________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
|
नैकस्यैव स्वरस्य स्थाने दीर्घाद्यादेशः, न तु स्वरद्वयस्य स्थाने इत्येव कथयितुं शक्यते, न तु समुदितयोः स्वरयोदीर्घत्वाभावः [ दीर्घसंज्ञाभावः ] इति । तथा चेदं कथनं हस्वादिसंज्ञाविधायक सूत्रविषयमेवोन्चितम् हस्वादिसंज्ञाविधायकसूत्रं च “एकद्वित्रि 5 मात्रा ह्रस्व-दीर्घ-श्रुताः” [१.१.५.] इति, तत्र च व्यञ्जनसमुदायस्य स्वरसमुदायस्य च संज्ञान्यात्त्यर्थमेव "औदन्ताः स्वराः” [ १. १. ४. ] इति पूर्वसूत्रात् 'औदन्ताः' इति पदमनुवर्त्य एक-द्वि-त्रिमात्रा औदन्ता वर्णा यथासंख्यं ह्रस्वादिसंज्ञाः स्युरित्यर्थः प्रदर्शितो वृत्तौ । तथा चेह नेदं शङ्कासमाधानं युक्त 10 मिति । पाणिनीये तन्त्रे महाभाष्येऽपि “उकालोऽच् ह्रस्वदीर्घ - झुतः” [ पा० सू० १.२ २७] इति हखादिसंज्ञा विधायकसूत्रे 'अच्' इति पदस्य [ स्वरार्थकस्य ] प्रयोजनप्रदर्शनायैव प्रतक्ष्यादीनामुपादानं कृतमस्ति । तथाहि---"अचश्च" [ पा० सू० १. २. २८. ] इति सूत्रशेषे अथ पूर्वस्मिन् योगे अज्ग्रहणे 15 सति किं प्रयोजनम् ? "अज्ग्रहणं संयोगाच् समुदायनिवृत्यर्थम् " अज्ग्रहणं क्रियते संयोगनिवृत्त्यर्थम् अच् समुदायनिवृत्त्यर्थं च संयोगनिवृत्त्यर्थं तावत् प्रतक्ष्य प्ररक्ष्य, “हस्त्रस्य पिति कृति तुक्” [ पा० सू० ६. १. ७१ ] इति तुङ् मा भूदिति, अच्समुदायनिवृत्त्यर्थं तितउच्छाया " दीर्घात् पदान्ताद्वा'' [ पा० सू० 20 ६. १. ७६. ] इति विभाषातुङ् मा भूदिति । स्पष्टमेवैतद्भाभ्यस्य ह्रस्वादिसंज्ञाविषयत्वं न तद्विधिविषयत्वम् । तथा च हखादिविधिविषयके न्याये प्रतक्ष्येत्यादिलक्ष्यव्यावृत्तिप्रदर्शनमसम्बद्धमेवेत्यलमधिकेनेति ॥ ४ ॥
>
चैकस्मिन्नप्राप्त कार्यप्रापणार्थोऽयं न्याय इति, स्पष्टमेतद् “आद्य- 40 न्तवदेकस्मिन्" [ पा० सू० १. १. २१ ] इति सूत्रे महाभाष्ये । आदिबद्भावस्य कल्पना यथा - "ईं इच् गतः” इत्यस्य परोक्षायाम् 'अयांच' इत्यादौ, तत्र हि "गुरुनाम्यादेरच्छूर्णोः” [ ३. ४. ४८. ] इत्यां विधेयः, स च नाम्यादर्धातोर्विधीयते यथा - 'ईहाञ्चक्रे' इत्यादी, अयं च 'ई' मात्ररूप- 45 वान नास्यादिः, आदित्यस्य परस्मिन् सत्येव संभवात् इत्यनेन न्यायेन 'ई'कारमात्रे नाम्यादिस्वकल्पना क्रियते, ततश्चां सिद्धो भवति । यथाऽयं वर्णविषये प्रवर्तते तथा नामविषयेऽपि, तथा च यत्रैकमेव नाम विद्यते तत्र तदादित्वतदन्तत्वप्रयुक्तं कार्यं न प्राप्नोतीति तत्राप्यनेन तदादित्वादिक- 50 ल्पना क्रियते, यथा-" इन्द्रे" [१. २. ३०.] इत्यस्य "सप्तभ्या आदिः " [७ ४ ११४ ] इति परिभाषया इन्द्रादौ शब्दे परे इति न्यासकारादिसम्मतव्याख्यापक्षे 'गवेन्द्रयज्ञः' इत्यादाविन्द्रयज्ञशब्दे परे एवं प्रवृत्तिः स्यान तु केवले 'गवेन्द्र' इत्यादाविन्दशब्दे परे इति तत्रापि प्रवृ 55 