________________
नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
क्षेमे त्वदुक्तहेतुसद्भावेऽपि लाघवाद भावांशत्यागेन केवलाभावस्येव केवलभावस्यापि न भानमिति कुं शक्यत्वात् निर्विकल्पके प्रमाणाभावात्, क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानोपपत्तौ तस्य तद्कल्पकत्वात् । अत एव -
" द्रव्यं पर्यावर्त पर्याया द्रव्यवर्जिताः । क कदा केन किरूपा दृष्टा मानेन केन वा ? " ॥ १ ॥ { ] इत्यस्मत्संप्रदायवृद्धाः संगिरन्ते ।
"
" शुद्धाभावप्रत्यक्षं तु प्रतियोगितासम्बन्धावच्छिन्नप्रकारता निरूपिताऽभाव विषयताकप्रत्यक्ष एव विशेषणताया हेतुत्वान्न भवति " इत्यपि रिक्तं वचः, प्रतियोगितामात्रेण ' द्रव्यं नास्ति, मेयं नास्ति इत्याद्यापत्तेः, प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नत्वेन प्रतियोगिता विशेषणेऽपि न निस्तारः, घटाभाव-पटायश्च नैयायिकाऽभिमतोऽभावप्रत्यक्ष-प्रतियोगिज्ञानयोः कार्यकारणभावस्तत्रापि लाघवात् कार्यतावच्छेदककोटावभावांशं परित्यज्य घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपितविषयताक प्रत्यक्षत्वावच्छिन्नं प्रति घटज्ञानस्य कारणत्वमित्युपगमे केवलस्याभावस्य यथा न भानं तथा केवलभावस्यापि न मानम् अस्तित्वादिभावप्रत्यक्षस्यापि निरुक्तकार्यतावच्छेदकधर्माक्रान्तत्वेन घटादिज्ञानकार्यत्वतो घटादिभानस्यापि तत्र विशेषणतया सम्भवादित्याह- त्वदुक्तहेतुसद्भावेऽपीति - अत्र 'त्वदुक्तहेतुहेतुमद्भावsपि' इति पाठो युक्तः । 'लाघवाद् भावांशत्यागेन' इति स्थाने 'लाघवादभावांशत्यागेन' इति पाठो युक्तः । ara निर्विकल्पक ज्ञानस्य प्रतियोगिघी साध्यत्वमभिहितं तत् तदा शोभेत यदि निर्विकल्पकज्ञानं प्रामाणिकं भवेत्, तत्रैव तु प्रमाणं न पश्याम इति तत्र प्रतियोगिधी साध्यत्व-तदसाध्यत्वा दिविचारः काकदन्तविचारवन्निष्प्रयोजन एवेत्याह- निर्विकलपक इति । ननु विशिष्टबुद्धित्वावच्छिन्नं प्रति विशेषण ज्ञानत्वेन हेतुत्वमिति विशिष्टबुद्धयुत्पादनाय विशेषणज्ञानमावश्यकम्, तदपि विशेषणज्ञानं यदि विशिष्टवुद्धिरूपमेव स्यात् तर्हि तदर्थमपि विशेषणज्ञानान्तरं कल्पनीयं स्याद् एवं तत्रापीत्यनवस्था स्यात् तत्परिहाराय विशिष्टबुद्धिहेतुतया कल्पनीयं विशेषज्ञानं क्वचिचिर्विकल्पकमभ्युपगन्तव्यमिति विशिष्टबुद्धयन्यथानुपपत्तिरेव निर्विकल्पके प्रमाणमित्यत आह- क्षयोपशमविशेषेणैवेति- कस्यचिद् धर्मस्य विशिष्टबुद्धिर्भवति कस्यचिद् धर्मस्य विशिष्टबुद्धिर्न भवति तत्र क्षयोपशम विशेष एव नियामको न तु तत्तद्धर्मज्ञानमिति क्षयोपशमविशेषेणव तत्तद्विविशिष्टज्ञानोपपत्ती, तस्य विशिष्टज्ञानस्य तदकल्पकत्वात् निर्विकल्पक ज्ञानाsकल्पकत्वात् । अत एव विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणत्वाभावेन क्षयोपशमविशेषेणैव तत्तद्विशिष्टज्ञानस्य सम्भवादेव । द्रव्यमिति- अर्थात् पर्यायसहितमेव द्रव्यं भानेन गृह्यते, द्रव्यसहिता एव पर्याया मानेन गृह्यन्त इति न च तत्र पूर्वं पर्यायज्ञानमनन्तरं पर्यायसहितद्रव्यज्ञानम् तथा पूर्वं द्रव्यज्ञानं ततो द्रव्यसहितपर्यायज्ञानमिति ।
ANANA
४१
शुद्धाभावप्रत्यक्षाभवने पर वक्तव्यमुपदर्य प्रतिक्षिपति शुद्धाभावप्रत्यक्षं त्विति अम्य ' न भवति' इत्यनेनान्वयः । तत्र हेतु :- प्रतियोगिता सम्वन्धेत्यादि । विशेषणतायाः चक्षुरादीन्द्रियसंयुक्तादिविशेषणतायाः । परवचनस्यायुक्तत्वे हेतुमुपदर्शयति- प्रतियोगितामात्रेणेति यद्यपि द्रव्यं सर्वत्र वर्तते मेयं च सर्वत्र वर्तत इति द्रव्यत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यविशिष्टाभावो मेयत्वावच्छिन्नप्रतियोगितासम्बन्धेन मेयविशिष्टाभावश्च नास्तीति तत्प्रत्यक्षापादनं न सम्भवति तथाऽपि घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यविशिष्टाभावस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन मेयविशिष्टाभावस्य च सम्भवात् तत्प्रत्यक्षस्य प्रतियोगित्वसम्बन्धावच्छिन्न प्रकारतानिरूपिताभावविषयताकप्रत्यक्षत्वलक्षणकार्यतावच्छेदकधर्माक्रान्तत्वाद् विशेषणता लक्षणेन्द्रियसन्निकर्षरूपकारणबलादापत्तेरित्यर्थः । ननु प्रकारीभूतकिञ्चिद्धर्मावच्छिन्नप्रतियोगित्वससम्बन्धावच्छिन्नप्रकारतानिरूपिताभावविषयताकप्रत्यक्ष एव विशेषणता हेतु:, अन्यधर्मावच्छिन्नप्रतियोगितासम्बन्धेन द्रव्यप्रकारका भावविशेष्यकं प्रत्यक्षं तेन सम्बन्धेन मैयप्रकारकाभावविशेष्यकप्रत्यक्षं च न निरुक्तकार्यतावच्छेदकधर्माक्रान्तमिति न विशेषणतातस्तदापादनं सम्भवतीत्येवं कल्पनायामपि न परस्य निर्दोषतेत्याह- प्रकारीभूतेति । 'न निस्तारः' इत्यत्र हेतुमुपदर्शयति- घटाभावेति । प्रतियोगिविशेषितस्य घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन घटविशेषितस्य । तद
६