________________
३४४ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः । पाकजन्मना ज्ञानेन अज्ञानादिबाधः, तथाहि-तस्मिन् मते चैतन्यातिरिक्तपदार्थानामज्ञातसत्त्वं नास्ति, मिथ्यात्वस्य स्वप्नादिदृष्टान्तसिद्धत्वात् तादृशस्यैव सत्त्वस्याङ्गीकारात् एवं च घटादीनां यदा प्रतीतिस्तदा तत्वम् , नान्यदेति न दण्डादिजन्यत्वम्, किन्त्वज्ञानमात्रजन्यस्वम् , स्वप्नवञ्च दण्डाद्युपादानम् । अज्ञान. देहादिकं तु भासमानमेव तिष्ठति । अभावनिश्चयाभावाच पुत्राद्यभावकृतरोदनाद्यप्रसङ्गः, प्रत्यभिज्ञानमपि भ्रम एव, ततश्चाकाशादिक्रमेण सृष्टिः, पश्वीकरणं ब्रह्माण्डाद्युत्पत्तिश्चैतन्मते नास्त्येव, घटादेरपरोक्षं कस्यापि सत्त्वमित्यनेकजन्मसाध्यत्यान्ताभ्यासलक्षगश्रवणादिपरिपाकासम्भवात् कुतस्तत्प्रभवेनाऽऽत्मसाक्षात्कारेणाज्ञानादिवाध. सम्भव इत्याशङ्कते- कथं पुनरिति । निरुक्ताज्ञानादिवाधासम्भवमेव भावयति-सथाहीत्यादिना । तस्मिन् मते दृष्टिसृष्टिवादिमते । चैतन्यरूपस्य ब्रह्मणः सदातनत्वं तन्मतेऽप्यनीक्रियत इत्यत उर्फ चैतन्यातिरिक्तेति । अज्ञातसस्वं नास्तीत्यनेनाज्ञातसत्त्वप्रतिषेधेन चैतन्यातिरिक्तपदार्थानां ज्ञातसत्त्वमेव- ज्ञान कालीनसत्त्वमेव तन्मते समस्तीत्युपदर्शितम् । मिथ्यात्वस्येति-प्रप्रचो मिथ्या दृश्यत्वात् स्वप्नादिवदित्यनुमानतः प्रपञ्चमात्रस्य स्वमादिदृष्टान्तेन मिथ्यात्वस्य सिद्धत्वात्, तादृशस्यैव-मिथ्यात्वस्वरूपस्यैव ज्ञातसत्त्वस्य प्रपञ्चे स्वीकारादित्यर्थः । एवं च प्रपञ्चेऽज्ञातसत्त्वाभावस्य सिद्धौ च । तदा प्रतीतिकाले । तत्त्वं घटादीनां सत्त्वम् । नान्यदा प्रतीतिसमयातिरिकसमये न सत्त्वम् । इति एतस्माद्धेतोः । न दण्डादिजन्यत्वमिति- दण्डादिसमवधानसमयातिरिक्तसमये प्रतीयमानस्य घटादेस्तदेयोत्सत्तिः, तदानी धानाभावाद् दण्डादेर्घटादिनियताव्यवहितपूर्ववर्तित्वाभावेन कारणत्वाभावाद् दण्डादिनिष्ठकारणतानिरूपितकार्यतालक्षणं दण्डादिजन्यत्वं घटादीनां नास्तीत्यर्थः । तत् किं कारणं विनैव घटादीनामुत्पत्तिरिति पृच्छति-किन्विति । अज्ञानस्यानादेस्तन्मतेऽपि स्वीकारात् तस्य घटादिकारणत्वसम्भवेन तज्जन्यत्वं घटादेः सम्भवतीत्युत्तरयति- अमानमात्रजन्यत्वमितिघटादीनामित्यनुवर्तते । नन्वेवं घटादीनां दण्डादिजन्यत्वमाकलय्य तदर्थ दण्डादीनामुपादानं लोकैः क्रियते तदप्यनुपपन स्यादित्यत आह-स्वप्नवच्चेति-स्वप्नेऽपि घटादीनामज्ञानमात्रप्रभवाणामुत्पत्त्यर्थं दण्डाद्युपादानं यथा तथा प्रकृतेऽपीत्यर्थः, तथा च