SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना कत्वाभावविचारएव तच्छ्रन्यावृत्तित्वेऽभिव्यक्तं किमु वक्तव्यंवृत्तित्वाभावरूपसमुदिततद्विचारे तादृशगुरुभूतप्रतिबन्धकत्वाभा वस्यापि तत्प्रतियोगितावच्छेदकतया प्रवेशात् । यद्विषयिताव्याप कत्वशरीरेऽ नुमितित्त्वव्यापकत्वादीनामवच्छेदकतयाऽप्रवशेन लाघवस्य व्यक्तत्वात् तत्रच यद्विषयितावद्वृत्तिभेदप्रतियोगितावच्छेदकता २२ उभयावृत्तिधर्मातिरिक्तधर्मानवछिन्नत्वेनैकधर्मावच्छिन्नप्रतिबन्धकस्वस्यैक्यपक्षे तनिश्चयवृत्तिप्रतिवन्धकतावान्नोति भेदमादायाव्याप्तिवा रणाय यदा निविशते तदेदंलाघवम्वोध्यम् प्रतिबन्धकताभेदपक्षस्तु जघन्य एव । नच गौरवं दोषतया किमितिभट्टाचाय्र्येण नोक्तमिति वाच्यं गौरवापेक्षयाऽसम्भवस्य वरिष्ठत्वात् यावन्तोदोषाः सम्भवन्तीतिन्या. यादेकस्योद्भावने क्षत्यभावात् प्रतिबन्धकताभेदपक्षेच तादृशप्रतिवध्यत्वनिष्ठनिरूपितत्व सम्वन्धावाच्छन्नावच्छेदकताभिन्नप्रतिबन्धक तात्वनिष्ठावच्छेदकता भिन्नावच्छेदकत्वानिरूपितत्वेन तस्या विशेषणीयत्तया तदपेक्षया तच्छ्रन्यावृत्तित्वे गौरवस्य नावकाशइति तन्न प्रतिबन्धकताभेदाभावपक्षेपि गौरवासम्भवात् प्रतिबन्धकतावृत्तित्वेन सामानाधिकरण्येन तादृशवृत्तित्वाभावप्रतियोगितावच्छेदकतयक्ति. त्वनिष्ठावच्छेदकत्वस्य प्रायशोदोषमात्रेऽव्याप्तिप्रसङ्गेनोपादानासम्भ वेपि वृत्तित्वाभावप्रतियोगितानिरूपितपरम्परीयतव्यक्तित्वनिष्ठा च्छेदकतायास्तेनरूपणोपादानसम्भवेन प्रतिवध्यत्वादीनामत्राप्यवच्छे दकत्वेनाप्रवेशात् अतएवानतिरिक्तवृत्तित्वस्य तत्रतत्रोपादित्यापि सङ्गच्छतइति ॥ शुद्धह्रदत्वावच्छिन्नेऽतिप्रसङ्गाच्चेति अथ पकविषयताशून्यज्ञानीययद्रूपावच्छिन्नविषयत्व यद्रूपावच्छिन्नविषयत्वाव्या. एवोक्तावृत्तित्वस्य विवक्षितत्वेन तादृशहदत्वावच्छिन्नविषयताया हृदइतिज्ञानपव प्रतिबन्धकताशून्ये सत्वेन कथमतिव्याप्तिरिचन्मैवम् । अत्रकल्पे स. दर्वेषामेव ज्ञानविशेषणानामनाहाय्र्यत्वादीनां प्रतिबन्धकताशून्यज्ञानविशेषणत्वेनाव्यापकविषयता शून्यत्वस्यापि तद्विशेषणत्वस्यैव विवक्षितत्वेनातिप्रसङ्गसम्भवात् ॥ किञ्चिद्रूपावच्छिन्नविषयत्वाव्यापकविषयताशून्यत्वस्यैव सिद्धान्तत्वेन तद्वज्ज्ञानवृत्तित्वस्य यद्रूपावच्छिन्नविषयत्व विशेषणत्वप्यतिव्याप्तेस्सम्भवाच्च ॥ केचित्तु संयोगपक्षक संयोगसम्बन्धावच्छिन्नसंयोगाभाव साध्य
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy