________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
विशिष्टविषयकप्रत्यक्षत्वयोर्व्याप्यव्यापकभावाभावात् कथं विशेषसामग्रीत्वमिति वाच्यम्, कार्यतावच्छेदकीभूततद्धर्माश्रययत्किञ्चिद् व्यक्तिनिष्ठकार्यतानिरूपित कारणतावच्छेदकं यावत् प्रत्येकं तावदवच्छिन्न[य] सत्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिरित्येव नियमात्, 'तद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्व्यक्तिनिष्ठकार्यतानिरूपित०' इत्याद्युक्तौ व्याप्तिज्ञान- परामर्शयोः सतोर्बाधधीस श्वेऽप्यनुमित्यापत्तौ ' तद्धर्मव्याध्यव्यापकधर्मावच्छिन्नयत्किञ्चद् व्यक्तिनिष्ठ कार्यं तानिरूपित०' इत्याद्युक्तौ गौरवात्, घटत्वादिविशिष्टवैशिष्ट्यविषयकप्रत्यक्षत्वस्याभावलौकिक प्रत्यक्षत्व व्याप्यत्वात् तत्तद्भावलौकिकप्रत्यक्षत्वव्याप्यतत्तदभावलौकिक
४३
क्षिपति - न चेति- अस्य 'वाच्यम्' इत्यनेनान्वयः । निषेधे हेतुमाह- कार्यतावच्छेद की भूतेति - कार्यतावच्छेदकी भूततद्धर्मोऽभाव लौकिकप्रत्यक्षत्वम्, तदाश्रय विश्चिद्वयक्तिर्घट विशिष्टाभावलौकिक प्रत्यक्ष व्यक्तिः, तन्निष्टकार्यता अभावलौकिकप्रत्यक्षत्वावच्छिन्न कार्यता अभावलौकिकप्रत्यक्षत्वव्यापकाशेषधर्मविच्छिन्नकार्यता घट विशिष्टाभावलौकिकप्रत्यक्षत्वावच्छिन्नकार्यता च, तन्निरूपितकारणतावच्छेदकं यावत्- अभावलौकिकप्रत्यक्षत्वावच्छिन्न कार्यतानिरूपित कारणतावच्छेदकाभावलौकिकप्रत्यक्षत्वव्यापक शेषधमविच्छिन्न का येतानिरूपित कारणतावच्छेदक- घटविशिष्टाभावलौकिक प्रत्यक्षत्वावच्छिन्न कार्यतः निरुपित कारणतावच्छेदकानां समुदायः, प्रत्येकं तावदवच्छिन्नस्य सत्त्वेऽवश्यं तद्धर्मावच्छिन्नोत्पत्तिः- अभावलौकिक प्रत्यक्षत्वोत्पत्तिरित्यैव नियमात् तथा च ' प्रत्येकं तावदवच्छिन्नस्य' इत्यनेन घटात्मक विशेषणज्ञानस्यापि ग्रहणेन तत्सत्त्वे जायमानस्याभावलौकिक प्रत्यक्षस्य घटविशिष्टविषयकत्वस्याऽवश्यम्भावनाऽभाव निर्विकल्पक प्रत्यक्षस्य 'न' इत्याकारकप्रत्यक्षस्य चासम्भवादित्यर्थः, 'कार्यतावच्छेदकीभूततद्धर्माश्रयत्किञ्चिद्वयति निष्टकार्यतानिरूपितकारणतावच्छेदकं यावत्' इत्यस्य स्थाने 'कार्यतावच्छेद की भूततद्धर्मव्याप्यधर्मावच्छिन्नयत्किञ्चिद्वक्तिनिष्टकार्य ता निरूपित कारणतावच्छेदकं यावत्' इत्युक्तिर्न सम्भवति, तथा सति व्याप्तिज्ञान- परामर्शादिकार्यतावच्छेदकीभूतधर्मोऽनुमितित्वम्, तद्वयाप्यधर्मः पर्वतविशेष्यकवह्निप्रकार कानुमितित्वम्, तदवच्छिन्ना या 'पर्वतो वह्निमान्' इत्याकारकानुमित्यात्म कयत्किश्विद्वयक्तिनिष्टकार्यता, तन्निरूपितकारणतावच्छेदकं