________________
२७४
भयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
अथ नाम-भावनिक्षेपसाङ्कर्यपरिहारायेन्द्रपदसङ्केत विशेषविषयत्वमेव नामेन्द्रत्वं निर्वक्तव्यम् , तच्च सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सङ्ग्रहा इत्याशङ्कायामह---
नामातिरिक्तो नामेन्द्रो, लक्ष्य इन्द्रपदस्य हि ।
तस्य मुखार्थसादृश्ये, वैसादृश्ये च नाग्रहः ॥ ९५ ॥ नयामृत-नामेति । इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये वैसाहश्ये वा निमित्त नाग्रहः कर्तव्यो, गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः, तथा च लाघवात् तच्च इन्द्रपदसङ्केतविषयत्वलक्षणं नामेन्द्रत्वं च । नाम-स्थापनासाधारणमेव नाम-स्थापनोभयवृत्त्येव, गोपालदारके इन्द्रपदसङ्केतकरणाद् यथा गोपालदारको नामेन्द्र स्तथेन्द्रप्रतिकृतौ इन्द्रपदसतकरणात् साऽपि नामेन्द्र इत्यर्थः ॥१४॥
पोत्तरनवतितमपद्यमवतारयति-अथेति । यदीन्द्रपदसङ्केतविषयत्वमेव नामेन्द्रत्वं तर्हि इन्द्रपदसङ्केतविषयत्वं यथा गोपालदारके इन्द्रप्रतिकृतौ च वर्तते तथा भावेन्द्रेऽपि वर्तत इति भावेन्द्रोऽपि गीर्वाणपति मन्द्र एवं स्यादिति सङ्ग्रहनये भावनिक्षेपस्याप्यतिरिक्तस्योच्छेदः स्यादतो नाम-भावनिक्षेपसार्यपरिहाराय भावनिक्षेपस्य नामनिक्षेपेऽन्तभावी सा भवत्वित्येतदर्थम् । इन्द्रपदसडेतविशेषविषयत्वमेवेत्येवकारेण सामान्यत इन्द्रपदसङ्केतविषयत्वस्य नामेन्द्रवरूपताव्यवच्छेदः । किमिन्द्रपदसङ्केतविशेषविषयत्वं यद् भावेन्द्रे न वर्तत इत्यपेक्षायामाह-तच्चेति- इन्द्रपदसङ्केतविशेषविषयत्वं पुनरित्यर्थः। सादृश्येतरेति- सारश्यभिन्नो यः सम्बन्धस्तन्निमितिका येन्द्रपदस्य लक्षणा तद्विषयत्वम्, लक्षणा यदि सङ्केतविशेषरूपा तदेव तस्याः सविषयकत्वात् तद्विषयकत्वं लश्याथै सम्भवति, तस्याश्च सादृश्येतरसम्बन्धनिमित्तिकत्वमप्युप. पद्यतेतराम्, इन्द्रपदसङ्केतविशेषविषयत्वरूपताऽपि तद्विषयत्वस्य सजच्छते, इन्द्रपदशक्यसम्बन्धरूपा तु परदर्शनसम्मतन्द्रपदलक्षणा नात्र सम्मता, तस्याः सादृश्येतरसम्बन्धरूपाया: स्वस्य स्वनिमित्तकस्वाभावेन सादृश्येतरसम्बन्धनिमित्तकत्वाभावात् सविषयकवाभावेन तद्विषयत्वस्य लक्ष्यार्थेऽसम्भवात् , अत एव तद्विषयत्वस्येन्द्रपदसतविषयत्वरूपताऽपि न सम्भवतीति बोध्यम्, । “स्थापना इत्यावृत्यामेवेति तन्नाम्ना तत्सकहा" इत्यस्य स्थाने ' स्थापनाच्यावृत्तमेवेति नाना तदसङ्ग्रहः" इति पाठो युक्तः, यद्यपीन्द्रपदस्य सङ्केतविशेष आधुनिको भावेन्द्रेऽभावेऽपीन्द्रप्रतिकृतौ सम्भवति, तथापि स भावेन्द्रलक्षणेन्द्रपदमुख्यार्थेन समं य इन्द्रप्रतिकृती सादृश्यलक्षणसम्बन्धस्तन्निमित्तक एव न तु सादृश्येतरसम्बन्धनिमित्तक इति सादृश्येतरसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वमिन्द्रस्थापनायां न वर्तत इतीन्द्रस्थापनाव्यावृत्तमेवेत्यतस्याद्धेतो.
मिनिक्षेपेण तदसङ्ग्रहः- स्थापनाया असङ्कह इत्याशङ्कायां प्रतिविधानमाहेत्यर्थः। विवृणोति-नामेति । “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव हि नामेन्द्रपदार्थस्य घटकलक्षणायां सादृश्ये" इत्यस्य स्थाने “इन्द्रपदस्य लक्ष्यो नामातिरिक्त एव नामेन्द्रः," हिः- एवार्थे, तस्य- नामेन्द्रपदार्थस्य, घटकलक्षणायां मुख्वार्थसादृश्ये- शक्यार्थसादृश्ये” इति पाठो युक्तः, इन्द्रपदस्य लक्ष्यो नामातिरिक्त एवं नामेन्द्र इति मूलस्यान्वयमात्रोपदर्शनम् , अर्थस्य स्पष्ट. त्वान्न कथनम् , मूले एक्शब्दस्याभावात् तस्यान्वये कथं सन्निवेश इत्यपेक्षायामाह-हिः-एवाथें इति- दि मूलस्थ एवशब्दस्यार्थे वर्तते, तस्य नामातिरिक्त इत्यनेनान्वयमभिसन्धायोकान्वयो दर्शित इत्याशयः. नामेन्द्रपदार्थस्येति, घटकलक्षणायामिति पूरणं, तथा च नामेन्द्रपदार्थ इन्द्रपदलक्षणाविषयस्तस्य घटकीभूता या लक्षणा तस्यामित्यर्थः, मुख्यार्थसादृश्ये इत्यस्य विवरण- शक्यार्थसादृश्ये इति, एवं च नामेन्द्रपदार्थघटकलक्षणायां निमित्ते मुख्यार्थसादृश्ये मुख्यार्थवैदृश्ये वा आग्रहो न कर्तव्य इत्यर्थः, कर्तव्य इति पूरणालभ्यते, तथा च इन्द्रपदलक्षणाविषयत्वमेव नामेन्द्रत्वं न तु सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं सादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं वा नामेन्द्रत्वमित्यर्थः । कुतो मुख्यार्थसादृश्ये वैसादृश्ये वा निमित्त आप्रहो न विधेय इत्याकालायामाह-गौण्यतिरिकेति"गौण्यतिरिक्तलक्षणाया असहापत्तेः" इत्यस्य स्थाने " गौण्यतिरिक्तलक्षणाया गौणीलक्षमाया वा असङ्ग्रहापत्तेः" इति पाठः समीचीनः, यदि नामेन्द्रपदार्थघट कलक्षणायां मुख्यार्थसादृश्यनिमित्तकत्वं विशेषणतया प्रविशति, एवं च सति मुख्यार्थसादृश्यसम्बन्धनिमित्तकेन्द्रपदलक्षणाविषयत्वं नामेन्द्रत्वं स्यात् तदानीं गौण्यतिरिक्तलक्षणाया असङ्ग्रहापत्तेः,