________________
सामान्यनिरुक्तिविवेचना
नच विशेष्यित्वानवाच्छन्नत्वस्य सम्भवः प्रमेयत्वनिष्ठावच्छेदकताया विशेष्यतानिरूपितत्वस्य कथञ्चित्सत्त्वे तन्निरूपितविषयित्वयोरवच्छेद्यावच्छेदकभावसभ्भवादितिवाच्य पर्वतोवह्निमानित्यः त्र पर्वतत्वे पारतन्त्रयेण वह्निभानस्य स्वीकृततया भवत्कल्पेपि पर्वतत्वादिनिष्ठावच्छेदकतायाम्बिशेष्यत्वानवच्छिन्नत्वासम्भवादि. ति पारतन्त्रीयविशेष्यत्वावाच्छन्नावच्छेदकतानिष्ठनिरवच्छिन्नत्व. स्यान्यादृशस्यैव वाच्यतयाऽनेकरूपतायास्तुल्यत्वादवच्छेद्यावच्छेद कभाववैलक्षण्याभ्युपगमेन तत्सम्पादनेनैकरूपतोपपादनस्यावच्छे. द्याबच्छेदकभावापन्नस्वातन्त्रीयविषयत्वद्वयनिरूपितविषयित्वयोरव. च्छेद्यावच्छेदकभाववैलक्षण्यमभ्युपेत्य तादृशावच्छेदकत्वानिरूपित त्वप्रवेशेनैक्योपपादनेन तुल्यत्वाञ्च ॥ ___ अस्तुवा विशेष्यतावच्छेदकनिरूपितविषयित्वे विशेष्यत्वानवच्छिन्नावच्छेदकतानिरूपितत्वमेव निरवच्छिन्नत्वकायकारित. थापि नगौरवं संशयस्याप्रतिबन्धकतया तद्वारणाय प्रकारित्वा. नवच्छिन्नत्वस्य प्रकारितायामस्माभिः प्रवेश्यत्वात् भवद्भिश्च. तत्र तत्र प्रकारित्वानवच्छिन्नप्रकारितानिरूपितत्वस्य प्रवेशनी. यतया साम्यात् ॥ नच दण्डाभाववान्दण्डातिमुद्धिम्प्रति रक्तदण्डवान् पुरुषइतिबुद्धेः प्रतिवन्धकत्वापत्तिः दण्डस्य प्रकार. स्वाद्विशेष्यत्वाञ्च तयोरवच्छेद्यावच्छेदकभावे तन्निरूपितविष. यित्वयोरवच्छेद्यावच्छेदकभावसम्भवात् प्रतिबन्धकतावच्छेदक. स्य दण्डत्वावच्छिन्ननिरूपितप्रकारित्वावच्छिन्नदण्डत्वावच्छिन्ननिरू. पितविशेयित्वस्य सत्त्वादितिवाच्यम् साक्षात्तत्सम्बन्धेन तदभा. ववत्ताबुद्धौ परम्परासम्बन्धेन तेन तद्वत्ताबुद्धेः प्रतिबन्धकतावारणाय विषयत्वस्य प्रतिबन्धकतावच्छेदकत्वपक्षे संसर्गताद्वारका कारतानिरूपितत्वावशिष्टविशेष्यत्वस्य प्रतिवन्धकतावच्छेदकत्वमिः व विषयित्वस्थ प्रतिवन्धकतावच्छेदकत्वेपि संसर्गतानिरूपितवि. षयित्वद्वारकप्रकारित्वावच्छेद्यत्वविशिष्टविशेष्यित्वस्यैव तत्वबाच्या मिति तदोषासम्भवात् ॥ नच तत्र निरूपितत्वस्य प्रकारत्वसंसर्ग तया प्रवेशोऽत्रचावच्छेदकतानिरूपितत्वस्य प्रकारित्वसंसर्गतयेत्या त्र गौरवमितिवाच्यम् अवच्छदकतावदतिरिक्तस्यास्त्रण्डावच्छेद्य. त्वस्यैवात्र संसर्गतया प्रवेशेन गौरवाभावात् एवञ्च विनिगमकाभा
२ सा०वि०