________________
४५
सामान्यनिरुक्तिविवेचना मैवं स्वरूपसम्बन्धरूपावच्छेदकत्व इत्यादि । अथात्र ज्ञानवैशिष्टयानवच्छिन्नत्वनिवेशे प्रतिहेतुव्यापकसाध्याभावसमानाधिकरणप्रतिहेतुमत्पक्षस्य सत्प्रतिपक्षत्वे तत्र लाध्यव्यापकीभूताभावप्रतियोगिप्रकृतहेतुरूपासाधारण्ये चाव्याप्तिमुद्भाव्यानतिरिक्तवृत्तित्वस्या वश्यवि वक्षणीयता प्रतिपादिता तन्नयुज्यते तत्पक्षे विशिष्टद्वयाघटितत्वनिवेशस्यावश्यकतया तत्र बहुतरसत्प्रतिपक्षादिलक्ष्यविषयताऽलक्ष्य विषयतामेदनिवेशस्यावश्यकतायाः प्रतिपादनीयतया लाघवेनैत स्पक्ष एवसत्प्रतिपक्षविषयताऽसाधारण्यविषयताभिन्नत्वयोरसाधा. रण्यबिषयताभिन्नत्वस्यैव वा निवेशमात्य यद्रूपावच्छिन्नविषयता. सामान्ये ज्ञानवैशिष्टयानवछिन्नप्रतिबन्धकतानवच्छेदकत्वासाधार. ण्यविषयताभिन्नत्वोभयाभावनिवेश एव कार्यस्तावतैव पाषाणमयत्व वत्पर्वतादावतिप्रसङ्गस्य असाधारण्येऽच्याप्तश्च वारणसम्भवात् । नच नवयप्रवेशो व्यर्थः स्वावच्छिन्नविषयित्वाव्यापकविषयता. शुन्यज्ञानीयताहशप्रतिबन्धकतानवच्छेदकघटत्वावच्छिन्नविषयता सामान्य एवोभयाभावसत्वेन घटत्वावच्छिन्नेऽतिप्रसङ्गवारकत्वात् यदिचात्राव्यापकविषयताशून्यमानीयत्वनिवेशस्य न प्रयोजनमि त्युच्यते तदास्तुतावत्तथा तथापि पर्वतत्वसमानाधिकरण्येन वहः साध्यतायान्धूमस्य हेतुत्वे वह्निमवह्निव्याप्यधूमवत्पर्वतेऽतिव्या प्तिः तद्विषयकज्ञानस्य निश्चयविशिष्टनिश्चयत्वेन प्रतिवन्धकत्वासम्भ वात् तथाविधस्याहार्यत्वात् धूमाभाववान्वह्नयभाववान्वयभाववा: न्हदतिशानयोः निश्चयविशिष्टनिश्चयत्वेन प्रतिबन्धकतया वाधादिवि. षयताया अपि ज्ञानवैशिष्टयावच्छिन्नप्रतिवन्धकतावच्छेदकत्वाद्वाधा दावव्याप्तिरपि अतएव वह्निमद्धदोघटवान् जलव्यापकवह्नयभावसमा नाधिकरणजलाभावादित्यत्र तादृशजलवदध्रदरूपस्वरूपासिद्धौ ना. व्याप्तिः ज्ञानवैशिष्ट्यानवच्छिन्नस्वरूपासिद्धिनिश्चयप्रतिबन्धकतायां. तद्विषयत्वस्यावच्छेदकत्वात् । यद्यपि सत्प्रतिपक्षविषयताभेदनिवेशपक्षे तस्य प्रकृतानुमितित्वब्यापक प्रतिवध्यतानिरूपितप्रतिवन्धकतावच्छेदकीभूतविषायत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविष. यता भेदरूपत्वमेववाच्यम् । अन्यथा वह्निमधदपक्षकस्थले हदपक्षक. वहिहेतुकस्थले वह्निमहदसाध्यकस्थले वह्निमहदहेतुकस्थले च ताह शजलवद्धदपवपक्षाप्रसिद्धिस्वरूपासिद्धिसाध्याप्रसिद्धिहेत्वप्रसि