________________
२५८
नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
तेन तत्र-मङ्गलवादे द्रव्यार्थिके, त्रयं-नामादिनिक्षेपत्रयं प्रोक्तं, न तु सर्वथाभावानभ्युपगमाभिप्रायेण जलाहरणा दिपरिणतिरूपभावघटस्य द्रव्यार्थि के नाप्यभ्युपगमादिति वयं जानीमहे, तथा च भाष्ये पूर्व शुद्धधरणरूपभावमङ्गलाधिकारप्रवृत्ते गमादिना जलाहरणादिरूपभावघटाभ्युपगमेऽपि घटोपयोगरूप. भावघटानभ्युपगमात् तनिषेधोक्तिः, अग्रे तु व्यवस्थाधिकारात् विशेषोक्तिरिति न विरोध इति भावः, "जानीमहे” इत्यनेन स्वोत्प्रेक्षया सामान्यतो ज्ञातेऽप्यर्थे विशेषविवेके बहुश्रुताः प्रमाणमित्यभिव्यज्यते ॥ ८५ ॥ उक्तं निक्षेपचतुष्टयम् , प्रसिद्धं घटमेवोदाहरणीकृत्य विवेचयन्नाह -
तत्र नामघट: क्लुप्तो, घटनाम्ना पटादिकः ।
तच्चित्रं स्थापना द्रव्यं, मृद्भावो रक्ततादिकः ॥ ८६ ॥ नयामृत-तत्रेति । तत्र-निक्षेपचतुष्टयमध्ये, घटनाम्ना क्लसः पटादिकोऽपि नामघट उच्यते, नाम्ना घट इति व्युत्पत्तेः, तथा चैतल्लक्षणम्--
"यद् वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥"
तेन पक्षान्तरे घटोपयोगरूपभावस्य द्रव्याथिकेऽनिष्टत्वेन। तत्रेति मूलस्य विवरण-मङ्गलवादे द्रव्याथिके इति । त्रयमित्यस्य विवरण-नामादिनिक्षेपत्रयमिति- नाम स्थापना-द्रव्यनिक्षेपत्रयम्, तत् किं घटोपयोगात्मकभावातिरिक्तो भावघट: पक्षान्तरेऽभ्युपगत एवेत्यपेक्षायामाह-न विति- सर्वथा भावानभ्युपगमाभिप्रायेण मङ्गल वादे द्रव्यार्थिके नामादिनिक्षेपत्रयं न पुनः प्रोक्तमित्यर्थः। तत्रैव हेतुमुपदर्शयति-जलाहरणादीति- जलाहरणादिकार्यकारिपृथुबुध्नोदराद्याकारलक्षणा या मृदादेः परिणतिस्तद्रपस्य भावघटस्य द्रव्यार्थिकन येनाप्यभ्युपगमादित्येवं वयं यसविजयवाचका जानीमहे- अवगच्छाम इत्यर्थः। तथा च पक्षान्तरे द्रव्यार्थिके उपयोगस्वरूपस्येव भावघटस्यानभ्युपगमो न तु जलाहरणादिकार्यकारिपृथुबुनोदराद्याकारस्वरूपभावघटस्येति विवेके च। तनिषेचोक्तिः द्रव्याथिके भावनिक्षेपनिषेधोक्तिः । अग्रे तु अग्रेतनभाष्ये पुन: । व्यवस्थाधिकारात् द्रव्यार्थिको निक्षेपेषु मध्ये अमुं निक्षेप स्वीकरोति पर्यायार्थिकश्चामुं निक्षेपमुररोकरोतीत्येवं व्यवस्थितिप्रयोजनतः। विशेषोक्तिः पर्यायार्थिको भावनिक्षेपमेव सीकरोति द्रव्यार्थिकश्च निक्षेप चतुष्टयमप्युररीकरोतीति विशेषावेदिकोक्तिः। इति एतस्माद् विवेकात् । न विरोधः भाष्यस्थितपूर्वोत्तरवचनयोर्न विरोधः। 'जानीमहे इत्यनेन' इत्यस्य 'अभिव्यज्यते' इत्यनेनान्वयः । किमभिव्यज्यत इसपेक्षायामाह- स्वोत्प्रेक्षयति- एनद्भन्थकर्तृ. यशोविजयवाचकगतान्यातिशायिकल्पनाविशेषात्मकसम्भावनत्यर्थः। विशेषविधिके इतोऽपि विशिष्टावगतिफलकविशेष. विभजने । बहुश्रुताः वयमपि बहुश्रुता एव तथाप्यस्मदपेक्षयाऽपि ये बहुश्रुता अनल्यसिद्धान्तोह पोहसमर्थास्त एव, विशेषविवेके प्रमाणमित्यर्थः । ८५॥ ___षडशीतितमपद्यमवतारयति- उक्त निक्षेपवतुष्टयमिति- अस्य - विवेचयन् ' इत्यनेन सम्बन्धः । विवृणोतितत्रेतीति । तत्रेयस्य विवरण-निक्षेपचतुष्टयमध्य इति । घटनाम्ना क्लप्तः अयं घटशब्दादवगन्तव्य इलंकमाधुनिकसङ्केतविषयीकृतः, पटादिकोऽपीत्यत्रापिरेवकारार्थे, तेन पटादिक एवेति तदर्थः, न तु समुच्चयार्थकत्वमस्य सम्भवति भावघटस्य घटशब्दपर्याय कलशकुटादिशब्दाभिधेयत्वेन नामघटत्वासम्भवात् । कथं पटादिको नामघट इत्यपेक्षायामाह-नाम्नेति- नाम्ना घटो नामघट इत्येवं नामघटस्य व्युत्पतेनिर्व वनादित्यर्थः, पटादिकः केवलं नाम्नैव घटो जलाहरणादिलक्षणभावघटकार्यकारित्वाभावान्न वस्तुगत्या घट इत्यभिसन्धिः। तथा च निरुक्तव्युत्पत्त्याश्रयशेन पटादिकस्य नामघटवाच्यत्वव्यवस्थितौ च । एतल्लक्षणं नामनिक्षेपस्य लक्षणम् । नामनिक्षेपलक्षण प्रतिपादकस्य “ यद् वस्तुनो. ऽभिधानं०" इत्यादिपद्यस्यार्थमुपदर्शयति- अयमिति-अनन्तरमेवाभिधीयमान इत्यर्थः। अभिधानमित्यस्यार्यकथनं