________________
न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
[ द्वितीयोला से न्याय: ६ ]
पन्धाः ॥ ६ ॥
*साहचर्यात् सदृशस्यैव ॥ ६ ॥ 5 त० - अयं च न्यायो लोकसिद्ध एवेति वृत्तौ सूचितम् । लोकेऽपि हि साहचर्यस्यान्यतराद्यर्थपरिग्रहकारणत्वं प्रसिद्धम् । "संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्य मौविसी देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥” [वाक्यपदीये ] इति हरिकारिकोक्तरीत्या शब्दार्थस्य संदेहे सति संयोगादि मध्यपतितस्य साहचर्यस्य स्वसदृशग्राहकतया निर्णायकत्वं प्रसिद्धम् । तत्र साहचर्यपदं च सादृश्यार्थत्वेन व्याख्यातम्, सहचरणं सदृशयोरेव तयोरेव च सहविवक्षेति तयोरेव सह15 प्रयोगः । तथा च परस्परसादृश्येनापि युगपदेव परस्परसदृशप्रहणम्, यथा-वृत्त्युदाहृते 'रामलक्ष्मणौ' इत्यादौ रामसादृश्येन लक्ष्मणो दाशरथिर्न तु दुर्योधनात्मजः, लक्ष्मण सादृश्येन च रामो दाशरथिरेव न जामदम्य इति युगपदेव नियमनमिति न परस्पराश्रयत्वम् । बोधितश्च सदृशानामेव प्रयोगे सहभावः 20 “पञ्चम्यपापरिभिः” [ पा० सू० २. ३. १०.] इति सूत्रस्थपरिशब्दो वर्जनार्थ एवेति साधनावसरे “कर्मप्रवचनीययुक्ते द्वितीया” [ पा० सू० २३.८.] इति सूत्रे महाभाष्ये“यद्यपि तावदयं परिर्दृष्टापचारो वर्जने चावर्जने च । अयं खल्वपशब्दोऽदृष्टापचारो वर्जनार्थं एव तस्य कोऽन्यो द्वितीयः 25 सहायो भवितुमर्हति - अन्यदतो वर्जनार्थात् । तद्यथा - अस्य गोर्द्वितीयेनार्थ इति गौरवानीयते नाश्वो न गर्दभः" इति । तथा च सहप्रयोगः सहभावो वा सदृशानामेवेति सादृश्येन सदृशस्यैव ग्रहणमिति “क्त्वातुमम्” [१.१.३५. ] इत्यादी कृत्त्वादिना सादृश्यात् कृत एवामो ग्रहणम्, "वत्तस्याम्" 30[ १. १. ३४. ] इत्यादावविभक्तितत्वेन सादृश्याच षष्ठीबहुवचनस्य न ग्रहणम्, तद्धितत्वेन प्रसिद्धप्रत्ययत्वेन सादृश्यग्रहणे च 'पातयाचकुषा' इत्यादी वसोः स्थाने " धातोरनेकस्वरात्." [ ३. ४. ४६. ] इति विहितस्यामो ग्रहणं न स्यादिति तस्यानव्ययत्वेन ततः परस्याष्टाविभक्तेर्लुप् न स्यात् । अथाव्ययसंज्ञाया विभक्तिलोपमात्र फलत्वे मास्तु सा, यतोऽस्य नामत्वाभावेन विभकेरप्राप्तिरेव ततश्वाव्ययसंज्ञया नामत्वं प्रसाध्य विभक्तिरुपाया, तस्याश्च पुनर्लुव् विधेयोति मास्तु विभक्तिः, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायादिति चेत् ? अत्रोच्यते-विभक्त्युत्पत्तौ तल्लोपे च पदत्वेन "तौ मुमौ०” [१.३ १४ ]
रणस्यावश्यकतया वरमाचार्यवर्णितरीतेरेवाश्रयणमित्यदोषात् । पदत्वाभावेन "नो घुड्वर्गे ०" [१.३. ३९.] इत्यनेनान्त्य तथा चैतदर्थं न्यायानित्यत्वाश्रयणमनावश्यकमित्येव युक्तः एव स्यादिति रूपद्वयं यदिष्यते तन्न स्वात् । ननु चाव्ययत्वाभावे स्याद्यन्तत्वनिमित्तं पदत्वं मास्तु, कसोः परोक्षावद्भावेन त्याद्यन्तत्वनिमित्तं पदत्वं तु भविष्यत्येवेति व्यर्थमेवाव्ययसंज्ञार्थमिह प्रयत्न करणमिति चेत् ? न- कसोः परोक्षावद्भावेऽपि 45 तत्स्थानिकस्यामः परोक्षावद्भावाभावात्, अतिदेशप्राप्तधर्मस्यादेशे सुलभत्वेऽपीह "वेत्तेः कित्" [ ३. ४. ५१.] इति किद्विधानेन परोक्षास्थान निष्पन्नस्यामः परोक्षावद्भावाभावसाधनात्, अन्यथा “वेत्तेर वित्” [ ३.४. ५१.] इति न्यासे आमोऽवित्करणादवित्परोक्षायाश्च “इन्ध्यसंयोगात् परोक्षा 50 विद्वत्" [४. ३. २१.] इत्यनेन किवे सिद्धे तद्वैयर्थ्य स्पष्टमेव । तथा च व्यर्थीभूतं किश्त्वविधानमामः परीक्षावद्भावो नास्तीति ज्ञापयति, ततश्च त्यादिविभक्तयन्तनिमित्तं पातयामीत्यस्य पदत्वं न स्यादिति तदर्थमस्याव्ययत्वमावश्यकमेव ! आमः परोक्षावद्भावाभावज्ञापनाञ्च विदाञ्चकारेत्यादौ “द्विर्धातुः परोक्षा ० " 65 [४.१.१.] इति द्वित्वमपि विदो नाभूत् । यद्यपि "वेत्तेरवित्” इति करणे मात्रा गौरवं प्रक्रियागौरवं चास्ति, तथाहि'कितू' इत्यस्योचारणे मात्रात्रयम्, 'अवित्' इत्यस्योचारणे च चितलो मात्राः, किश्च प्रथममामोऽवित्त्वमेतेन साध्यं, ततश्च तस्य कित्त्वमिति साक्षात्किद्विधानापेक्षया प्रक्रियागौरवमपि, 60 तथापि विदाञ्चकारेत्यादौ विदो गुणाभावसाधनरूपफलमुखतया न्यासान्तरस्य तत्राप्रस्तुतत्वेन लाघवगौरवचर्याया अनुत्थानात् । कृते च प्रकृते न्यासे ज्ञापिते चास्मिन्नर्थे यदि लाघवमपि भवति तर्हि सोऽपि गुण एव । किश्व परोक्षाविषयेऽवित्किच्छन्दौ पर्यायाविव यतोऽवित्परोक्षाया “इन्ध्यसंयोगात् परोक्षा विद्वत्" 65 [ ४. ३. २१.] इति द्विद्भावो निश्चित एव । तथा च पर्यायशब्दानां लाघवगौरवच चयाः शास्त्रकार शैलीविरुद्धत्वादिहापि तमर्चाया अभाव एव । यच्च प्रक्रियागौरवमुद्भावितं तदपि नन ह्यविद्वद्भावे कृते तस्य कित्त्वविधानस्य कर्त्तव्यता तिष्ठति, शास्त्रेण [“इन्ध्यसंयोगात् परोक्षा किद्वत्" इत्यनेन ] एकत्र स्ववि- 70 यसंस्कारे स्थिरीकृते विनैव व्यापारान्तरमन्यत्र तद्बोधोदयात् । पर्यायशब्दानां लाघव- गौरवचर्याया अनादरादेव 'क्लीब' शब्दस्य 'नपुंसक' शब्दस्य च तत्र तत्र पर्यायेण व्यवहार आचार्यैः कृतः, यथा - "क्लीबे” [ २.४९७] इति, "नपुंसकस्य शिः " [१४. ५५. ] इति च ततश्चेदृशे विषये न लाघवगौरवचर्चा 175 “अवित्' करणापेक्षया कित्करणे लाघवं यथोक्तार्थबोधनेऽपि समर्थ, तथैव " अनवर्णा नामी " [१.१.६.] इत्यत्र संज्ञाया एकवचनान्तत्वोपन्यासेन संध्यपेक्षया वचनभेदं कुर्वताऽऽचायेंणान्योऽर्थोऽपि बोधितः, स चायं - "यत्र नामिनः कार्य क्रियते
|
।
40 इत्यनुखारानुनासिकयोः पाक्षिकयोरेव फलत्वात्, अन्यथा । तत्र यदा कार्यात् कार्यों खरो न्यूनः स्यात् तदेव नामिसंज्ञा- 80
10
35
१०४