________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
२६३
कालीनतद्भावानुवृत्त्या घृतघटन्यायेन ज्ञशरीरद्रव्यघटः, येन शरीरेण न ताव दिदानी घटपदार्थं जानाति किन्त्वनेनैव कालान्तरेण ज्ञास्यति स भव्यशरीरद्रव्यघटः, तद्व्यतिरिक्तद्रव्यघटो मृद्रूपः कण्ठत एवोक्तः, अयं च द्रव्यपदार्थो द्विधा प्रयुज्यते, अप्राधान्येन योग्यतया च, अप्राधान्येन यथाऽङ्गारमर्दको द्रव्याचार्य इति, योग्यतया यथा मृत्पिण्डो द्रव्यघटः सुश्रावको द्रव्यसाधुः साधुश्च द्रव्यदेव इत्यादि, योग्यता च यद्यप्यैकभविक बद्धायुष्काऽभिमुखनामगोत्रभेदेन त्रिविधैव अनुयोगद्वारसूत्रे नयभेदेन व्याख्याता, कायोत्सर्गनियुक्तौ द्रव्यकायनिरूपणनस्तावे"जं तु पुररकडभावं दवियं पच्छाकडं च भावाओ । तं होइ दबदवियं जह भविउंदव्वदेवाई ।। १॥"
[ आवश्यकभाष्ये गा० २३३ ] इत्यत्रापि चातीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेशप्रसङ्गात् स्वयमुट्टङ्कय पुरष्कृतपश्चात्कृतभवद्वय एवायुःकर्मसद्रव्यस्पर्शनोद्भावनेन निरस्तः, तथाहि"दुहओऽणन्तररहिया जइ एवं तो भवा अणन्तगुणा। एगस्स एगकाले भवा ण जुजन्तिऽणेगा(उ)॥"
[आवश्यके गा० १५३६ ] व्याख्या-" दुहओ"त्ति-वर्तमानभवे स्थितस्योभयत एष्यकाले अतीतकाले, अणन्तररहिअ त्तिअनन्तरौ एष्यातीती, अनन्तरौ च तो रहितौ च वर्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि, जइ त्ति- यदि तस्योच्यते, तो त्ति- एवं सति, भवा:- तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेतर" असुब्बत" इति भाष्यप्रयोगदर्शनादुक्तानुशासनस्य प्रायिकत्वादिति बोध्यम् । तत्र नोआगमतस्त्रिविधेषु द्रव्यघटेषु मध्ये । भव्यशरीरद्रव्यघटमुपदर्शयति-येन शरीरेणेति । अनेनैव तेन शरीरेणैव । तद्वयतिरिक्तति- ज्ञशरीर-भव्यशरीरख्यतिरिकेत्यर्थः । अप्रधाने योग्येऽपि च द्रव्यपदं प्रयुज्यत इत्यप्राधान्य-योग्यत्वाभ्यां द्रव्यपदार्थस्य द्वैविध्यमुपदर्शयति- अयं चेति । अग्रधानस्वरूपद्रव्यपदार्थमुदाहरति--अप्राधान्येन यथेति । अङ्गारमर्दको द्रव्याचार्य इत्यत्र द्रव्यपदमप्रधानार्थकम् , तथा चोक्तवाक्यात् अङ्गारमर्दकोऽप्रधानाचार्य इति प्रतीयते । योग्यतया द्रव्यपदार्थमुदाहरति- योग्यतया यथेति । मृत्पिण्डो द्रव्यघट इत्यत्र द्रव्यपदं योग्याथें प्रयुक्तम् , तथा चोक्तवाक्यान्मृत्पिण्डो घटयोग्यः-घटात्मकपर्यायरूपेण कदाचित् परिणस्यते मृत्पिण्ड इत्येवं प्रतीयते । सुश्रावक इति सूत्रविहितश्रावकाचारपरिपालनपरायणः सुश्रावकः, स च साधुपर्यायं कालान्तरे आसादयिष्यतीति द्रव्यसाधु:- साध्वात्मकपर्यायरूपेण भनितुं योग्य इत्यर्थः । साधुश्च द्रव्यदेवः य इदानीं सूत्रविहितसाधुसमाचारी सम्यगातिष्ठति साधुः, स कालं कृत्वा देवो भविष्यतीति कृत्वा द्रव्यदेव इत्युच्यते, यः साधुरन्तरभव एव न देवरूपेणोत्पत्स्यते किन्तु भवद्वयादिव्यवधानेन देवो भविष्यति सोऽपि द्रव्यदेव इत्युच्यते, तत्रानुयोगद्वारसूत्रोपवर्णित त्रिविधयोग्यताऽसम्भवतः कथं द्रव्यदेवतेति शङ्कया भवद्वयादिव्यवधानेनापि तद्भवनस्वभावे तद्योग्यता सम्भवतीति तथाविधस्यापि द्रव्यसाधुतोपपद्यते इत्यभिप्रायकसमाधानेन च बुधजनानन्दकरं विचारं प्रस्तौति-योग्यता चेति- योग्यता च त्रिविधैव व्याख्यातेति सम्बन्धः । यद्यपीति-तथापी. यमित्याद्युत्तरग्रन्थस्थिततथापीत्युक्तिसापेक्षेयं यद्यपीत्युक्तिः । जं तु० त्ति-" यत् तु पुरस्कृतभावं द्रव्यं पश्चात्कृतं च भावतः । तद् भवति द्रव्यद्रव्यं यथा भवितुं द्रव्यदेवादि ॥ इति संस्कृतम् । "प्रसङ्गात" इत्यस्य स्थाने "प्रसङ्गः" इति पाठो युक्तः, अस्य 'निरस्तः' इत्यनेनान्वयः । निरसनप्रकारमेव भावयति-तथाहीत्यादिना । दुहओ०त्ति"उभयतोऽनन्तररहितौ यद्येवं ततो भवा अनन्तगुणाः । एकस्यैककाले भवा न युज्यन्तेऽनेके तु ॥” इति संस्कृतम् । उक्तगाथाविवरणमुपदर्शयति- दुहओ त्तीति। उभयत इत्यस्य फलितकथनम्- एष्यकाले अतीतकाल इति-भविध्यरकाले भूतकाले च । केन रहिताविति न ज्ञायत इत्यत आह-वर्तमानेति-प्रकरणाद् वर्तमानभवभावेन रहिताविति गम्यसे. "वर्तमानभवभावेतररहिता" इत्यस्य स्थाने “वर्तमानभवभावेन रहिता" इति पाठः सम्यम्। इंधा