SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सामान्यनिरुक्तिविवेचना . मीयमितिवह्नित्वावच्छिन्नप्रकारतानिरूपितत्वघटितस्यावच्छेदकत्वापे. क्षया गौरवात् ॥ नचाविषयीभूतस्यावच्छेदकत्वासम्भवनाच. च्छेदकनिरूपिताया अपि विलक्षणविषयितायाः स्वीकृततया त. स्याः प्रकारितायाश्चावच्छेद्यावच्छेदकभावेन वह्नित्वनिरूपितविषः यिस्वावच्छेद्यप्रकारित्वावच्छेद्यत्वप्रवेशेन गौरवाभावः यद्विषयत्वयो. त्रिरुप्यनिरूपकभाषस्तन्निरूपितविषयिस्वयोरवच्छेद्यावच्छेदकभाव. स्याभ्युपगम्यत्वेन सर्वसामञ्जस्यादितिवाच्यं प्रमेयत्वादिना वह्नि स्वमवगाहमानस्यापि प्रतिबन्धकत्वापत्तेः तज्ज्ञानवृत्यवच्छदकतानिरूपितविषायताया वाहत्वनिरूपितत्वात् निरवच्छिन्नावच्छेदकता.. निरूपितत्वप्रवेशे गौरवात् इतिकेचिदाहुः । .तदपरे नमन्यन्ते तथा त्रयद्यपि विषयितायानरवच्छिन्नत्वमव. च्छेदकत्वानिरूपितत्वं तच नावच्छेदकानिरूपितविषयित्वे सम्भवति प्रकारनिरूपितविषयित्वस्यावच्छदकत्वात् तथाप्यवच्छेदकनिरूपित विलक्षणविषयित्वानवच्छिन्नस्वरूपं तत्कार्यकारिविशेषणन्तंत्राप्य. स्त्येच नच प्रमेयत्वेनप्रमेयस्यावच्छेदकत्वे प्रमेयत्वनिरूपितविषयित्वे तदसम्भवः तस्य प्रमेयनिरूपितविलक्षणविषयित्वावच्छेद्यत्वादितिः वाच्यम् विषयित्वस्य प्रतिबन्धकतावच्छेदकतायामप्येतत्पर्य्यनुयो. गस्य परस्परनिरूप्यनिरूपकभावानभ्युपगमेन तत्रेवात्रापि परस्परावच्छेद्यावच्छेदकभावानभ्युपगमेन परिहारस्यापिच तुल्यत्वात् पर. स्परनिरूप्यनिरूपकभावाङ्गीकारे ऽवच्छेदकतानिरूपितावच्छेदकता. निष्ठनिरवच्छिन्नत्वं यथा स्वनिरूपितत्व स्वभिन्नावच्छेदकतानिरूपि. तत्वोभयसम्बन्धेनावच्छदकताविशिष्टान्यत्वं तथा तभिरूपितवि: बयितानिष्ठमवच्छेदकनिरूपितविलक्षणविषयितया स्वावच्छेद्यत्व स्वभिन्नावच्छेद्यत्वोमयसम्बन्धेन विशिष्टं यत्तदन्यत्वं तद्वाच्यम् ॥ वस्तुतो विषयतानिष्ठं विशेष्यत्वानवच्छिन्नत्वमिव विषयितानिष्ठं विशेष्यत्वानवच्छिन्नत्वमेव तद्विवक्षितम् नचास्माकमेकमेवतत् भ. वतान्तु विशेष्यतावच्छेदकनिरूपितविषयित्वे विशेयित्वानवच्छिन्नत्वा. सम्भवेन यथायथम्बिलक्षणविषयित्वानवच्छिन्नत्वं तद्विशिष्टान्यत्व. च तद्वाच्यमित्यनेकरूपत्वं तत्र तत्र गौरवञ्च किच साक्षात्पर म्परासाधारणानरूपितत्वाभ्युपगमे प्रमेयवतोविशेष्यतावच्छेवकत्वे प्रमेयत्वरूपावच्छेद कनिरूपितविषयित्वे निप्रकारस्य तस्यासम्भवः ।
SR No.008448
Book TitleSamanyanirukti Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy