________________
[ १ उल्लासे न्याय: ५७, २ उल्लासे न्याय: १] न्यायार्थसिन्धु-तरङ्गकलितो न्यायसमुच्चयः ।
वारयति, शास्त्रत्वं च सूत्रन्याययोरेव स्वमते इति प्रतिपादितं । पूर्वम्, ततश्च नियमस्या निष्टार्थत्ववारणं नानेन कर्तुं शक्यत इतीष्टनियमबोधनाय सार्थक्यमेवकारस्येति तेन नास्य न्यायस्या- । नित्यत्वं साधयितुं शक्यते । किञ्च तत्र “ नेदमसोरकि" इत्यपि 5 न्यासः कर्तुं शक्यते, इदमदसोर कि सति भिस ऐस नेत्यर्थेनैवेष्टसिद्धेरिति तदर्थमेवकारस्यानुपयुक्तत्वमेवेति न तेन न्यायानित्यत्वज्ञापनमुचितम् । न च तथैव न्यासः कुतो न कृतः, तथा सति सार्धमात्रालाघवमपीति वाच्यम्, विधिप्रकरणत्वेन तनिर्वाहाय विधेरेवाश्रयणीयत्वौचित्यात् । न च नियमसूत्राणां निषेध 10 मुखेन प्रवृत्तिरिति नियमेऽकृतेऽपि निषेध एव फलतीति वाच्यम्, विधिमुखेनापि प्रवृत्तेः स्वीकारात् अत्र तथैवाश्रयणात् । यद्यपि विधेरिह सिद्धत्वेन निषेध एव शास्त्रतात्पर्यमिति तन्मुखे नैव प्रवृत्तिरुचिता, तथापि शब्दतो निषेधाप्रतीतेर्विधिकरणत्वा- |
।
व्याघातादित्यास्तां विस्तरेणेति ॥ ५७ ॥
155
20
KANIKIRIKTIRIRSKRINKINIAIRES इति न्यायसमुच्चयस्य सिन्धुकलिते प्रथमोलासे कलिकाल
www.www.www
Www
सर्वज्ञेन भगवता श्री हेमचन्द्रसूरीश्वरेण समुचितानां
wwwwwwwwwww
सप्तपञ्चाशतो न्यायानां तपोगच्छाधिपति सूरिचकचक्रवर्ति सर्वतन्त्र स्वतन्त्र- श्रीमद्विजयने मिसूरीवरपट्टालङ्कारेण 'व्याकरण वाचस्पतिशास्त्रविशारद-कविरत्न' इति पदालङ्कृतेन विजयलावण्यसूरिणा विरचितं
तरङ्गाभिधं विवरणम् ॥
25
30
क्वचित् प्राच्यः पन्थाः क्वचिदपि च नव्यो बुधपथः, क्वचित् स्वातन्त्र्याध्वा क्वचिदपि च तेषां समुदयः । श्रितोऽस्मिन् शिष्याणां मतिविकसनार्थं शुभधिया,
बुधैर्बुद्धा तत्त्वं तदनुगतमर्थं श्रितजने ॥ १ ॥ सूरीन्द्रं हेमचन्द्रं कलिसकल विदं संस्मरामोऽभिरामं,
धीमन्तं हेमहंसं गणिमणिममलं तं कथं विस्मरामः । न्यायानामर्थसार्थ निजमतघटितं धारयन्तीं यदीयां,
मषां प्राप्य जाता वयमिह प्रभवः साधु सिन्धौ तरङ्गे ॥ २ ॥
AMA
९५
[ अथ न्यायसमुच्चये द्वितीयोल्लासः ] अथान्येऽपि तत्र तत्राचार्यैः कण्ठतोऽभिप्रायतश्च व्यवहृता वाचक श्री हेमहंसगणिना च समुश्चिता ये न्यायास्ते व्याख्यायन्ते
35
* प्रकृतिग्रहणे खार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ १ ॥
सि० - यस्मात् प्रत्ययो विधीयते स शब्दः प्रकृतिः, स च द्विविधः धातुरूपो नामरूपश्च तस्य ग्रहणं यत्र तच्छाखं प्रकृतिग्रहणम्, तत्र स्वार्थिकप्रत्ययान्तानामपि स्वस्याः प्रकृतेरर्थ एव 40 शाप्यो येषां ते स्वार्थिकाः ते च ते प्रत्यया अन्ते येषां तेषामपि [ प्रकृतीनामिति योग्यतया सम्बन्धनीयम्, ] ग्रहणं भवतीति न्यायार्थः । केवलप्रकृतिग्रहणे प्रत्ययान्तस्य ग्रहणं प्राप्नोति स्वरूपभेदादिति तत्प्रायर्थोऽयं न्यायः । अत्र च ज्ञापकसर्वादिगणे नियमार्थं उत्तर-उतमप्रत्ययोपादानम्, तथाहि -तदु- 46 पादानेऽयमाशयः - इतर- इतमौ प्रत्ययौ प्रत्ययस्य च केवलस्य *न केवला प्रकृतिः प्रयोक्तव्या, नागि केवलप्रत्ययाः इति महाभाष्यादिसम्मतरीत्या प्रयोग एव नास्तीति कुतस्तयोः संज्ञासंभवः ?, ततश्च प्रत्ययः प्रकृतिं विनाऽनुपपद्यमानः प्रकृतिमाक्षिपति, येन विना यदनुपपन्नं तत् तेना क्षिप्यते इति 50 • न्यायात्, ततश्च येभ्यो यत्-तत्- किमन्यैक-शब्देभ्यः स्वार्थिकौ
तर - तमौ संभवतस्ते यदादिशब्दा इतर-डतमान्ता इह उतरइतमाभ्यां संगृह्यन्ते, तेन यतरस्मै यतरस्मादित्य । दिषु स्मायादयः सिद्धाः, किन्तु सूरिभिरस्य उतर-उतमयो रुपादानस्य नियमार्थत्वमुक्तम् । तथाहि - “सर्वादेः स्मैस्मातौ [ १.४.७] 55 इति सूत्रे बृहद्वृत्ति:- "डतर-डतमौ प्रत्ययौ, त्योः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्य - यान्तानामग्रहणार्थम्, अन्यादिलक्षणदार्थ च" इति । नियमाकारश्चायम्- 'यदि सर्वादीनां स्वार्थिकप्रत्ययान्तानां प्रकृतिसर्वादिव्वद्वारेण सर्वादित्वं स्यात् तदा इतर- डत्तमान्तानामेव स्थान 60 स्वन्यस्वार्थिकप्रत्ययान्तानाम्' इति, तेन प्रकृष्टार्थे स्वार्थिकतममपि सर्वतमाय सर्वतमादित्येव भवति, न तु स्मायादयो भवन्ति । इत्थं चान्यस्वार्थिकप्रत्ययान्तानां सर्वादित्ववारणाय क्रियमाणस्य उतर - तमग्रहणस्य तदैव तदर्थत्वं स्याद् यदि तेषामन्यस्वार्थिकप्रत्ययान्तानामन्त्र ग्रहणं केनापि प्राप्तं स्यात्, न च सा 66 प्राप्तिः प्रकृतन्याय मन्तरेण सम्भवतीति प्रकृतन्यायं विनानुपपद्यमानं इतर- दत्तमयोर्नियामकत्वं प्रकृतन्यायं ज्ञापयतीति स्वीकायम् । तत्र धातुरूप प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तग्रहणस्योदाहरणं
यथा- "विनिमेय यूतपणं पणि-व्यवहोः " [२. २. १६. ]
1