________________
१५६
सामान्यनिरुक्तिविवेचना
धप्रतिबन्धकताविशिष्टत्वविरहेण स्वविशिष्टविषयित्वानुयोगिकस्वरूपेणं बाधप्रतिबन्धकतावच्छेदकत्वाभाववस्वान्नाव्याप्तिरित्यनतिरिक्त. वृत्तित्वानुसन्धानं सङ्गच्छते वह्रिरित्यादिज्ञानीयविषयित्वस्य वह्निः स्वादीनाम्बिशिष्टान्तरताशरूपत्ववारणाय प्रतिबन्धकतावच्छेदक. स्वाभावसम्पत्त्यर्थं स्वावच्छेदकत्वलम्बन्धप्रवेशः फलतोनद्ध यगलम्बन्धप्रवशस्तु स्थलावशेषसम्भावनयैव कृतोन्यथा तु प रिचिन्त्यफल: ब्याप्यत्वञ्च न्यूनवृत्तित्वन्नातः स्वस्य स्वव्याप्यत्वनिबन्धनोलक्षणासम्भवः नच स्वभिन्नत्वमेवोपादेयमसम्भवापत्तेः बा धादिशानीयविषयत्वस्यापि वाधादिप्रतिवन्धकताभिन्न प्रतियोगित्वस म्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रकारतानिरूपिताभावत्वावच्छिन्नवि विशेष्यताकनिश्चयत्वावच्छिन्नप्रतिबन्धकतावच्छेदकत्वस्यैव सत्त्वात् विशेषगुणाभाववान् घटोगुणसामान्याभाववानियादावाश्रयासिया. दिप्रतिबन्धकताभिन्नवाधाार्दप्रतिवन्धकतावच्छेदकत्वस्याश्रयासिया. दिविषयतायां प्रसनाथ नच मेयत्वविशिष्टवाधादिशा यविषयि. त्वस्य मेयत्वप्रकारतानिरूपितवाधत्वावच्छिन्नविशेष्यताशालिनिश्च. यत्वावच्छिन्नबाधप्रतिबन्धकताव्याप्यप्रतिबन्धकतावच्छेदकत्वेनो. कोभयसम्बन्धावच्छिन्न प्रतिबन्धकतावच्छेदकत्वाभाववत्वेन तत्र व नामावबभ्रदत्वस्य वृत्तित्वादसम्भव इतिवाच्यं स्वावच्छिन्ननिरूपित स्वस्वावच्छिन्ननिरूपितविषयत्वाव्यापकविषयिताशुन्यज्ञानीयस्वोभ. यसम्बन्धेन वृत्तित्वस्य विवक्षितत्वात् नचोक्तोभयसम्धन्धेन मेयत्व विशिष्टवाधत्वस्य ताहशप्रतिबन्धकतावच्छेदकत्वाभाववति मेयत्व विशिष्टवाघत्वावच्छिन्ननिरूपितविषयित्वे वृत्तित्वातस्य न बाधत्वत्व मितिवाच्यं क्षत्यभावात् स्वसजातीयाप्रसिधैवातिव्याप्त्यसम्भवात् । __ यतु प्रतियोगिस्वत्वकल्पेऽतिव्यप्तिरिति तन्नैतत्प्रक्रियाया अनुयो. गिस्वत्वघटितकल्पे एवाभितत्वात् ।
अथवाऽसम्भवस्य वारणाय व्याप्यप्रतिबन्धकतापदेन प्रकृतानुमि तित्वव्यापकप्रतिवध्यतानिरूपितस्वव्याप्यप्रतिबन्धकता विवक्षणीया तथा मेयत्वप्रकारतानिरूपितबाधत्वावच्छिन्नविशेष्यताकनिश्चय स्वावच्छिन्नमतिबन्धकतायास्ताशप्रतिबध्यतानिरूपितत्वविरहेणासम्भवस्य न प्रसक्तिः नचोक्तप्रतिवन्धकताच्याप्यरवस्य धूमाभाववान् धन्यभाववानितिनिश्चयविशिष्टवहभाववद्धदत्वावच्छिन्नविषयताशा