SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना निरूपितवृत्तितावद्विषयितानिरूपकतानवच्छेदकमेव निवेश्यम् । नच प्रमेयत्वावच्छिन्नवृत्तितामादाय दोषइतिवाच्यं प्रतिवन्धकत्वाभावव. निरूपिता या विषयितात्वावच्छिन्नवृत्तिता तन्निरूपकत्वनिष्ठावच्छे. दकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकत्वाभावस्यैव निवेश्यत्वादितिनिरस्तम् ।। अत्राव्याप्यवृत्तित्वग्रहस्यानुत्तेजकत्वपक्षे निरवच्छिन्नस्वरूपेण कपिसंयोगाभावस्यैव कपिसंयोगविरोधित्वेन ताशसम्वन्धेन कपिसंयोगाभावप्रकारककपिसंयोगवद्विशेष्यकवानस्यैवाहार्यत्वात्तद्वि षयविशिष्टस्याप्रसिद्धत्वात् शुद्धस्वरूपेण कपिसंयोगाभाववत्कपिसं. योगवद्वक्षस्य प्रसिद्धत्वेपि तज्ज्ञानस्यानाहार्य्यतयाऽतिव्याप्तरेभावात् तत्पक्षमवलम्ब्यैव जदीशेनानतिरिक्तवृत्तित्वं स्वव्यापकतत्कत्वरूप. नाभिहितमितिप्रतिभाति ।। यतु स्वब्यापकतत्कत्वरूपमेवानतिरिक्तवृत्तित्वं लाघवात्त. स्याप्यभिमतम्वाच्यं प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिवन्धकत्वाभावस्यैकस्यैव यद्रूपाबच्छिन्नविषयकनिश्चयवृत्ति भेदप्रतियोगितानवच्छेदकरवापेक्षया गुरुत्वात् तथाहि तादृश. प्रतिवन्धकस्वघटोभयाभावं तत्प्रतिवध्यतानिरूपितप्रतिवन्धकत्वा. भावं तत्प्रतिवध्यतावृत्तित्वविशिष्टव्यापकतारूपाभावं चादाय दोषमात्रेऽव्याप्त्यापत्तिरतस्तद्वारणाय प्रतिवध्यतानिरूपितत्बप्रतिवन्धकतावातिरिक्तधर्मानवच्छिन्नत्वस्य प्रतियोगितायां व्यापकत्वप्रतिवध्यतात्वातिरिक्तधर्मानवच्छिन्नत्वस्य प्रतिवध्यत्वनिष्ठवच्छेदकतायां व्यापकत्वनिष्ठावच्छेदकतायां तादृशप्रतियोगिता. कत्वाभावत्वातिरिक्तधर्मानवच्छिन्नत्वस्य चनिवेशोवश्यमेवकार्यः अ. नुमितित्वव्यापकतारूपाभावोपि न्यूनवारकेतरवारकपर्याप्तिसहित. एवावच्छेदकत्वनापादेयोन्यथाधिकरणभेदेनाभावभेदपक्षे तद्यक्तित्वे नोपादाने तत्प्रतिवध्यतानिष्ठस्य व्यापकतारूपाभावस्य भिन्नतया त. यक्तिमत्प्रतिवध्यतानिरूपित प्रतिवन्धकत्वाभावस्य वाधादिज्ञाने सस्वादोषमात्रे ऽव्याप्त्यापत्तेः स्वव्यापकतत्कत्वपक्षेप्राणाण्याना. भावादीनामवच्छेदकतया प्रविष्टत्वेपि तेषां तब्यक्तित्वेनावले. दकत्वेपि क्षत्यभावात प्रतिवन्धकतावच्छेदकाभावविशिष्टान्यत्वमा पैकाभावस्यैववा तद्यक्तित्वेनाबच्छेदकतया प्रवेशान्न तदशेनाधि. क्यम् तथाच स्वव्यापकतत्कत्वापेक्षया गौरवं ताशप्रतिवन्ध
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy