________________
४२
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः ।
भाषयोरुभयोः सन्निकर्षे घटाभावांशे प्रतियोगिविशेषितस्य पटाभावांशे च तदविशेपितस्य समूहालम्बनस्य प्रसङ्गात्। किञ्च, एवमिदन्त्वादिनाऽभावप्रत्यक्षं न स्यात् , न स्याञ्च 'अभाव प्रतियोगी घटः' इत्याद्याकारम् , तादृशप्रत्यक्षेष्वपि पृथकारणत्वकल्पने चातिगौरवम्, तस्मात् सन्निकर्षमात्रस्यैव किश्चिद्धर्मावच्छिन्नविषयतानिरूपितविषयताकप्रत्यक्षत्वावच्छिन्ने विशिष्टाकारप्रत्यक्षत्वावच्छिन्ने वा हेतुत्वम् , अतो नापायमात्रस्य विचारजन्यचरमशुद्धद्रव्योपयोगतुल्यतेति भावांशेऽभावांशे वा न शुद्धविषयकं प्रत्यक्षमित्यभाव एव सापेक्षो न भाव इति किमिदमर्द्धजरतीयम् । एतेन " अभावलौकिक प्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्व नियमाद् विशेषसामग्री विना सामान्य सामग्रीमात्रात् कार्यानुत्पत्ते भावनिर्विकल्पकम् , 'न' इत्याकारकप्रत्यक्षं वा विशेषणादिज्ञानरूपविशेषसामग्र्यभावात् । न चाभावलौकिकप्रत्यक्षत्व घटत्वादिविशेषितस्य पटत्वावच्छिन्नप्रतियोगितासम्बन्धेन पटाविशेषितस्य । समूहालम्बनस्य घटाभाव-पटाभावोभयविषयकसमूहालम्बनप्रत्यक्षस्य, तादृशप्रत्यक्षस्यापि प्रकारीभूतकिञ्चिद्धर्मो घटत्वम् , तदवच्छिन्नप्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माकान्ततया विशेषणतासन्निकर्षतस्तदुत्पत्तिप्रसङ्गादित्यर्थः । अपि च प्रकारी. भूत किश्चिद्धर्मावच्छिन्न प्रतियोगित्वसम्बन्धावच्छिन्न प्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वरूपकार्यतावच्छेदकधर्माऽनाक्रान्ततयेदन्त्वादिनाऽभावप्रत्यक्षस्यभावप्रतियोगी 'अघटः' इत्यादिप्रत्यक्षाणां च विशेषतासन्निकर्यादुत्पत्तिर्न भवेदिति तदुत्पत्तये कारणान्तरकल्पनं चातिगौरवं स्यादित्याह-किञ्चेति । एवम् उक्तप्रकारेण विशेषणताया अभावप्रत्यक्षं प्रति कारणत्वाभ्युपगमे । ताशप्रत्यक्षेष्वपि इदन्वादिनाऽभावप्रत्यक्षे 'अभावप्रतियोगी घटः' इलादिप्रत्यक्षेत्रपि । यादृशकार्यकारणभावस्वीकारे भावांशेऽभावाशे च किञ्चिद्विशेषणमुपादायव प्रत्यक्षम्, न तु केवलाभावविषयकं केवलभावविषयकं वा प्रत्यक्ष तादृशकार्यकारणभावमुपदर्शयति-तस्मादिति- पराभ्युपगतकार्यकारणभावस्य दोषग्रस्तत्वादित्यर्थः । 'सन्निकर्षमावस्यैव' इत्येवकारेण केवलविशेषणताया व्यवच्छेदः। 