुसरणीयतया उक्तघटपक्षकगगनादिसायक. स्थले पुनरपि निपातप्रसङ्गात् । शब्दैक्यामादरपक्षेतु उक्तप्रकारस्य सर्वथा व्यर्थत्वात् यारशपक्ष साध्यकस्थले हिदोषज्ञानस्य न निश्वयविशिष्टनिश्चयत्वेन प्रतिबन्ध कत्वं ताशस्थले शानवैशिष्टयानवच्छिन्नत्वं प्रतिबन्धकताथां यार. स्थले तादृशप्रतिबन्धकत्वं तत्र ज्ञानवैशिष्टयावच्छिन्नरव तत्तहोषवि. षयत्वानवच्छिन्नत्वोभयाभाववत्वमेव निवेश्य लाघवात् अतएवानतिरिक्तवृत्तिस्वनिधेशपक्षेपि शब्दैक्यानादर उक्तरीत्या निवेशसम्भवेश विशिष्टद्वयाघटितत्वस्यैव व्यर्थत्वापत्त्या यत्र सत्प्रतिपक्षाप्रसिद्धि स्तत्र भिनान्तमनुपादेयमेव साध्यादिभेदेन लक्षणभेदादिति पक्षम्परित्यज्य भ्रमात्मकहानीयेत्यादिना पक्षान्तरमनुसृतं तथाच शब्द. क्यादरपक्षमालम्ब्यैव सर्वविचाराणामुपक्रमइतिवक्तव्यं तत्रैकरूपेण प्रतिबन्धकत्वपक्षे गगनाभाववत्ताहशघटेऽन्याप्तिर्दुरुद्धरा एकरूपेण प्रतिबन्धकत्वाभावे च गगनाभाववत्तादृशघटज्ञानस्य निश्चयविशिष्ट निश्चयत्वेन प्रतिबन्धकतायाम्मानाभावेनोक्तप्रकारस्य वैफल्यम् अभा घवान्तादृशघटइतिज्ञानस्यापि विशिष्टनिश्चयत्वेनैव प्रतिबन्धकतयार भाववत्ताशघटत्वावच्छिन्नविषयतायां ज्ञानवैशिष्टयानवच्छिन्नप्रति बन्धकतानवच्छेदकत्वविरहेणाभावसत्त्वात् तादृशघटेऽतिव्याप्तिमा नच यद्रूपावच्छिन्नविषयतायां तादृशघटविषयताभिन्नत्वनिवेश्यमिति वाच्यं ताशघटपक्षकाभावाभावसाध्यकस्थले तस्य बाधत्वेनाव्याप्स्यापत्तेः नच विशिष्टद्वयाघटितत्वपक्षेऽव्याप्तिरतिव्याप्तिर्वोक्तस्थले इतिवाच्यं तत्प्रतीकारस्थ तद्विचारावसरे प्रदर्शयिष्यमाणत्वात नचोतातिव्याप्तिवारणाय प्रतिबध्यताविशिष्टजन्यतानवच्छेदकत्वप्रतियोगिकाभाव एव निवेश्यो न तत्प्रतियोगितया ताशप्रतिबन्धकतानबच्छेदकत्वमपतिवाच्यं वहिव्यापकाभाववध्रदेऽव्याप्त्यापत्ते।.. _ यच वलयभाववज्जलबत्कालीनत्वे सतीत्यादिनोक्तस्थले प्रथा मसत्यन्तविरहिते जलवत्तादशहदेऽतिव्याप्तेरेवमपि दुरितापत्तश्च । परेतु गोस्वमवृत्तीत्यत्र गोत्ववद्रूपबाधेऽव्याप्तिः गोत्ववानितिशानस्थ गोत्वत्वावच्छिन्नप्रकारताकनिश्चयत्वेन प्रतिबन्धकतया गोत्वप्रकारता या एव प्रतिबन्धकतावच्छेदकत्वात् गोत्ववत्वावच्छिन्नविषयताया अ. स्यात्वादित्याहुः
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy