________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकृतो नयोपदेशः ।
२५७
कल्पितत्वमेवेति वाच्यम् , एवं सति सर्वविशेषणानामेकधर्माकाङ्क्षाविधुरत्वेन वाक्यभेदप्रसङ्गात्, न च नयवाक्यानां प्रत्येकं निराकाङ्कत्वेऽप्यवयवानां न्याय इव स्याद्वादे वाक्यैकवाक्यत्वं सर्वत्रैवोपपादयिध्याम इत्यपि साम्प्रतम्, एकैकस्य शतभेदत्वेन सर्वत्रैकरीतेरभावाद् विशिष्टवैशिष्ट्यबोधस्य दुरपलापस्वात् , एक्मपि नैगमे प्राच्यभेदातिशायकविशेषणस्याकल्पितत्वध्रौव्याचेति किमतिपल्लवितेन ॥ ८४ ॥
तदेवं मतान्तरेण द्रव्यार्थिके नामादिनिक्षेपत्रयमेवेति समर्थितम् , अथ भाष्यकारमतेनैव "णामाइतियं दबढिअस्स भावो अ पनवणयस्स" [विशेषावश्यकभाष्यगाथा-७५] इति मङ्गलबादीय. भाष्यप्रतीकस्य "भावं चिय सद्दणया सेसा इच्छंति सबणिरकेवे" [विशेषावश्यकभाष्यगाथा ] इत्य. प्रेतनवचनेन सहाविरोधं समर्थयन्नाह
घटोपयोगरूपो वा, भावो द्रव्यार्थिकेऽमतः।
तेन तत्र त्रयं प्रोक्तमिति जानीमहे वयम् ॥ ८५॥ नयामृत-घटोपयोग इति । वेति पक्षान्तरे, घटोपयोगरूपो भावो द्रव्यार्थिकेऽमत:-अनिष्टः, हेतुमुपदर्शयति- एवं सतीति- पर्यायनयानां शुद्धपर्यायविधावेव तात्पर्याभ्युपगमे सतीत्यर्थः । सर्वविशेषणानामितियदि व्यवहारादिनयप्रभववाक्येयवहारादिनयविषयतत्तत्पर्यायात्मविशेषणविशिष्टात्म सामान्यविषयकशाब्दबोधो भवेद. भवेत सदा विशेष्यस्यात्मसामान्यस्यैकत्वात् तन्निष्ठाविशेष्यताद्वारा सर्वपर्यायस्वरूपविशेषणनिष्ठविषयत्वानां परस्परनिरूप्य निरूपक भावलक्षणाकाडासद्भावात् साक्षात् परम्परया वा परस्परनिरूप्य-निरूपकभावापन्न विषयताकैकबोधजनकत्वलक्षणमेकवाक्यत्वं नयवाक्यानाम् , यदा तु सङ्ग्रहप्रभत्रवाक्यजबोधस्य न व्यवहारादिनयतस्तत्तत्पर्याय कदम्बारुषितसामान्यविषयकबोधस्वरूपे पर्यवसानं किन्तु व्यवहारादिनयप्रभववाक्यैरशुद्धतत्तत्पर्यायविषयकबोधानामेवाविर्भावस्तदा निरुताकालाभावात् साक्षात् परम्परया वा निरूप्य-निरूपकभावानापन्नविभिन्न विषयताकबोधजनकत्वलक्षणवाक्यभेदस्यैव प्रसङ्गादित्यर्थः । न च इत्यस्य • साम्प्रतम् ' इत्यनेनान्वयः। अवयवानां प्रतिज्ञा हेतूदाहरणोपनय-निगमनखरूपाणां पञ्चानामवयवानाम् , न्याय इवेति- नीयते-प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्याय इति व्युत्पत्त्या निरुक्तपञ्चावयवसमुदाय एवं न्यायस्तत्र यथाऽवय. वानां वाक्य कवाक्यत्वं तथेत्यर्थः। स्याद्वादे सप्तनयवाक्यसमूहलक्षणस्याद्वादे, वाक्यैकवाक्यत्वं नयवाक्यानां निरुक्त. वाक्येकवाक्यत्वम् । निषेधे हेतुमाह-एकैकस्येति- प्रत्येक व्यवहारादिनयानां शतविधत्वेन तैः सम्भूयैकविधबोधस्यो. पादयितुमशक्यत्वेन प्रत्येकं, सर्वत्र सर्वनयवाक्ये, एकरीतेः बोधनियमनविधाया एकस्या अभावादित्यर्थः । विशिष्ठवशिश्वबोधस्य दुरपलापत्वादिति- अनुभूयमानस्य समस्त नयवाक्येनकस्य विशिष्टवैशिष्ट्यबोधस्य पर्यायनयानां शद्धपर्यायविधायकत्वाभ्युपगममात्रेणापलपितुमशक्यादित्यर्थः । एवमपि स्वविषये अन्यनयार्थविशेषणस्य कल्पितत्वाभ्युपगमेऽपि । नैगम इति- नैगमनये सर्वनयात् प्रथमप्रवृत्तौ तस्य य: प्राच्यभेदः प्राथमिको भेदस्तस्योत्तरोत्तरनगमभेदादतिशायक वैलक्षण्यप्रयोजक यद् विशेषणं यद्विशिष्टसामान्यादिविषयकत्वेनान्यविशेषणविशिष्टसामान्यादिविषयकादुत्तरोत्तरनगमप्रभेदात् स व्यावृत्तो भवति, अन्यथा सर्वस्य नैगमजातीयस्य सामान्यविषयकस्य विशेषविषयकस्य वा सामान्यविषयकनगमत्वेन विशेषविषयकनगमत्वेन वा समानखरूपत्वेऽवान्तरबैलक्षण्यं न स्यादिति तस्य विशेषणस्य सविषयेऽन्यनयार्थविशेषणत्वाभावेनाकल्पितस्यावश्यकत्वेन तत्र प्रधानोपसर्जनभावस्याकल्पितत्व-कल्पितत्वाभ्यामुपपादयितुमशक्यत्वेन विशेष्यविशेषणभावत एवोपपत्तेरित्यर्थः ॥ ८४ ॥
पञ्चाशीतितमपद्यमवतारयन्नाह-तदेवमिति । तत तस्मात् , एवम् अनन्तरोषवर्णितप्रकारेण, अन्यत् स्पष्टम् । विवृणोति- घटोपयोगेतीति । “घटोपयोग इति" अस्य स्थाने " घटोपयोगेति" इति पाठो मूलप्रतीकानुकूलः । मूले वाशब्दः पक्षान्तरार्थक इत्यावेद नायाह-वेति पक्षान्तरे इति । अमत इति मूलस्य विवरणम्- अनिष्ट इति ।