तत् कल्पितत्वान्मिथ्यवेति भावः । कथं तद्यज्ञानादीनामवस्थानमत आह- अज्ञानेति- तदवभासनं च साक्षिणेति बोध्यम् । ननु पितृ-मात्रादीनां यदा पुत्रादिदशनं नास्ति तदानीं पुत्राद्यभावात् तत्कृतरोदनादिप्रसङ्गः स्यादित्यत आह-अभावति- अदर्शनकाले पुत्रादीनामभावेऽपि पित्रादेः पुत्राद्यभावनिश्चयो नास्ति, पुत्रायभावनिश्चय एवं रोदनादि. कारणम्, वास्तविकसत्त्ववादिमतेऽपि देशान्तरगतस्य पुत्रादेर्मरणे तदभावो विद्यते, नैतावता पित्रादिभी रोदनं क्रियते, यदा दलादिन। तदभावनिश्चायकेन तदभावो निश्चीयते तदैव रोदनादिकं क्रियते इति स्वरूपसतः पुत्रायभावस्य न रोदनादिकारणत्वं किन्तु निश्चितस्यैवेति तदभावनिश्चयरूपकारणाभावान रोदनादिप्रसङ्ग इत्यर्थः। ननु ‘स एवायं घटः, स एवायं पुत्रः' इत्यादिप्रत्यभिज्ञानात् पूर्वकालीनदर्शनविषयेण घटादिना वर्तमानकालीनदर्शन विषयस्य घटादेरभेदः सिध्यति, स च तदैवोपपद्यते यद्यन्तरालसमयेऽज्ञातोऽपि घटादिः स्यादित्यन्तरालकालेऽपि घटादिविद्यते, एवं च प्रत्यभिज्ञानेन बाधान्न ज्ञातमात्रसत्रं घटादीनामित्यत आह-प्रत्यभिज्ञानमपीति- लून-पुनर्जातनख-केशादौ स एवार्य नख-केशादिरिति प्रत्यभिज्ञानं लून-पुनर्जातनख केशादेरभेदाभावेऽपि सौसादृश्यादिदोषाद् प्रान्तं समुद्भवति; दीपकलिकादावयनवरतविभिन्नतैलाधुपादानतो विभिन्नमेव दीपकलिकादिकमुपजायत इति पूर्वापरदीपकलिकाद्योरभेदाभावेऽपि संवेयं दीपकलिकति प्रत्यभिज्ञानमभेदावगाहि प्रान्तमुपजायते सौसादृश्यादिदोषात् तथा सर्व प्रत्यभिज्ञानं भ्रम एवेति न ततो. ऽज्ञातसवसिद्धिरित्यर्थः। तत्र सृष्टिक्रमो न विद्यत इत्याह- ततश्चेति- यदा घटादीनां प्रतीतिस्तदानीमेव घटादीनां सत्वमित्युपगमाचेत्यर्थः । आकाशादिक्रमेण सृष्टिरित्यस्य नात्स्येवेत्यनेनान्वयः, एवं पञ्चीकरणं ब्रह्माण्डाद्युत्पत्तिश्चेत्यस्यापि । पतन्मते दृष्टिसृष्टिवादिमते । ननु अपरोक्षकारणस्येन्द्रियादेरज्ञानकाले सत्त्वं नैतन्मते समस्तीति यदा घटादीनां दर्शनं तत्पूर्वकाले इन्द्रियादेर्दर्शनाभावादतीन्द्रियत्वाच्च न सत्त्वमिति तज्जन्यत्वभावादिन्द्रियादिजन्यं ज्ञान प्रत्यक्ष. मिति लक्षणलक्षितप्रत्यक्षस्त्ररूपं घटादेर्शानं न स्यादित्यत आह- घटादेरपरोक्षमिति- अपरोक्षस्वरूपचैतन्येऽभ्यासादेव घटादेरपरोक्षं ज्ञानमित्यर्थः । ननु क्षणमात्रस्थायित्वाद् घटादिज्ञानं क्षणिकं तदात्मकसत्वमेव घटादेरिति तस्यापि क्षणिकत्व. मिति यत् सत् तत् क्षणिकमिति व्याप्तितः सर्वस्य क्षणिकत्वमभ्युपगच्छतो बौद्धस्य मते दृष्टिसष्टिवादिमतस्य प्रवेशः