'किश्चिद्धर्म०'इत्यादिकार्यतावच्छेदककोटी विशिष्य भावविषयताया अभावविषयताया वा अप्रवेशाद् भावप्रत्यक्षाऽभावप्रत्यक्षोभयोरपि निरुक्तकार्यतावच्छेदकाकान्तत्वात् सन्निकर्षमात्रेणैव जायमानं प्रत्यक्षं विशिष्टविषयकमेवेत्याह- अत इति- अनन्तरोपदर्शितकार्यकारणभावाभ्युपगमत इत्यर्थः । 'नापायमात्रस्य' इत्यत्र नत्रः 'तुल्यता' इत्यनेनान्वयः, अवग्रहेहाऽपायधारणारूपचतुष्ट यात्म कमतिज्ञानतृतीयभेदस्याऽपायमात्रस्य, विचारजन्य:- सङ्ग्रहनयविचारप्रभवः यश्वरमशुद्धद्रव्योपयोग:- पर्यायाऽविशेषितद्रव्यमात्रोपयोगः, तत्तल्यता नेत्यर्थः । एवं च भावांशेऽभावांशे वा शुद्धविषयक प्रत्यक्षं विशेषणासम्पृक्तविषयकप्रत्यक्षं सन्निकर्षमात्र कार्यतावच्छेदकधर्मानाकान्तत्वान्न भवत्येव, इति एतस्मादेतोः, परस्य यदभाव एव सापेक्षो न भाव इतीदं वचनमर्द्ध जरतीयं किं- किञ्चित् , अमावस्येव भावस्यापि किश्चिद्विशिष्टतयैव प्रत्यक्षण विषयीक्रियमाणत्वादुभयोः सापेक्षत्वमेवेत्याशयः ।
'एतेन' इत्यस्य 'इत्यादिनव्यकल्पनाऽपि निरस्ता' इत्यनेनान्वयः, अभावलौकिक प्रत्यक्षस्य घटाद्यन्यतमविशिष्टविषयकत्वनियमस्तदोपपद्येत यदि चक्षुरादीन्द्रियसम्बद्ध विशेषतासन्निकर्षों घटादिज्ञानसहकृतो घटाद्यन्यतमविशिष्टामावलौकिक प्रत्यक्ष कारणमित्येवं विशिष्य कार्यकारणभावः स्यात् , तथा च तादृशक्शेिषसामग्रीसहितैवाभावलौकिकप्रत्यक्षसामान्यसामग्री कार्यजनिका, न विशेषसामग्रीमन्तरा सामान्य सामग्री कार्य निका, विशेषसामग्री च घटादिविशिष्टाभावलौकिकप्रत्यक्षजनिकैवेति तत्सापेक्षसामान्यसामग्रीतोऽपि घटादिविशिष्टाभावलौकिक प्रत्यक्ष एव, नाऽभावनिर्विकल्पम् , 'न' इत्या कारकप्रत्यक्षं वा, तादृशप्रत्यक्षं च विशेषणज्ञानविरहकाल एव भवेत् , तदानीं च विशेषसामग्यभावात् तत्सहितायाः सामान्यसामाच्या अध्यभावे कार्यासम्भवादित्यर्थः । ननु अभावलौकिकप्रत्यक्षत्वावच्छिन्न प्रति इन्द्रियसम्बद्ध विशेषणता हेतुरित्येकः कार्यकारणभावः, अपरश्च घटत्वादिविशिष्टविषयकप्रत्यक्षत्वावच्छिन्नं प्रति घटादिविशेषणज्ञानं हेतुरिति, तत्र घटादिविशेषण ज्ञान सहकृतैवाभावलौकिक. प्रत्यक्षसामग्री कार्यजनिकेति नियमभावेऽभावलौकिकप्रत्यक्षं घटाद्यन्यतमविशिष्टविषयकमेवेति नियमो भवत् , तादृशनियमसद्भावश्चाभावलौकिक प्रत्यक्षत्वस्य चत्वादिविशिष्टविषयकप्रत्यक्षत्वव्यापकत्वे सति घटत्वादिविरिष्टविषयकप्रत्यक्षसामग्या विशेष. सामग्रीस्वादुपपद्यते, न चाभावलौकिक प्रत्यक्षत्व-घटत्वादिविशिष्टविषयक प्रत्यक्षत्वयोव्याप्यव्यापकभावः समस्तीत्याशङ्कय प्रति