________________
२९६
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । स्मकाः, तदाकारानुस्यूतत्वात् , सुवर्णात्मककुण्डलादिवद्' इत्यादितः शब्दब्रह्मसाम्राज्यसिद्धेः। न च प्रमाणाधीना प्रमेयव्यवस्था, प्रमाणं च चिदात्मकमेवानुभूयत इति तत्र शब्दरूपत्वासिद्धिः, निराकारस्य ज्ञानस्यार्थाप्राहकत्वेन व्यवहारेऽनाश्रयणीयत्वात् , साकारस्य च तस्य वागरूपतां विना असम्भवात् , तदुक्तम्" वागरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १॥"
] इति । अत एव शब्दार्थसम्बन्धो वैयाकर्णैरभेदेनैव प्रतिपादितः, युक्तं चैतत् , कथमन्यथा अदृष्टदशरथादीनामिदानीन्तानानां दशरथादिपदाच्छाब्दबोधः ? शुद्धदशरथत्वादिनोपस्थितेस्तत्रासम्भावनीयत्वात्
प्रामा-ssरामादीनां शब्दाकारणानुस्यूतत्वादिति तदर्थः, सुवर्णात्मककुण्डलादिवदिति दृष्टान्तवचनम्, अत्र यद् यदाकारानुस्यूतं तत् तदात्मकं यथा कुण्डलादिकं सुवर्णाकारानुस्यूतं सुवर्णात्मकमिति उदाहरणप्रयोगः । इत्यादितः इत्याद्यनुमानप्रयोगतः। शब्दब्रह्मसाम्राज्यसिद्धेः सर्वस्य वस्तुनः शब्दतत्वात्मकब्रह्मात्मकत्वसिद्धेः । ज्ञानभिन्नस्य सर्वस्य प्रमेयस्य ज्ञानात्मकप्रमाणेन शब्दतत्त्वात्मकत्वसिद्धेः सम्भवेऽपि ज्ञानात्मकस्य प्रमाणस्य चिदात्मकत्वेनैव स्वसंवेदनप्रत्यक्षेणानुभूयमानस्य प्रत्यक्षबाधान शब्दतत्त्वात्मकरवसिद्धिरित्याशङ्का प्रतिक्षिपति- न चेति- इदं शब्दात्मकमिदं वा ज्ञानात्मकं ब्रह्मात्मकं वेत्येवं प्रमेयव्यवस्था प्रमाणाधीनैव मन्तव्या, अन्यथा सर्वस्य वस्तुनः परस्परात्मकत्वमपि वाड्यात्रेण सिद्धयद् व्यवस्थामेवोत्सादयेदिति प्रमाण चिदात्मकमेवानुभूयते इति तत्र चिदात्मके प्रमाणे शब्दरूपत्वासिद्धिरिति न चैत्यर्थः । निषेधे हेतुमाह- निराकारस्येतिइदमेतदात्मकमिदमेतदात्मकमिति व्यवहारस्वरूपैत्र प्रमेयव्यवस्था, ज्ञानमपि स्वसंवेदनं चिदात्मकमिति व्यवस्था व्यवहाररूपैच, एवं च सर्वोऽपि व्यवहारः साकारज्ञानादेवार्थग्राहकात् प्रवर्तते न स्वर्थाप्राहकानिराकारज्ञानात् , तस्य स्वसंवेदनेनाप्यननु - भूयमानस्यासिद्धत्वात् , साकारस्य च ज्ञानस्य वापतां विनाऽसम्भवादित्यन्यथानुपपत्या ज्ञानस्यापि चिदात्मकस्य शब्दे.