त्यर्थमेतन्यायाश्रयणेन इन्द्रशब्दमात्रस्येन्द्रशब्दादित्वाद् भवति गवेन्द्र इत्यस्य सिद्धिः । एतन्यायस्यादिवत् कार्याशे ज्ञापकं तु “यस्वरे पादः पदणिक्यघुटि" [ २. १. १०२. ] इति सूत्रे णिपर्युदासकरणम्, तद्धि पोः स्वरादित्वेन तत्र पदादेशो मा भूदित्यर्थमेव कृतम्, णेश्कारमात्ररूपत्वेनासहायत्वात् [ अन्य- 60 स्याभावात् ] स्वरादित्वं नास्त्येवेति तत्र प्राप्तिरेव नेति तद्वर्जनं व्यर्थं कस्मिन्नपि तदादित्वव्यवहारं तत्प्रयुक्तकार्यं च ज्ञापयति । एकस्मिन्नपि तदन्तत्वकल्पना वर्णविषये यथा - 'एता ' इत्यादी, तथा हि- "नामिनो गुणोऽक्किति” [४. ३. १.] इति गुणो नाम्यन्तस्य विधीयमानो यथा 'घेता, जेता' इत्यादौ 65 पूर्वस्य विद्यमानत्वेन नामिनोऽन्तत्वस्य सत्त्वात् स्वभावत एव भवति तथा 'ता' इत्यादौ न प्राप्नोति, तत्र धातोरिकार - मात्ररूपत्येन नाम्यन्तत्वाभावात् सति चानेन न्यायेन नाम्यन्तत्वातिदेशे गुणो भवतीति । नामविषये एकस्मिँस्तदन्तत्वकल्पना यथा- 'सर्वस्मै' इत्यादौ, तथा हि- "सर्वादेः स्मैस्मातौ” [ १. ४. ७. ] इत्यत्र सर्वादेरिति पदस्य स्याद्यधिकारस्थत्वेन, स्यादिना च नाम विनाऽनुपपद्यमानेन "नाम्नः' इति पदस्थाक्षेपो भवति, येन विना यदनुपपन्नं तेन तदाक्षिप्यते इति न्यायात्, तच्च विशेष्यं सर्वादेरिति च विशेषणम्, ततश्च “विशेषणमन्तः " [ ७. ४. ११३. ] इति परिभाषया सर्वाद्य - 75 न्तस्य नाम्न इत्यर्थ इति न्यासकारव्याख्यानुसारं "परम सर्वस्मै " इत्यादावेव स्मायादेशः प्राप्नोति न तु 'सर्वस्मै' इत्यादी पूर्वस्याभावेन सर्वाद्यन्तत्वाभावात् अनेन न्यायेन चैकस्मिन्नपि सर्वशब्दे सर्वाद्यन्तत्यकार्यस्यातिदेशाद् भवति स्मायादेशः ।
|
*आद्यन्तवदेकस्मिन् ॥ ५ ॥
25 सि० – अत्रैकशब्दोऽसहायार्थकः, न तु संख्यार्थकः, बहुषु सत्स्वपि एकत्वस्य तन्मध्यपतितत्वेन तस्याच्यावर्तकत्वं स्यात् एतच्च विवरणे स्पष्टम् । तथा चास्य न्यायस्य एकस्मिन् असहाये - आदित्वाऽन्तत्वव्यवहारप्रयोजकशून्ये, आद्यन्तवत् आदिश्वान्तश्चाद्यन्तौ तयोः सतोरिवेत्यर्थे आद्यन्तवदिति सप्त30 यन्तादिवार्थे यतिः [ 'वत्' प्रत्ययः ], आद्यन्तयोः सतोर्या
ष्टशो व्यवहारो भवति तादृशो व्यवहारः, तन्निमित्तकं कार्य च स्यादित्यर्थः वस्तुतस्तु व्यवहारस्यापि कार्यार्थतया कार्यमेवातिदिश्यते न व्यवहार इत्येव स्वीकर्तव्यम् । अयमाशयः - सत्यन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स 'आदिः' इत्यु35 च्यते, सत्यन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते, ततश्च अन्यस्मिन् सत्येवाद्यन्तव्यवहारस्तन्निमित्तकं कार्यं च भवति, असति चान्यस्मिन्नसहाये [ एकस्मिन् ] आद्य न्तव्यवहारो न प्राप्त इति तन्निमित्तकानि कार्याणि न सिध्यन्तीति तदर्थं यतः कर्तव्य इत्ययं न्यायः समाश्रीयते, तथा न्यायसमु० २
।
70