________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
3D
नयामृत-एवम्भूतस्विति । सर्वत्र व्यञ्जनं--शब्दस्ते नार्थ विशेषयति यः स एवम्भूतः, "वंजणअत्थ-तदुभयं एवंभूओ विसेसे इ" [ विशेषावश्यकनियुक्तिगाथा-२१८५ ] इति नियुक्तिकारः, व्यञ्जनार्थयोरेवम्भूतः" [ तत्वार्थसूत्रे, अ० १, सू० ३५ ] इति तत्त्रार्थभाध्यम् , पदानां व्युत्पत्त्यर्थान्वय. नियतार्थबोधकत्वाभ्युपगन्तृत्वमेवम्भूतत्व मिति निष्कर्षः, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिः । अयं चाम्याभिमान:-यदि घटपदव्युत्पत्त्यर्थाभावान कुट पदार्थोऽपि न घटपदार्थस्तदा जलाहरणादिक्रियाविरहकालेऽपि घटो न घटपदार्थो धात्वर्थ विरहाविशेषादिति । व्यञ्जनार्थ विशेषकत्वमस्य यदुक्तं तदुदाहरति- राजचिकैः- छत्र चामरादिभिः, यथा राजन्- शोभमानः, सभायामुपविष्टो राजोच्यते, अन्यदा- छत्र-चामरा दिशोभाविरह काले, राजशब्दभाग- राजशब्दवाच्यो न भवति, राजपदव्युत्पत्ति निमित्ताभावादित्यर्थः । ___नन्वतन्मते व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिनित्तमिति केनचिद्रूपेण तदतिप्रसक्तं वाच्यम् , अन्यथा तु गच्छतीति गौः' इति व्युत्पत्त्या गच्छन्नश्वादिरपि गौः स्यात् , तथा च छत्र चामरादिविरहकाले तत्प्रयुक्तराजनाभावेऽपीतरातिशायिपुण्यादिप्रयुक्तराजनस्यानतिप्रसक्तस्याव्याहतत्वात् कथं न राजशब्दवाच्यत्वमिति यस्य स व्यञ्जनार्थविशेषण इति बहुव्रीहिरत्र समासः, तमवलम्ब्य फलितमर्थमुपदर्शयितुमाह- सर्वत्रेति- शब्दमाने इत्यर्थः । तेन शब्देन । एवम्भूतनयो व्यजनेनार्थ विशेषयतीति नियुक्ति-तत्त्वार्थभाष्यसम्मतमित्युग्दर्शयितुं नियुक्ति चन तत्त्वार्थभाष्यवचनं चोल्लिखति- वंजणत्ति, व्यञ्जनेति च-" व्यञ्जनमर्थं तदुभयमेवम्भूनो विशेषयति" इति संस्कृतम् । ततश्चैवम्भूतस्य निष्कृष्टलक्षणं दर्शयति--पदानामिति- बहुवचनेन पदत्यध्यापकत्वं व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वे लभ्यते, तथा च पदत्वव्यापकं यद् व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वं तदभ्यु'झ्यन्तृत्वमेवम्भूतत्वमित्यर्थः, यदा यस्मिन् देशे गमनक्रियावत्या गवि गोपदं प्रयुज्यते तत्र पदत्वं गोपदे वर्तते, तत्र गच्छति गौरिति व्युत्पत्त्यों गमनक्रिया, तदन्वयेन कालतो देशतश्च निय. तोऽथों गमनक्रियावान् गोरूपार्थः, तद्बोधकत्वं समस्तीति तदभ्युपगन्तृत्यमेवम्भूननये समस्तीति लक्षणसमन्वयः। यदा यदा यत्र यत्र देशे विद्यमानायां गवि गोशब्दः प्रयुज्यते तदा तदा तस्मिंस्तस्मिन् देशे गमनक्रिया भवतु मा वा कदाचित् कस्मिन् देशे गवि गमनक्रियायतमात्रेमापि गोशब्दः प्रवर्तत इत्यभ्युपगच्छतः समभिरूडस्पैन म मातिप्रमवारणाय कालतो देश तश्व व्युत्पत्त्यर्थान्वयनियमोऽत्र प्रविष्ट इत्याह-नियमश्चति । समभिरूढन प्रशिक्षणार्धर्मतन्नयाभिप्रायमुरदर्शयति- अयं चेतिअनन्तरमेव निरूप्यमाण इत्यर्थः । अस्य एवम्भूतनयस्य । यदीत्यादिना तदभिमानोइङ्कनम् , “कट कौटिल्ये" इत्यनुपारात कुटपदार्थः कौटिल्यक्रियालिङ्गितोऽयों यदि " घट चेष्टायाम्" इत्यनु साराद् घट पदव्युत्पत्त्यर्थ जला हरणा दिकिया लक्षणचेष्टा. भावान घटपदार्थ इत्येवं समभिडनयन स्त्रीक्रियते तदा घटो यदा जलाहरणादिकियां न करोति तदानीं सिमिति सममिरूढन घटो घटपदार्थोऽनुमतः ? प्रत्युत धात्वर्थजलाहरणादिक्रियालक्षगचेष्टाभावात् तदानी घटो न घटपदार्थ इत्येत्र स्त्रीकर्तमुचितमित्यर्थः। उत्तरार्धमुदाहरणोपदर्शनपरतयाऽस्तारयति-व्यञ्जनाति । अस्य एवम्भूतन यस्य । राजन् राजा इत्येव राजपदव्युत्पत्तिः परं गुणान्तरैरन्योऽपि शोभमानो दृश्यत इति तत्र राजादप्रवृत्तिर्मा प्रसाली दिति राजचिरिति । असाधारणस्यंत्र लक्षणत्वं सम्भवतीत्याभसन्धानेन तस्य विवरणम्-छत्र-चामरादिभिरिति । एकस्स छत्रादेरन्यत्रापि सम्भवानासाधारणत्वमतो यादृशस्य च्छनादेनान्यत्र सद्भावश्चामराद्युपेतस्य च्छत्रादेश्छवायु रेतस्य चा मरादेस्तादृशस्य प्रणाय छन्नादिभिरित्यनुक्त्या छत्र-चामरादिभिरित्युक्तम्, छत्र-वामरादिमिरसौ न सर्वदाऽऽलितो भनीत्यत उक्तम्-सभाया. मुपविष्ट इति, तथा च सभोपविष्टत्वे सति च्छत्र-चामरादिप्रयुक्तराजनयत्त्वमेव राजशब्दव्युत्पत्तिनिमित्त , तद्वानेव राजेति व्यादिश्यते एवम्भूननये इत्यर्थः । अत्र शङ्कते-नन्विति । एतन्मते एवम्भूतन। 'तदतिप्रसक्तम' इत्यस्य स्थाने 'तदनतिप्रसक्तम्' इति पालले युक्तः, तत् व्युत्पत्तिनिमित्तम् , अनतिप्रसकं तत्तच्छब्दशक्येतरावृत्ति ।