________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
" भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥"
एतदर्थों यथा-भूतस्य-अतीतस्य, भाविनो वैध्यतो भावस्य, कारणं-निमित्तं यल्लोके तद् द्रव्यमिति, द्रवति गच्छति तांस्तान् पर्यार्यान् क्षरति वेति द्रव्यम् , तत्त्वज्ञैः-सर्वहस्तीर्थकृद्भिरिति यावत्, सचेतनम्अनुपयुक्तपुरुषाख्यम् , अचेतनं-ज्ञशरीरादि तथाभूतमन्यद् वा, कथितं-प्रतिपादितम् , इहायं सम्प्रदायःद्रव्यघटस्तावद् द्विधाऽऽगमतो नोआगमतश्च, आगमः-पदार्थपरिज्ञानं, नोआगमस्तद्विपर्ययः, तत्रागमतो द्रव्यघटो घटशब्दाध्येताऽनुपयुक्तः " अनुपयोगो द्रव्यम्" [
] इति वचनात्, अनुदुद्धपदवृत्तिमहाहितसंस्कारवानागमद्रव्यपदवाच्य इत्येतन्निष्कर्षः, नोआगमतश्च त्रिविधो द्रव्यघटो ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात् , तत्र घटपदार्थज्ञस्य शरीरमात्मरहितं सिद्धशिलातलगतमप्यतीत
स्थापनानिक्षेपात्मकं लेप्यादिकर्म च । अल्पकालमित्यस्यत्वरमित्यर्थ इति। चशब्दात 'अल्पकालं च' इत्यत्र चशब्दात् । यावदृव्यमावि आकृतिमव्यं यावदवतिष्ठते तावत्कालं स्थाप्यमाना तदाकृतिरप्यवतिष्ठते।
मृद् द्रव्यमितीति मूलधारणम् , घटकारणीभूत। मृदेव द्रव्यघट इत्यर्थ इति तदर्थप्रपञ्चनम् । तल्लक्षणं द्रव्यनिक्षेपलक्षणम् , इदम् अनन्तरमेवाभिधीयमानम् । एतदर्थो यथेति- द्रव्यनिक्षेपलक्षणप्रतिपादकस्य “भूतस्य" इत्यादिपद्यस्यार्थो यथेत्यर्थः । भूतस्येत्यस्य अतीतस्येत्यर्थकथनम् । भाविन इत्यस्य विवरणम्-एष्यत इति । कारणमित्यस्य निमित्तमिति व्याख्यानम्। तत् भूतस्य भाविनो वा निमित्तम् । भूतभाविकार्यनिमित्तस्य द्रव्यत्वं कथमित्यपेक्षायां द्रव्यपदनिरुक्तित एव तल्लभ्यत इत्याशयेन तन्निरुक्तिमुपदर्शयति-द्रवतीति । तत्त्वरित्यस्य विवरण- सर्वज्ञैरिति । बौद्धादिभिः सर्वज्ञतया सुगतादिरप्यनुमतो, न च सुगतादिभिर्भूतभाविकार्यनिमित्तं द्रव्यमिति कथितमित्यत आह-तीर्थकृद्भिरिति यावदिति- तीर्थङ्करा एव वस्तुतः सर्वज्ञा नान्ये सुगतादयस्तदुच्चरितवाक्यस्याबाधितार्थत्वायभावेन तदागमस्य तीर्थस्वाभावात् , " सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागत" इति कोशस्तु नामनिक्षेपालम्बनेनव प्रवृत्तः, न व सुगतादिर्भावसज्ञो नामसर्वज्ञत्वस्यैव तत्र भावादिति । सचेतनमित्यस्य विवरणम्अनपयक्तपरुषाख्यमिति-अनुपयुक्तः पुरुष उपयुक्तपुरुषपर्यायमभिगच्छतीति उत्तरपर्यायनिभित्तत्वाद द्रव्यम् अचेतन मित्यस्य विवरण-शरीरादीति-ज्ञस्यात्मनो यच्छरोरादिकं तदपि तन्निमित्तत्वाद् द्रव्यमिति, ज्ञशरीरादीत्यत्रादिपदाद् भव्यशरीरादेरुपग्रहः । तथाभूतं भूतस्य भाविनो वा पर्याययस्य निमित्तम् । अन्यद्वा ज्ञशरीरादिभिन्नं मृदाद्यपि । कथितमित्यस्य विवरण-प्रतिपादितमिति । अनुपयुक्तपुरुषो यथा स्वपर्याय निमित्तत्वाद् द्रव्यं तथोपयुक्तपुरुषोऽपि स्वपर्यायनिमित्तत्वाद् द्रव्यं भवेत्येवेति किमित्यनुपयुक्तपुरुषाख्यमित्युक्तम् ?, ज्ञशरीरादीति किमित्युक्तम् ? सामान्यतः शरीरादेरपि तथात्वसम्भवादिति नाशङ्कुनीयम् , घटस्यैव निमितत्वाद् यथा मृद् द्रव्य घटः, तथा घटेऽनुपयुक्तः पुरुषोऽप्यागमतो द्रव्यघटः, एवं नोआगमतो ज्ञशरोरादिरपि द्रव्यघट इत्याशयेनेत्थमभिधानात् , अमुमेवार्थ स्पष्टीकर्तुमाह- इहार्य सम्प्रदाय इति । इह द्रव्यनिक्षेपविचारे । अयं द्रव्यघटस्तावद् द्विवेत्यादिनाऽनन्तरमेवाभिधीयमानः। सम्प्रदायः सम्प्रदीयते गुरुणा शिष्यायेति सम्प्रदायः-प्राचां वचनसन्दर्भ: प्रवाहत आगतो न त्वेकेनैव केनचित् स्वयमुत्प्रेक्षितः । तद्विपर्ययः-पदार्थपरिज्ञानाभावः । अनुदबुद्धेति- अनुदुद्ध उद्बोधकासमवहितः, यत्सहकृतेन संस्कारेण स्मरणमुपजायते स संस्कारस्योद्बोधको भवति, पदस्य- घटादिशब्दस्य घटादिरूपार्थे वृत्तेः- शक्ति-लक्षणान्यतरसम्बन्धस्य ग्रहेणाहितो- जनितः संस्कारः पदवृत्तिमहाहितसंस्कारः, अनुदुद्धश्चासौ पदवृत्तिमहाहितसंस्कारश्चानुबुद्धपदवृत्तिग्रहाहितसंस्कारः, सोऽस्यास्तीत्यनुद्बुद्धपदवृत्तिग्रहाहितसंस्कारवान्, आगमद्रव्यपदवाच्य इत्येवमनुपयोगो द्रव्यमिति वचनस्य पर्यवसितोऽर्थ इत्यर्थः. अत्र ' न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत् तदर्थप्रतिपत्तिकरः' इति वचनात् , अनुदुद्धपदवृत्तिग्रहाहितसंस्कार इत्येतावन्मात्रेणैवानुबुद्धः पदवृत्तिग्राहितः संस्कारो यस्य सोऽनुवुद्धपदवृत्तिग्रहाहितसंस्कार इति बहुव्रीहिसमासतोजद्धपदत्तिमहाहितसंस्कारवतः प्रतीतिसम्भवादनुहद्धपदवृत्तिमहाहितसंस्कारवानिति कथमुपपद्यत इति नाशङ्कनीयम् ,