________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तथा पूर्वकमनुभवाभावात्, प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितौ च ततः प्रमेयवानित्याकारकबोधस्यैव सम्भवात् न च प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधक रहिता ( तत्वा) च्छुद्ध दशरथस्वादिप्रकार कस्मरणोपपत्तिः, तत्प्रकारकस्मृतौ तत्प्रकार कानु भवत्वेनैव हेतुत्वादिति वाच्यम्, अन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकार कस्मृति प्रति शुद्धतत्प्रकार कानुभवस्वेनैव हेतुत्वसिद्धेः न च प्रमेयाभाववदित्यादिज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्व लक्षण सम्बन्धविषयकात् ज्ञानलक्षणप्रत्यासत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभ, सर्वज्ञापत्तिभिया सांसर्गिक ज्ञानस्यानुपनायकत्वस्वीकारात् । तस्मादत्र दशरथपदवाच्यत्ववति दशरथपदवृत्तिप्रकारकज्ञानाद् यथा दशरथपदवाच्यत्वेन
२९७
शतमिति शक्तिमहः प्रमेयत्वेन रूपेण दशरथत्वादिप्रकार कानुभवतः सम्भवति, तेन च शक्तिप्रहेण प्रमेयत्वादिना दशरथत्वादिप्रकार कोपस्थितिरपि दशरथादिपदाद् भवितुमर्हति तथापि तयोपस्थितितः प्रमेयवानित्याकारक एव शाब्दबोधः प्रमेयत्वेन दशरथत्वादिप्रकारको भवेन्न तु दशरथादिरित्याकारकः शुद्धदशरथत्वादिप्रकारकः शाब्दबोध इत्याह- प्रमेयत्वादिनेति । ततः प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिद्वारा दशरथादिपदात् । ननु प्रमेयत्वादिना दशरथत्वादेर्विशिष्टे - ऽनुभूते दशरथादिपदानां शक्तिप्रहेऽपि तदनुभवाहितात् प्रमेयवानित्याकारक संस्कारात् प्रमेयत्वांशे उद्बोधक रहितात् प्रमेयत्वं परित्यज्य शुद्धदशरथत्वादिप्रकार कस्मरणं सम्भवति तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्ध दशरथत्वादिप्रकार कशाब्दबोधोऽपि सम्भवत्येव, अनुभव-स्मरणयोः समानप्रकारकत्वेनैव कार्यकारणभाव उपयत इति दशरथत्वादिप्रकारकस्मरणं प्रति दशरथत्वादिप्रकारको ऽनुभवः कारणम्, न तु शुद्ध दशरथत्वादिप्रकारकस्मरणं प्रति शुद्धदशरथत्वादिप्रकारकोऽनुभव: कारणमित्येवं प्रकारांशे शुद्धत्वादिकमपिं निवेश्यते, एवं च प्रमेयत्वेन दशरथादिविशिष्टानुभवोऽपि दशरथत्वादिप्रकार का नुभवो भवत्यैवेति ततः शुद्धदशरथत्वादिप्रकार कम्मरणस्य दशरथत्वादिप्रकारक स्मरणलक्षणो कानुभवकार्यतावच्छेदकधर्माकान्तस्योदयः सम्भवतीत्युक्तस्मरणलक्षणोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकः शाब्दबोधः स्यादेवेत्याशङ्क्य प्रतिक्षिपतिन चेति- अस्य वाच्यमित्यनेनान्वयः । निषेधे हेतुमाह- अन्वयव्यतिरेकाभ्यामिति - शुद्धतत्प्रकार का नुभवसरखे शुद्धतत्प्रकारकस्मरणं शुद्धतत्प्रकारकानुभवाभावे शुद्धतत्प्रकारकस्मरणाभाव इत्यन्वयव्यतिरेकाभ्यामित्यर्थः एवं च शुद्धदशरथत्वादिप्रकार कानुभवाभावाच्छुद्धदशरथत्वादिप्रकार कस्मरणलक्षोपस्थित्यनुत्पत्या न दशरथादिपदाच्छुद्धदशरथत्वादिप्रकार कशाब्दबोधो भवेदित्यर्थः । ननु प्रमेयाभाववदित्यादिज्ञानं शुद्धदशरथत्वाद्यवच्छिन्न प्रतियोगितासम्बन्धेन प्रमेयप्रकारकाभावावेशेष्यकज्ञानरूपमपि सम्भवति, तस्मादेव च ज्ञानलक्षणप्रत्यासत्तिलक्षणालौकिकसन्निकर्षान्मनोरूपेन्द्रियेणेदानीन्तनानामपि शुद्धदशरथत्वादिप्रकारकालौकिकप्रत्यक्षात्मकानुभवो भविष्यति, तदनुभवतश्च शुद्धदशरथत्वादिप्रकार कस्मरणमपि भवितुमर्हति तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्ध दशरथत्वादिप्रकार कशाब्दबोधोऽपि भविष्यतीत्याशङ्कां प्रतिक्षिपति - न चेति । यदि चान्वयितावच्छेदकावच्छिन्न प्रतियोगितैव संसर्गविधया भासत इति दशरथत्वादिकं नान्वयितावच्छेदकमिति न तदवच्छिन्नप्रतियोगितायाः संसर्गविधया मानमिति विभाव्यते तदापि प्रमेयत्वेन दशरथादेरप्यभावेऽन्वय इति प्रतियोगिनो दशरथादेदशरथत्वादिस्वरूपमेव प्रतियोगित्वं संसर्ग इत्येतावताऽपि संसर्गविधया दशरथत्वादिखरूपप्रतियोगितालक्षणसंसर्गज्ञानरूपं तज्ज्ञानलक्षणविधया दशरथत्वाद्यलौकिकमानसप्रत्यक्षकारणं भविष्यतीति बोध्यम्, एवं सति प्रमेयाभाववदित्यादिज्ञाने धर्ममात्रस्वरूपप्रतियोगित्वस्य संसर्गविधया भानसम्भवेन तज्ज्ञानस्य ज्ञानलक्षणप्रत्यासत्तिविषया निरवच्छिन्नधर्ममात्र प्रकारकालौकिकमानसप्रत्यक्षकारणत्वसम्भवेन ततः सर्वज्ञानसम्भवतः सर्वज्ञत्वापत्तिरेव प्रसज्यत इति तद्भिया संसर्गविषया ज्ञानस्य न ज्ञानलक्षणप्रत्यासत्तिविधया कारणत्वमित्येव स्वीकरणीयमिति निषेधहेतुमुपदर्शयति- सर्वज्ञापत्तिभियेति - अत्र सार्वश्यापत्तिभियेति पाठो युक्तः । अनुपनायकत्वं ज्ञानलक्षणप्रत्यासत्तिविधया भानाप्रयोजकत्वम् । शब्दाऽर्थयोस्तादात्म्ये सत्येव सम्बन्ध इति प्रतिज्ञातमुपसंहरति तस्मादिति । अत्र दशरथादिपदस्थले । दशरथपदवाच्यत्त्वयतीत्यत्र सप्तम्यर्थो विशेष्यत्वम्, तस्य निरूपकतासम्बन्धेन ज्ञानेऽन्वयः तथा च दशरथपदवाच्यत्ववन्निष्ठविशेष्यतानिरूपकदशस्थपद
३८