________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
४५
व्याख्या- व्यञ्जयति व्यनक्ति चार्थानिति व्यञ्जनं शब्दः, न पुनः शब्दनयः, तस्यर्जुसूत्रसमानपर्यायविषयत्वात् , तस्य पर्याय:- वाच्यता, तद्राहकनयेन पुरुषः, पुरुष इति- पुरुषत्वप्रकारकज्ञानविषय इति, नित्यम्- आ जन्मनो मरणान्तं यावद् , अविकल्प:- पुरुषत्वातिरिक्ताप्रकारकज्ञानविषयः, इदमुपलक्षणं द्रव्यत्व-वस्तुत्वादिनाऽप्यविकल्पत्वस्य, शुद्धद्रव्योपयोगे तु पदद्वयस्य निर्धर्मकत्वलक्षणया शुद्धधर्मिविषयकमानविषयत्वमेवाविकल्पत्वं द्रष्टव्यम् , से- तस्य पुरुषस्य, अर्थपर्याय:- ऋजुसूत्राद्यर्थग्राहकनयः, पुनर्बालादिविकल्पं- बालादिभेदं पश्यति ।। ३४ ॥ ___ सविकल्पं निर्विकल्पं स्यात्काराङ्कितं तदुभयपदघटितमहावाक्यबोधरूपपुरुषद्रव्यस्य यो भणेद् अविकल्पमेव सविकल्पमेव वा, निश्चयेन - एकान्तेन, समये-परमार्थे, न निश्चित:- निश्चयो निश्चित तदस्यास्तीति निश्चितः, अर्शआदित्वाचप्रत्ययः, न तदर्थे इत्यर्थः, दुर्नयाभिनिवेशाद् नयत्वाद् वा संपूर्णानेकान्तवस्तुस्वरूपापरिच्छेदादिति रहस्यम् ॥ ३५ ॥
तदेवं निषेधवद् विधावपि सापेक्षत्वं प्रतिपादितम् । एवं स्त्रद्रव्याद्यपेक्षया सन् परद्रव्याद्यपेक्षया शब्दनय इति । शब्दनयस्य कुतो न ग्रहणमित्यपेक्षायामाह • तस्येति- शब्दनयस्येत्यर्थः, व्यञ्जनपदेन शब्दनयस्य ग्रहणे तस्य पर्यायस्तन्न यविषयीभूतपर्याय ऋजुसूत्रनविषयः प्रतिक्षणमन्यान्यपर्याय एव स्यात् , न तु आ जन्मनो मरणान्तं यावद व्यवस्थितकरूपपुरुषपर्यायः अभिमतश्च सोऽविकल्पतयेत्यतो न शब्द नयस्य ग्रहणम् , किन्तु शब्दस्य । तस्य शब्दस्य । तहाहकनयेन शब्दवाच्यताग्राहकनयेन । पुरुषः पुरुष इति लोके प्रसिद्धः । 'पुरुष इति' इत्यस्य 'पुरुषत्वप्रकारकज्ञान विषय इति' इति, 'नित्यम्' इत्यस्य च 'आ जन्मनो मरणान्तं यावद्' इति विवरणम् । यश्च पुरुषत्वप्रकारकज्ञानलक्षणसविकल्पकज्ञानविषयः स कथं निष्प्रकारक ज्ञानरूपनिर्विकल्पक ज्ञानविषयात्मकाविकल्प इत्यतः 'अविकल्पः' इत्यस्य विवरणम्पुरुषत्वातिरिक्ताप्रकारकज्ञानविषय इति । पुरुषस्य पुरुषत्वेन रूपेण पुरुषत्वातिरिकाऽप्रकारकज्ञानविषयत्वलक्षणमविकल्पत्वम्, तथा तस्य द्रव्यत्वेन रूपेणाऽविकल्पत्वं द्रव्यत्वातिरिक्ताप्रकारकज्ञानविषयत्वलक्षणम् , वस्तुत्वेनाविकल्पत्वं वस्तुत्वातिरिक्ताऽप्रकारकज्ञानविषयत्वलक्षणमबसेयमित्याह- इदमिति- द्रव्यत्व-वस्तुत्वादिनाध्यविकल्पत्त्वस्योपलक्षणमिदमित्यन्वयः। शुद्धद्रव्योपयोगे तु द्रव्यत्वमपि प्रकारत या नैव भासते, किन्त्वखण्डद्र व्यव्यक्तिरेव 'इदं द्रव्यम् , अयं पुरुषः' इत्यादि शब्दजन्य ज्ञानविषय इति तत्र द्रव्यत्वप्रकारकज्ञानविषयत्वं तस्य नास्ति, येन सविकल्पकज्ञान विषये तस्मिन्नविकल्पत्वोपपत्तये द्रव्यत्वातिरिक्ताप्रकारकज्ञानविषयत्वलक्षणं पारिभाषिकमविकल्पकत्वमुच्येत, किन्तु पदद्वयस्यापि निर्मकत्वलक्षणया शुद्धधर्मिविषयकभानविषयत्वमेवाविकल्पत्वमित्याह- शुद्धद्रव्योपयोगे स्विति । 'से' इति प्राकृतस्य 'तस्य' इति संस्कृतम् , पुरुषस्येति तदर्थः, तस्य 'बालादिविकल्पम्' इत्यनेनान्वयः । 'अर्थपर्यायः' इत्यस्यार्थकथनम्-'ऋजुसूत्राद्यर्थग्राहकनयः' इति, पुरुषस्य बालादिभेदं पश्यति ऋजुसूत्रादिनय इति ॥ ३४ ॥
द्वितीयगाथार्थमाह-सविकल्पमिति ! 'स्यात्काराङ्कितं तदुभय.' इति स्थाने 'स्यात्काराङ्किततदुभय०' इति पाठो युक्तः, स्यात् सविकल्पं स्थानिनर्विकल्पं स्यादवक्तव्यमित्येवं यन्महावाक्यं तजवोधरूपं यत् पुरुषद्रव्यम् 'उपयोगलक्षणो जीवः' इति सिद्धान्तमनुसृत्य, एवस्वरूपस्य यः प्रमाता अविकल्पमेव सविकल्पमेव वा पुरुष भणेत् वदेत् । 'निश्चयेन' इत्यस्यार्थ:'एकान्तन' इति, तस्यान्वयः 'भोत्' इति पूर्वेण, स इति दृश्यम् , स - प्रमाता, 'समये' इत्यस्य विवरणम्- 'परमार्थे' इति, 'न निश्चितः' इत्यस्य न निश्चयवानित्यर्थोऽभिमतः, स यथा सम्पद्यते तथोपदशयति-निश्चयो निश्चितमिति । तदस्यास्तीति निश्चित मस्यास्तीति । 'न तदर्थे' इत्यस्य स्थाने 'मतुबर्थे' इति पाठो युक्तः । कथं.परमार्थविषयकनिश्चयवान स प्रमातत्यपेक्षायामाह-दुर्नयाभिनिवेशादिति ॥ ३५ ॥
एवं च यथा 'स्यान्नास्ति' इति वाक्यं सापेक्षनिषेधरूपार्थप्रतिपादक तथा 'स्यादस्ति' इति वाक्यमपि सापेक्षविधिरूपार्थप्रतिपादकमिति प्रथम द्वितीयभनी नयवाक्ये भवत इत्याह-तदेवमिति। तृतीयोल्लिख्यमानेति- 'स्वद्रव्याद्यपेक्षया'