SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सामान्यनिककिविवेचना 68 कलम्बन्धेनासिद्धिप्रतिबन्धकत्वयोर्मध्ये कस्याप्यसत्वात् वस्तुतस्तुत. विवक्षायामपि वह्नयभाववद्वह्रयभाववद्ध्रदत्वावच्छिन्नेऽतिप्रसङ्गवार• णाय विशिष्टान्त राघटितत्वस्यावश्यविवक्षणीयतया तेनैवासिद्धिद्वय घटितोदासीनेऽतिप्रसङ्गवारणसम्भवेन निरूक्तविवक्षाया अनावश्यकत्वं नचोक्तज्ञाने वह्नयभावत्वावच्छिन्नावच्छेदकतैव प्रतिबन्धकतानवच्छे. दिकास्तीति नावश्यकता विशिष्टान्तराघटितत्वस्येतिवाच्यं ह्रदत्वादिप्रकारतायाः प्रतिबन्धकतानवच्छेदिकाया वन्ह्यभावच दूधदादिशा. ने सत्वेनासम्भववारणाय प्रतिबन्धकतावच्छेदकविषयताविशिष्टान्यत्वरूपस्यैव प्रतिबन्धकत्तानवच्छेदकत्वस्य वाच्यत्वात् वैशिष्ट्यच स्वतादात्म्यस्वावच्छेद्यत्वान्यतरसम्बन्धेन बोध्यम् । यत्तु मेयत्वविशिष्टासाधारण्यविषयतायामसाधारण्यविषयता. भिन्नत्वविरहादति व्याप्तिवारणाय विशिष्टान्तराघटितत्वन्निवेश्य मे ति तन्न असाधारणष्य प्रतिबन्धकतानचच्छेदकविषयता शुन्यज्ञानीयवि. षयता भिन्नत्वस्य विवक्षितत्वे तद्दोषासम्भवात् अतएव घटोगगनाभा ववदभाववत्कालीनगगनवानित्यत्र बाधबुद्धेर्यावर्त्तकधर्मदर्शन रूपत्वेन तत्प्रतिबन्धकतयैवनिर्वाहे विशिष्टबुद्धित्वेन प्रतिबन्धकतायाम्मानाभावेन वाघषियतायास्तादृशप्रतिबन्धकता नवच्छेदकत्वेन तादृशबाधेऽव्याप्तिरिदिनिरस्तम् शुद्धगगनाभावेऽव्याप्यवृत्तित्वग्रहदशायाम्बिशिष्ट. गगनाभावे तदभावेन विशिष्टनिश्चयत्वेन प्रतिबन्धकतायाः सम्भवादावश्यकत्वाच्च दोषासम्भवात् । अथ गगनाभाववदभाववत्कालीन घटोगगनवानित्यत्र बाधेऽव्याप्तिः बाधज्ञानस्य व्यावर्त्तकधर्मदर्शनत्वेन ज्ञानविशिष्टज्ञानत्वेनैव प्रतिबन्धकत्वात् अभाववति गगनाभावोऽयाप्यवृत्तिरितिज्ञाने ज्ञानावशिष्ट. ज्ञानत्वेनेव विशिष्टज्ञानत्वेनापि प्रतिबन्धकत्वासम्भवात् तत्सत्वपवबाधज्ञान एवाभाववत्त्वेन घटस्यभानात् तथासति तस्य प्रतिबन्धकत्ताया अनुभवातीतत्वात् यथा जलावच्छेदेन वह्नद्यभावेऽव्याप्यवृत्तित्वप्रहे ज· लवत्तया गृहीतेह्रदे वहयभाववत्तानिश्चयस्य वह्निमत्ताबुद्धिप्रतिबन्धकताया आनुभविकत्वानङ्गीकारस्तथात्रापि तस्यानङ्गीकरणीयत्वात् न च निश्चयवेिशिष्ट निश्वयत्वेन प्रतिबन्धकत्वे मानाभावः । तादृशघटत्वावच्छिन्नविशेष्यतानिरूपिता या गगनाभावत्वेनाभावत्वेन वा वच्छिन्नप्रका. रता तन्निरूपकनिश्वयत्वेन प्रतिबन्धकतयैव निर्वाहादिवाच्यं जलवान्
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy