________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
प्रत्यक्षत्वव्यापकत्वात् प्रकृतसिद्धेश्व" इत्यादिनव्यकल्पनाऽपि निरस्ता, एवं सति द्रव्यविषयकप्रत्य - क्षस्य वस्तुविषयकप्रत्यक्षस्य वा यत्किचित्पर्यायविशिष्टविषयकत्वनियमेन भावनिर्विकल्पस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवात् ।
४४
अत एव सविचारणया सामान्यदृष्ट्या च सर्वं निर्विकल्पकं विशेषदृष्ट्या च सर्वं सविकल्पक - मित्यनेकान्तः पुरुषदृष्टान्तेन संमतौ प्रतिपादितः । तथाहि
" वंजणपज्जायस्य उ पुरुसो पुरुसो त्ति निश्चमविअप्पो । बालाइव पुणे पासइ से अत्थपज्जाओ ॥ ३४ ॥ सविअप णिविअप्पं इय पुरिसं जो भणेज्ज अविअप्पं । . सविअप्पमेव वा णिच्छरण ण स णिच्छिओ समये ॥ ३५ ॥
- [ सम्मतितर्ककाण्ड० ]
वच्छिन्न कार्यतानिरूपित कारणतावच्छेद का वच्छिन्नस्य सत्त्वं न तद्धर्मावच्छिन्नोत्पत्तौ प्रयोजकम्, किन्तु घटत्वविशिष्टस्य प्रतियोगित्वलक्षणवैशिष्टय विषयकप्रत्यक्षत्वं भवत्यवाभावलौकिक प्रत्यक्षत्वस्य तदभाववदवृतित्वलक्षणव्याप्यत्ववत्, तदवच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठ कार्यतानिरूपित कारणतावच्छेदकयावदन्त र्गत विशेषणबुद्धित्वावच्छिन्नस्य सत्त्व एवाभावलौकिकप्रत्यक्षत्वावच्छिन्नोत्पत्तिरित्यभावलौकिकप्रत्यक्षं विशिष्टविषयक मेव भवति तथा तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम्, तद्व्याप्यं घटविशिष्टाभावलौकिकप्रत्यक्षत्वम्, तद्वयापकधर्मो घटत्वविशिष्टवैशिष्ट्यविषयक प्रत्यक्षत्वम्, तदवच्छिन्न यत्किञ्चिद्वचक्तिनिष्टकार्यता निरूपितकारणतावच्छेदकयावद्धर्मान्तर्गत विशेषण बुद्धित्वावच्छिन्नसत्त्वे सत्येवाभाव लौकिक प्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य घटत्वादिविशिष्टवैशिष्ट्य विषयकत्वप्रसिद्धिरित्यर्थः । निरासहेतुमुपदर्शयति एवं सतीति कार्यतावच्छेदकी भूततद्धर्माश्रययत्किञ्चिद्वयक्तिनिष्टकार्यतानिरूपितकारणतावच्छेदकं यावत् प्रत्येकं तदवच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्यादिनियमाभ्युपगमेनाभावलौकिकप्रत्यक्षस्य विशिष्टविषयकत्वमेवेति नियमस्योपपादने सतीत्यर्थः । द्रव्यविषयकप्रत्यक्षस्येति - कार्यताबच्छेदकीभूततद्धर्मो द्रव्यविषयकप्रत्यक्षत्वम्, तदाश्रययत्किञ्चिद्वयक्तिर्यत्किञ्चित्पर्याय विशिष्टद्रव्य विषयकप्रत्यक्षव्यक्तिः, तन्निष्टकार्यता यत्किञ्चित्पर्यायविशिष्टद्रव्य विषय क्युद्धित्वावच्छिन्नकार्यता, तन्निरूपित कारणता यत्किचित्पर्यायरूपविशेषणविषयकबुद्धित्वावच्छिन्नकारणता तदवच्छेदक यावद्धर्मान्तर्गतयत्कि त्किञ्चित्पर्याय रूप विशेषण विषयक बुद्धित्वरूपधर्मावच्छिन्नस्य एव द्रव्यविषयकप्रत्यक्षत्वावच्छिन्नस्योपपत्तिरिति तस्य यत्किञ्चित्पर्याय वैशिष्ट्यविषयकत्वस्य, तथा वस्तुविषयकप्रत्यक्षत्वरूपकार्यतावच्छेदकीभूतधर्माश्रययत्किञ्चित्पर्यायविशिष्टवस्तुविषयक प्रत्यक्ष व्यक्तिनिष्ठयत्किञ्चित्पर्यायविशिष्टवस्तुविषयक प्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितयत्किञ्चित्पर्यायविषयक बुद्धित्वावच्छिन्न कारणतावच्छेद कयावदन्तर्गतयञ्चित्किञ्चित्पर्यायविषय बुद्धित्वावच्छिन्नस्य सत्त्व एव वस्तुविषयकप्रत्यक्षत्वावच्छिन्नस्योत्पत्तिरिति तस्य यत्किञ्चित्पर्यायवैशिष्ट्यविषयकत्वस्य च नियमेन भावनिर्विकल्पकस्य शुद्धभावप्रत्यक्षस्यापि चासम्भवादित्यर्थः । एवं 'तद्धर्मव्याप्यधर्मावच्छिन्न' इत्यादिनियमे तद्धर्मव्याप्यव्यापकधर्मावच्छिन्न' इत्यादिनियमेऽपि चोक्तासम्भवो बोध्यः ।
सवे
अत एव अभावस्येत्येष सापेक्षत्वं न भावस्यैकान्तस्योक्तयुक्तया निरासेन निरपेक्षत्वपक्षे इदन्त्वादिनाऽभावज्ञानमपि प्रतियोगिज्ञानं विना भवति, तथा भावज्ञानमपि, सापेक्षत्वपक्षे अभावज्ञानस्येव भावज्ञानस्यापि सविकल्पकत्वमेवेत्यस्य व्यवस्थितचादेव । सामान्यदृष्ट्या सर्व निर्विकल्पकं विशेषदृष्टया सविकल्पकमित्येवमनेकान्तस्य पुरुषदृष्टान्तेन समर्थकं सम्मतिगाथायुगल मुल्लिखति - वंजण० इति - " व्यञ्जनपर्यायस्य तु पुरुषः पुरुष इति नित्यमविकल्पः । बालादिविकल्पं पुनः पश्यति तस्यार्थपर्यायः ।। सविकल्प - निर्विकल्पमिति पुरुषं यो भणेदविकल्पम् । सविकल्पमेव वा निश्चयेन न स निश्चितः समये ।।” इति संस्कृतम् । विवृणोति - व्यञ्जयतीति । व्यञ्जनपदेनार्थमात्रवाचकस्य शब्दस्यैव ग्रहणम्, न शब्दनयस्येत्याह-- न पुनः