च्छिन्दात्मकत्वं सिद्धिपद्धतिमुपयातीत्यर्थः । ज्ञानस्यापि शब्दरूपत्वे भर्तृहरिवचनं संवादकतयोपदर्शयति-तदक्त मिति । वायूपतेति-चेत् यदि, अवबोधस्य ज्ञानस्य, वाग्रूपता शब्दरूपता, शाश्वती सर्वकालिकी स्वाभाविकी, व्युत्क्रामत् न भवेत् , तहति शेषः, प्रकाशः अवबोधः, न प्रकाशेत स्वसंवेदनेन नानुभूयेत, हि यतः, सा वापता, प्रत्यवर्शिनी ज्ञानस्वरूपनिश्चयकारिणी, शब्देन ज्ञानस्वरूपोल्लेखमन्तरेण किंस्वरूपं ज्ञानमित्येवावधारी इत्यर्थः । अत एव जगतः शब्दात्मकत्वादेव । शब्दार्थसम्बन्धः शब्दस्यार्थेन समं सम्बन्धः, "वैयाकर्णैः" इत्यस्य स्थाने "वैयाकरणः" इति पाठो युक्तः, अभेदेनैव तादात्म्येनैव, शब्दार्थयोर्वाच्यवाचकभावसम्बन्धस्तयोस्तादात्म्यादेव भवतीत्येवं वैयाकरणैः प्रतिपादितः प्रदर्शितः । शब्दार्थयोस्तादात्म्यसम्बन्धस्य युक्त्युपेततां भावयति- युक्तं चैत. दिति-वैयाकरणैः शब्दार्थयोस्तादात्म्यसम्बन्धप्रतिपादनं युक्तमित्यर्थः । कथमित्यस्य शाब्दबोध इत्यनेनान्वयः । अन्यथा शब्दार्थयोस्तादात्म्यसम्बन्धाभावे । अष्टदशरथादीनामिति-न दृष्टा दशरथादयो यैस्तेऽदृष्टदशरथादय. स्तेषामित्यर्थः । दशरथादिसमानकालीना अपि दूरदेशाद्यवस्थानादिना कतिपये अदृष्टदशरथादयः सम्भवन्ति तथाऽपि येषां कथञ्चिदपि न दशरथादिदर्शनं सम्भवति तेषां सुगमावगतिनिमित्तमुक्तम्- इदानीन्तनानामिति- ऐदंयुगीनानां प्रमातॄणामित्यर्थः। दशरथादिपदात् कथमिदानोन्तनानां शाब्दबोधो न भवेच्छन्दार्थयोस्तादात्म्यसम्बन्धाभावे इत्यपेक्षायामाहशुद्धति-अन्यधर्मानवच्छिन्नेत्यर्थः, तेन मेयत्वधर्मावच्छिन्नदशरथत्वादिलोपस्थितिसम्भवेऽपि न क्षतिः। तत्र अदृष्टदशस्थादिष्विदानीन्तनेषु । शुद्धदशरथस्वादिनोपस्थितेस्तत्र कथमसम्भावनीयत्वमित्याकालायामाह-तथेति- शुद्धदशरथस्वादिनत्यर्थः । “पूर्वक" इत्यस्य स्थाने "पूर्व" इति पाठो युक्तः, येषां निरवच्छिन्नदशरथत्वादिप्रकारकदर्शनात्मकानुभवो नास्ति तेषां दशरथादिपदं निरवच्छिन्नदशरथत्वादिविशिष्टे शकमिति शक्तिमहो न सम्भवति, शक्त्यनुभवाभावे शक्तिस्मरणमपि न सम्भवति, अनुभवस्य स्मरणं प्रति कारणत्वात् , तथाविधशक्तिमहाभावे दशरथादिपदानिरवच्छिन्नदशरथादिप्रका. रकस्मरणं न सम्भवति, तत् प्रति संस्कारद्वारा कारणस्य निरवच्छिन्नदशरथत्वादिप्रकारकानुभवस्य निरवच्छिन्नदशरथत्वादिविशिष्टे दशरथादिपदशक्तिप्रहस्य चाभावादिति नेदानीन्तनामामटदशरथादीनां दशरथादिपदानिरवच्छिन्नदशरथत्वादिप्रकारकशाब्दबोधस्य सम्भवः, शब्दाऽर्थयोस्तादात्म्यसम्बन्धाभावे इत्यर्थः। यद्यपीदानीन्तनानामपि दशरथादिपदं प्रमेयविशिष्टे