________________
नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
२७५
सादृश्येतरसम्बन्धनिमित्तकत्वमपहायेन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं वाच्यम् , तच्च न स्थापना. व्यावृत्तमिति नाम्ना स्थापनासङ्घहो युक्त एवेति भावः ॥ ९५ ।।
इदं कैश्चिन्मतं तच्च, भाष्ये दूषितमुच्चकैः ।
नाम्नैव द्रव्यनिक्षेपेऽप्येवं सङ्ग्रहसम्भवात् ॥ ९६ ॥ नयामृत-इदमिति । इदं कैश्चिदाचार्यैर्मतम्-अङ्गीकृतम् , तच्चोच्चकर्महता प्रबन्धेन भाष्य एवं दूषितम् , एवम्- उपचारविषयत्वस्यैव नामार्थत्वे, द्रव्यनिक्षेपेऽपि- द्रव्यनिक्षेपविषयेऽपि, नाम्नैवनामपदार्थतयैव सहसम्भवात् ॥ ९६ ॥ भावप्रवृत्तिताप्रयोजकसम्बन्धभेदान्नाम-द्रव्ययो)दो भविष्यतीत्याशङ्कायामाह
परिणामितया द्रव्यं, वाचकत्वेन नाम च ।
भावस्थमिति भेदश्चेन्नामेन्द्रे दुर्वचं ह्यदः ॥ ९७ ॥ नयामृत-परिणामितयेति । परिणामितया द्रव्यं भावे सम्बद्धम् , नाम च वाचकत्वेन वाच्य-वाचकभावेन सम्बद्धमित्येवं नाम-द्रव्ययोर्भेदश्चेत् , अदो नियामकं नाम्नेन्द्रे गोपालदारके दुर्वचं तस्य भावावाचकत्वात् ॥ ९७ ॥ यदि च नामेन्द्र पदार्थ घटकलक्षणायां मुख्यार्थवसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं सति मुख्यार्थवैसादृश्यसम्बन्ध. निमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं भवेत् , तदा गौणीलक्षणाया असङ्ग्रहापत्तेरित्यर्थः । तथा च उक्तदोषभयान्मुख्यार्थसादृश्ये मुख्यार्थवैसादृश्ये वा निमित्ते आग्रहामावे च । तच्च इन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं च। न स्थापनाव्यावृत्तं स्थापनायां न वर्तते इति न, किन्तु स्थापनासाधारणम् , इति एतस्माद्धेतोः। नाम्ना नामनिक्षेपेण, स्थापनासङ्गहः स्थापनानिक्षेपस्य सङ्ग्रहणम् ॥१५॥
षष्णवतितमपर्य विवृणोति- इदमितीति-इदमनन्तरमभिहितं 'समनये स्थापनानिक्षेपस्य नामनिक्षेप एवान्तरविः' इत्येवं स्वरूपम् । कश्चित् अनिर्दिष्टनामकः, कैरित्यपेक्षायामाचारिति । मतमित्यस्य विवरणम्- अङ्गीकृतमिति । तच्च निरुकाचार्यमतं च । उच्चकरित्यस्य विवरण- महता प्रबन्धेनेति। भाष्य एवेति- मूले भाष्ये इत्येनावन्मात्रस्योपादानेऽपि यदवकारस्याप्युपादानं तेनेदं ज्ञापितं भवति- अतिशयितप्रज्ञभाष्यकारेण महता प्रबन्धन खण्डितोऽर्थों ने केनापि व्यवस्थापयितुं शक्य इति तत्र नास्माकं दूषणान्तरोपदर्शनेन किमपि कृत्यमिति न तत्खण्डनेऽस्माभिलेखनी व्यापार्यत इति । भाष्योक्तदूषणमेवोद्भावयति-एवमिति-अस्य विवरणम् - उपचारविषयत्वस्यैव नामार्थत्वे इति ।' द्रव्यनिक्षेपेऽपीत्यस्य विवरणं- द्रव्यनिक्षेपविषयेऽपीति । नाम्नैवेत्यस्य विवरण- नामपदार्थतयैवेति, तथा च साहनये नामनिक्षेप-भावनिक्षेपाभ्यां द्वैविध्यमेव निक्षेपस्याभिमतं न तु नामद्रव्यभावभेदेन निक्षेपस्य त्रैविध्यमित्येवमनी. करणीयं स्यात् , न च तथाऽजीकृतमिति युक्तिरिकं तदाचार्यमतमित्याशयः ॥ १६॥
सप्तनवतितमपथमवतारयति-भावेति- "भावप्रवृत्तिता" इत्यस्य स्थाने "भाववृत्तिता" इति पाठो युक्तः, भावे वाचकतासम्बन्धेन नाम वर्तत इति नाम्रो भावनिरूपितवृत्तिताप्रयोजक: सम्बन्धो वाचकतालक्षणः, द्रव्यं भावरूपेण परिणमते इति परिणामितालक्षणसम्बन्धेन द्रव्यं भावे वर्तते इति द्रव्यस्य भावनिरूपितवृत्तिताप्रयोजकः सम्बन्धः परिणामितालक्षणः, यद्यपि परिणामिता परिणामिनि वर्तते न तु परिणामे, तथापि परिणामितायाः संसर्यतानियामकः सम्बन्धो निरूपकतालक्षणोऽत्र. विवक्षितः, निरूपकतासम्बन्धेन च परिणामित्वं परिणामे वर्तत इत्येवं भाववृत्तिताप्रयोजकयोः सम्बन्धयोभैदानाम-द्रव्ययोनामनिक्षेपद्रव्यनिक्षेपविषययोर्मेदो भविष्यतीत्येवस्वरूपाशङ्कायामुत्तरमाहेत्यर्थः। विवृणोति-परिणामितयेतीति । भावे सम्बद्धमिति भावस्थमिति मूलस्य विवरणम् । वाचकत्वेने त्यस्य विवरणं-वाच्यवाचकभावेनेति । सम्बद्धमिसत्र 'भाव' इत्यस्यानुकर्षण सम्बन्धः। अदः एतत् । किमित्यपेक्षायां नियामकमिति। "नाम्नेन्द्र" इत्यस्य स्थाने