________________
सामान्यनिरुक्तिविवेचना वात् विषयत्वम्विषयित्वश्च प्रतिबन्धकतावच्छेदकमस्तु ॥ अथवा घटा. भावशानन वह्निमत्ताबुद्धिप्रतिवन्धकं प्रतिबन्धकतावच्छेदकधर्मशून्य. स्वादित्यादिप्रयोगविषयप्रतिबन्धकतावच्छेदकधर्माभावस्य निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्यवृत्त्यनियामकसम्बन्धस्य प्रति. योगितानवच्छेदकत्वपक्षऽप्रसिद्धः स्वरूपण विषयित्वमेव प्रतिबन्धकतावच्छेदकमभ्युपेयविषयतानिरूपकत्वश्च गौरधादेव न ता. दृशमिति यद्विषयकत्वशब्दलभ्यस्य यन्निष्ठविषयतानिरूपकत्वस्य प्रतिवन्धकतानवच्छेदकतया लक्षणवाक्यार्थासम्भव इति पूर्वपक्षे प्रतिबिधानमुच्यते तात्पर्यान्यथानुपपत्त्या निरूपकत्वसम्बन्धेन यद्विः षयताविशिष्टस्य, यनिरूपितविषयिताविशिष्टस्य वा लक्षणया समस्तयद्विषयकशब्दघटकशब्दार्थत्वाहोषस्य नसम्भव इति । तदाऽसम्भव इति नच सर्वपक्षकावृत्तित्वसाध्यकस्थले सप्रकारक ज्ञानमात्रस्यैव सर्वधर्मिमकावृत्तित्वप्रहप्रतिवन्धकत्वेन गुरुत्व. त्वविशिष्टेनाऽव्याप्तिः तद्विषयकस्य निर्विकल्पस्य चासम्भवा. दिति वाच्यम् यत्राधारताप्रतीतिस्तस्यैव सप्रकारकस्य प्रमेय. त्ववानित्यादिरूपस्य प्रतिबन्धकत्वात् स्वरूपतः प्रमेयत्वप्रकारकस्य प्रमेयमिति शानस्यप्रतिबन्धकताया अनुभवातीतत्वात् तस्य च गुरुत्वविषयकतयाऽव्याप्तस्सम्भवात् स्वरूपतस्तत्तद्धर्मप्रका. रकस्यापि ज्ञानस्य प्रतिवन्धकत्वे उक्तस्थलस्याहार्यस्थलतयैतल्ल. क्षणे तत्र दोषस्यानुद्धार्यत्वेन तत्स्थलस्यानुपन्मसनीयत्वादि. ति भावः।
शुद्धहदत्वेति वहयभावाविशेषितेत्यर्थः तेनामाववान्हद इत्यादि ज्ञानमादाय दोषसम्भवेपि नक्षतिः ।
असम्भवभयेनेति प्रतिवन्धकतावच्छेदकताया हदविषयताति रिक्तवयादिविषयत्वेऽपि सत्वेन वह्नयभाववध्रदविषयत्वस्थ प्रतिवन्धकतावच्छेदकतापर्याप्त्यधिकरणत्वासम्भवादित्यादिः। नच प्रत्येकविषयत्वस्यावच्छेदकतापर्याप्त्यनधिकरणरवे तदनतिरिक्त समुदाये तदभावापत्या प्रत्येकस्य तथात्वे कुतोऽसम्भब इति वाच्यम् तथैव वह्वयादावतिप्रसङ्गात् तद्वारणाय च यद्विषयता. मात्रगतरूपन्तादृशावच्छेदकतापय्याप्त्यनुयोगितावच्छेदकमित्यस्य विवक्षितत्वेऽसम्भवस्य जागरूकत्वादिति भावः।