व्याप्तिज्ञानत्व- परामर्शत्वादिकम्, न तु बाधज्ञानाभावत्वम्, बाधज्ञानस्य विशिष्टबुद्धिमानं प्रत्येव प्रतिबन्धकत्वेन बाधज्ञानाऽभावत्वेन विशिष्टबुद्धित्वेनैव कार्यकारणभावः, न तु बाधज्ञानाऽभावत्वेनाऽनुमितिविशेषत्वेनेति बाधधीसत्वे बाधज्ञानाभावाऽसत्त्वेऽपि व्याप्तिज्ञान परामर्शयोः सत्त्वेन निरुक्तकारणतावच्छेदकयावदवच्छिन्नस्य सत्तयाऽनुमित्यापत्तिः स्यादित्याह तद्धर्मव्याप्येति : 'प्यनुमित्यापत्ती' इति स्थाने 'प्यनुमित्यापत्तेः' इति पाठो युक्तः । यद्युक्तपत्तिवारणाय 'कार्यतावच्छेदकीभूततद्धर्मव्याप्यधर्मावच्छिन्ना था च कार्यतावच्छेदकीभूततद्धर्मव्यापकधर्मावच्छिन्ना यत्किञ्चिद्वयक्तिनिष्टकार्यता तन्निरूपितकारणतावच्छेदकं यावत् इत्याद्युच्यते तदा कार्यतावच्छेद की भूतानामितित्वव्याप्यपर्वत विशेष्य कवह्निविधेयकानुमितित्वावच्छिन्ना कार्यता तादृशानुमितित्वव्यापक विशिष्टबुद्धित्वावच्छिन्न च कार्यता ग्रहीतुं शक्या, तन्निरुपितकारणतावच्छेदक यावन्मध्ये बाधज्ञानाभावत्यमपि भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्त्वे न भवतीति वाघधीसत्त्वे व्याप्तिज्ञान-परामर्शयोः सतोरप्यनुमित्यापत्तिर्न सम्भवति, किन्त्वेवमुक्तौ गौरवं स्यादित्याह- तद्धर्मव्याप्यव्यापक धर्मेति- 'तद्धर्म' इत्यस्य व्याप्ये व्यापके चान्वयः, अथवाऽग्रिमग्रन्थस्वारस्यात् तद्धर्मव्याप्यस्य व्यापको यो धर्मस्तदवच्छिन्नयत्किचिद्वयक्तिनिष्टकार्यतेत्यादिरप्यर्थः सम्भवति, तत्रापि तद्धर्मस्यानुमितित्वस्य व्याप्यं पर्वतविशेष्य कवह्निविधेयकानुमितित्वादि, तद्वयापकं विशिष्टबुद्धित्वम्, तदवच्छिन्नयत्किश्विद्वयक्तिनिष्ठ कार्यतानिरूपितकारणतावच्छेदकं बाधज्ञानाभावत्वं भवति, तदवच्छिन्नस्य सत्त्वं बाधधीसत्वे न भवतीति न बाधधीसत्त्वेऽनुमित्यापत्तिरित्येवमुक्तापत्तिवारणं सम्भवतीति । अनुमित्यापत्तिगौरवदोषतः 'तद्धर्मव्याप्य' इत्यादि 'तद्धर्मध्याप्यव्यापक' इत्यादिनियमद्वयासम्भव उपदर्शितः, उक्त नियमद्वयोररीकारेऽप्यभावस्य विशिष्टबुद्धयात्मकमेव प्रत्यक्षम्, निर्विकल्पक 'न' इत्याकारकं वेति प्रकृतसिद्धिर्भवत्येवेत्याह- घटत्वादीति तद्धर्मोऽभावलौकिकप्रत्यक्षत्वम्, तद्वयाप्यत्वं तदभाववदवृत्तित्वरूपं यथाश्रुते घटत्वविशिष्टवैशिष्ट्यविषयक प्रत्यक्षत्वे न सम्भवति, अभावलौकिकप्रत्यक्षत्वाभाववृति 'घटवद् भूतलम्' इति प्रत्यक्षे घटत्वविशिष्टवैशिष्ट्यविषयकप्रत्यक्षत्वस्य सत्त्वात् स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्व लक्षणन्यून वृत्तित्वरूप व्याप्यत्वस्य सम्भवेऽपि तथाविधव्याप्यत्वाक्रान्तधर्मा
न