________________
४०
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलवृतो नयोपदेशः ।
वचनस्योपपत्तेः । नबुल्लेखस्तु प्रतियोगिवाचकपदनियतः, न सार्वत्रिकः । किञ्च, उक्तरीत्या प्रतियोगिज्ञानस्य हेतुत्वे केवलाभावत्वनिर्विकल्पकापत्तिः, अभावत्वस्याखण्डत्वाद, अन्यथाऽभावविशिष्टबुद्धावपि तनिर्विकल्पकायोगात् । अपि च ‘घट-पटौ न' इत्यादिप्रत्यक्षं घटज्ञान-पटज्ञानादिकार्यतावच्छेदकानाक्रान्ततया तद्विरहेऽपि स्यात्, तस्माद् घटत्वाद्यवच्छिन्नप्रकारतानिरूपित विषयताकप्रत्यक्षमेव लाघवाद् घटादिधीकार्यतावच्छेदकं युक्तमिति घटास्तित्व नास्तित्वयोः सप्रतियोगित्वा-ऽप्रतियोगिकत्वे तुल्ययोग
त्वेऽपि तद्भेदस्य यथा चक्षुरादीन्द्रिययोग्यत्त्वम् , अत एव 'स्तम्भः पिशाचो न भवति' इत्येवं चक्षुरिन्द्रियजं प्रत्यक्षं भवति तथेत्यर्थः । ननु 'शून्यमिदं दृश्यते' इति प्रत्ययबलात् प्रतियोगिज्ञानमन्तरेणापि प्रतियोग्यविशेषिताभावज्ञान यदीध्यते तर्हि 'शून्यम्' इत्याकारकाभावज्ञानवत् 'न' इत्याकारकमप्यभावप्रत्यक्षं किं न स्यादित्यत आह- नअल्लखस्त्विति- अभाववाचकनशब्दप्रयोगस्तु प्रतियोगिवाचकपदप्रयोगे सत्येव भवति, तथा च प्रतियोगिवाचकपदसमभिव्याहृतस्यैवाभाववाचकनशब्दस्य प्रयोगो न केवलस्येति यत्रैव प्रतियोगिवाचकशब्दस्तत्रैव नशब्दः प्रयुज्यते, न सर्वत्रेत्यर्थः । नैयायिकोपदर्शितप्रतियोगिज्ञानाऽभावप्रत्यक्षकार्यकारणभावं दूषयति-किञ्चेति । उक्तरीत्येति-घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वमित्येवं प्रकारेणेत्यर्थः । केवलेति- अभावाऽविषयकाऽभावत्वविषयकनिर्विकल्पकापत्तिरित्यर्थः । तादृशनिर्विकल्पकस्य घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्याऽनिरूपिताऽभावविषयताकप्रत्यक्षवलक्षणघटादिधीकार्यतावच्छेदकधर्माऽनाकान्ततया तं प्रति घटादिधियः कारणत्वाभावेन तामन्तरेणापि तदुत्पत्तौ वाधकाभावादित्यभिसन्धिः । नन्वभावत्वस्य भावभेदरूपत्वेन सखण्डोपाधिरूपस्य स्वरूपतो भान न सम्भवतीति न केवलस्य तस्य निर्विकल्पकापत्तिसम्भव इत्यत आह- अभावत्वस्येति । अखण्डत्वात् अखण्डोपाधिरूपत्वात्, 'घटाभावः पटाभावी मठाभावः' इत्यादिप्रतीतो सर्वत्राऽभावांशेऽनुगततया भासमानस्याऽभावत्वस्याऽखण्डोपाधिरूपत्वमेवेत्याशयः। अन्यथा अभावत्वस्य सखण्डोपाधिरूपतयेवाभ्युपगमे । तन्निर्विकल्पकेति-अभावत्वनिर्विकल्प केत्यर्थः । अभावविशिष्टवुद्धिरप्यभावत्वांशे निर्विकल्पात्मिका नैयायिकेनोपेयते, साऽपि कथं स्यात् ? अभावत्वस्य सखण्डत्वेन स्वरूपतो भानासम्भवन किञ्चिद्रूपेणैव तद्भानस्य स्वीकरणीयत्वादिति । किञ्च, घटज्ञानस्य कार्यतावच्छेदकं घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वम् , पटज्ञानस्य कार्यतावच्छेदकं पटत्वावच्छिन्न प्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वम् , तदुभयमपि 'घट-पटौ न' इत्याकारकाभावप्रत्यक्षे नास्ति, तदीयाभावविषयतायाः प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारत्वान्या या प्रतियोगित्वसम्बन्धावच्छिन्नपटत्कवच्छिन्न प्रकारता तन्निरूपितत्वेन तदनिरूपितत्वस्य, तथा प्रतियोगित्वसम्बन्धावच्छिन्न पटत्वावच्छिन्नप्रकारत्वान्या या प्रतियोगित्वसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारता तनिरूपितत्वेन तदनिरूपितत्वस्य चासत्त्वात् , तथा च घटज्ञानपटज्ञानकार्यतावच्छेदकानाक्रान्तस्य 'घट-पटौ न' इत्याकारकाऽभावप्रत्यक्षस्य घटज्ञान-पटज्ञानविरहेऽप्युत्पादप्रसङ्ग इत्याह-अपि
चेति। तद्विरहेऽपि घटज्ञान-पटज्ञानविरहेऽपि । तस्मात् परोक्तकार्यकारणभावस्य दूषितत्वात् । 'प्रत्यक्षमेव' इति स्थाने 'प्रत्यक्षत्वमेव' इति पाठो युक्तः । लाघवात् घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वाऽनिरूपिताऽभावविषयताकप्रत्यक्षत्वापेक्षया लाधवात् । एवं च 'घट-पटौ न' इति प्रत्यक्षमपि घटत्वावच्छिन्न प्रकारतानिरूपित विषयताकप्रत्यक्षत्वरूपघटज्ञानकार्यतावच्छेदकाक्रान्तं पटत्वावच्छिन्न प्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपपटज्ञानकातावच्छेदकाक्रान्तं च भवतीति घटज्ञान-पटज्ञानयोः सत्त्व एव 'घट-पटौ न' इति प्रत्यक्षम्, न तद्विरहे इति, अत्र कार्यतावच्छेदककोटौ घटत्वावच्छिन्नप्रकारतानिरूपितत्वेन विषयतामात्रमेव प्रविष्टं न त्वभावविषयतामात्रमिति घटास्तित्वत्वेन घटास्तित्वप्रत्यक्षमपि घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षवरूपघटज्ञान कार्यतावच्छेदकाक्रान्तमिति घटज्ञान एव घटास्तित्वज्ञानमिति तस्य भवति सप्रतियोगिकत्वं तथा घटनास्तित्वत्वेन घटनास्तित्वप्रत्यक्षमपि घटत्वावच्छिन्नप्रकारतानिरूपितविषयताकप्रत्यक्षत्वरूपघटज्ञानकायतावच्छेदकाक्रान्तमिति घटज्ञान एव घटनास्तित्वज्ञानमिति भवति तस्यापि सप्रतियोगिकत्वम्, प्रमेयत्वादिना च घटास्तित्व-घटनास्तित्वयोनि च नोक्तघटज्ञानकार्यतावच्छेदकाक्रान्तमिति घटज्ञानं विनाऽपि स्यादेवत्येवं घटास्तित्व घटनास्तित्वयोः सप्रतियोगिकत्वाऽप्रतियोगिकत्वे तुल्ययुक्त्यो पपन्नतरे इत्याह-घटास्तित्व-नास्तित्वयोरिति ।