________________
सामान्यनिरुक्तिविवेचना
गगनामाचवान् जलवान्तादशघटइतिनिश्चययो निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकताया आवश्यकतया तथाविधानामनन्तज्ञानानामनन्त प्रतिबन्धकत्वापेक्षया ज्ञानविशिष्टज्ञानत्वेनैकप्रतिबन्धकत्वकल्पनस्यैव समुचितत्वात् वैशिष्ट्यश्च स्वसमानाधिकरण्य स्वीयगगनाभावत्वावच्छिन्नप्रकारतानिरूपित विशेष्यतावच्छेदकता विशिष्टप्रकारतानिरूपि ततादृशघटत्वावच्छिन्नविशेष्य ताकत्वोभय सम्बन्धेन अवच्छेदकतावैशिष्ट्यश्च स्वावच्छेदकम्बन्धावच्छिन्नत्व स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगितावच्छेदकरूपावच्छिन्नानुयोगिताकपर्थ्या प्तिप्रतियोग्यचच्छेदकताकत्वोभयसम्बन्धेन तथाच तादृशप्रतिबन्धकतयैव निर्वाहे विशिष्टनिश्चयत्वेन प्रतिवन्धकतायाम्मनाभाव इत्युक्तदोषोदुरुद्धर इति चेन्न प्रकृतानुमितित्वव्यापक प्रतिबध्यताविशिष्टान्यत्वस्या प्युक्ताभावप्रतियोगित्वेन विवक्षितत्वात् वैशिष्ट्यञ्च स्वनिरूपित प्रति बन्धकतावच्छेदकत्व स्वविशिष्टनिश्चयत्वव्यापक प्रतिबन्धकतानिरूपि त प्रतिबध्यतावच्छेदकत्वोभयसम्बन्धेन तथाच तादृशघटोंगगनवानिति बुद्धिम्प्रति तादृशघटोगगनाभाववानितिनिश्चयस्य प्रतिबन्धकत्वेन प्रतिवध्यत्वेन च तदीयविषयतायास्तदुभयावच्छेदकत्वानाव्याप्ति. सम्भवः एवञ्च साध्याभाववदवृत्तित्वरूपव्याप्तिघटितस्यैव सत्प्रतिपक्षत्वं सत्प्रतिपक्षविषयताभेदस्यानिविष्टत्वेन तत्राव्याप्तिवारणाय प्रति हेतुव्यापक साध्याभावसमानाधिकरणप्रति हेतुमत्पक्षस्य सत्प्रतिपक्षत्वं सत्प्रतिपक्षविषयता भेदनिवेशस्यावश्यकत्वेपि वह्निव्यापकाभाववधदपचाव्याप्तिवारणाय ज्ञानवैशिष्ट्यानवच्छिन्नप्रतिबन्धकतानववच्छेदकत्वस्य प्रतियोगितयाप्रवेशः पर्वतपक्षकवह्नय भावव्याप्यसाध्यकस्थले वह्निमत्पर्वतेऽतिव्याप्तिवारणाय प्रथमसम्बन्धनिवेशः ।
तद्विषय
नचैवमपि वन्ह्यभाववज्जलवत्कालीनत्वे सति जलाभाववद्वह्निमत्कालीनहृदपक्ष कवह्नि साध्यक स्थले जलवत्तादृशहदेऽतिव्याप्तिः तनिश्चयस्य साध्यवत्ताबुद्धिम्प्रति जलवान्वन्हा भाववानितिनिश्चयविशिष्टत्वेन प्रतिबन्धकत्वात् प्रतिबध्यत्वाच तायास्तदुभयावच्छेदकत्वेन प्रतिवध्यताविशिष्टान्यत्वविरहात् यद्यपि प्रथमसत्यन्तस्य प्रकृते नास्तिफलं तथाप्युक्त प्रक्रियाया असम्भवारणाय विशिष्टद्वयाघटितत्वेप्यनुसर्त्तव्यतया तदभिसन्धानाल्लाघवात्तदुपयोग्यपिविशेषणमत्रैव प्रदर्शितं प्रदर्शयिष्यतेचेति
#
1