________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः । हेतुत्वेऽपि 'न' इत्याकारकप्रत्यक्षापत्तिः, उपस्थितस्य प्रतियोगिनोऽभावे वैशिष्ट्यभाने बाधकाभावात् । न च ' अभावो न घटीयः' इत्यादिबाधधीदशायां तदापत्तिः, अभावत्वावच्छेदेनाभावे तादृशबाधधिय आहार्यत्वात् , अभावत्वसामानाधिकरण्येन च तद्दशायामपि प्रतियोगिवैशिष्ट्यभानसम्भवात् । यद्वा, घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घटादिधियो हेतुत्वम्, अन्यथा 'घटाद्यभावः' इत्याकारकप्रत्यक्षं च न जायेत, निखिलप्रतियोगिज्ञानकार्यतावच्छेदकाक्रान्तेदृशप्रत्यक्षस्य यत्किञ्चित्प्रतियोगिज्ञानेऽसम्भवात् , यावत्प्रतियोगिज्ञानस्य चासम्भवात् । अभावत्वांशे निर्विकल्पकं त्वभावांशे यत्किञ्चित्प्रतियोगिविशिष्टविषयत्वाद् यत्किञ्चित्प्रतियोगिधीसाध्यमेवेति नानुपपत्तिरिति चेत् ? न- प्रतियोगिज्ञानाभावेऽप्यभावत्वमात्रेण प्रत्यक्षस्येष्टत्वात् 'शून्यमिदं दृश्यते' इत्यादिप्रत्ययात्, इत्थमेवाभावत्वस्य भावभेदस्य पिशाचादिभेदवद् योग्यस्य 'घटो नास्ति' इत्यादौ स्वरूपतो भानमिति प्राचा
विधया प्रतियोगिभानप्रयोजकस्य सत्त्वे प्रतियोगिनोऽभावांशे विशेषणविधया भाने बाधकाभावात् प्रतियोगिविशिष्टाभावस्यैव प्रत्यक्षं भवति न केवलस्याभावस्येति निषेधहेतुमुपदर्शयति- उपस्थितस्येति । ननु 'अभावो न घटीयः' इति बाधधीदशायां घटस्य प्रतियोगितासम्बन्धेनाभावे वैशिष्ट्यभानासम्भवात् तदानीं प्रतियोगिज्ञानबलाद् 'न' इत्याकारकाभावप्रत्यक्षापत्तिरित्याशङ्कय प्रतिक्षिपति-न चेति । तदापत्तिः 'न' इत्याकारकाभावप्रत्यक्षापत्तिः । 'अभावो न घटीयः' इति बाघज्ञानमभावत्वावच्छेदेनाभावे घटीयत्वाभावमवगाहते? अभावत्वसामानाधिकरण्येन वा? आये तादृशबाधज्ञानमाहार्यमेव स्यात् , अभावत्वाधिकरणयावन्मध्ये घटीयस्याप्यभावस्य प्रविष्टत्वेन घटीयत्ववति तत्र घटीयत्वाभावावगाहनात्, अभावत्वावच्छेदेन घटीयत्वाभावस्यासत्तयाऽभावत्वावच्छेदेन घटीयत्वाभावाभाववत्यभावे घटीयत्वाभावज्ञानस्येच्छयैव सम्भवेन बाधकालीनेच्छाजन्यज्ञानस्य तस्याहार्यत्वात् , अनाहार्याऽप्रामाण्य ज्ञानाऽनास्कन्दितस्यैव विरोधिनिश्चयस्य प्रतिबन्धकत्वमित्युक्ताहार्यबाधनिश्चयस्याप्रतिबन्धकतया तत्सत्त्वेऽप्यभावे घटस्य वैशिष्ट्यभानसम्भवात् , द्वितीये सामानाधिकरण्येन बाधज्ञानमवच्छेदकावच्छेदनैव तद्वत्ताबुद्धि प्रतिवध्नातीयभावत्वसामानाधिकरण्येन घटीयत्वाभावग्रहेऽप्यभावत्वसामानाधिकरध्येनाभावे घटस्य वैशिष्ट्यभानसम्भवादिति निषेधहेतुमुपदर्शयति- अभावत्वावच्छेदेनेति । तादृशबाधधियः 'अभावो न घटीयः' इत्यादिवाधधियः । तदृशायामपि 'अभावो न घटीयः' इत्यादिबावधीदशायामपि । विशेषतो. ऽभावज्ञान-प्रतियोगिज्ञानयोः कार्य कारणभावावेदकं कल्पान्तरं शङ्किताऽऽश्रयति-यद्वेति । अन्यथा अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वमित्येव कार्यकारणभावस्याभ्युपगमे, घटसामान्याभावो यथै कस्य घटस्याभावस्तथाऽन्यस्यापि घटस्याभाव इति प्रत्येकं सर्वेषामपि प्रतियोगिनां ज्ञानं घटाभावज्ञाने कारणमिति सर्वेषामपि प्रतियोगिनां ज्ञाने सत्येव घटाभावज्ञानं स्यात् , न यत्किञ्चिद्धटरूपप्रतियोगिज्ञान, यावतां घटानां च प्रत्येकं ज्ञानं तु न सम्भत्येवेति 'घटाद्यभावः' इत्याकारकप्रत्यक्षं न स्यात् , घटत्वावच्छिन्नप्रकारत्वान्यप्रकारत्वानिरूपिताभावविषयताकप्रत्यक्षे घसादिधियः कारणत्वमिति विशिष्य कार्यकारणभावे तु यत्किञ्चिद्धटज्ञानमपि घटज्ञानत्वेन कारणमिति यत्किञ्चिद्धटज्ञानेऽपि 'घटाद्यभावः' इत्याकारकप्रत्यक्षं सम्भवतीति, 'घटाभावः' इति ज्ञानं चाभावत्वांशे निर्विकल्पकमभावांशे च यत्किञ्चित्प्रतियोगिवैशिष्टचावगाहि, तथा च तज्ज्ञानं निरुक्तकार्यतावच्छेदकधर्माकान्तवाद् यत्किञ्चिद्धटज्ञान कार्य भवतीति यत्किञ्चिद्वटज्ञानतस्तादशज्ञानस्योपपत्तिरित्याह- अभावत्वांश इति । निष्प्रतियोगिकाभावपक्षे प्रतियोगिज्ञानं विनाऽपि 'अभावः' इत्याकारकप्रत्यक्षापादनं यदाशङ्कितं तत्रेष्टापत्तिरेवेति समाधत्ते- नेति । प्रतियोगिज्ञानं विनाऽभावत्वमात्रेणाभावप्रत्यक्षाऽभ्युपगमतः प्राचा वचनमपि सङ्गतिमङ्गतीत्याह- इत्थमेवेति- 'घटो नास्ति' इत्यादी घटविशिष्टाभावत्वेन घटाभावो भासते, तत्राभावत्वं भावभेद एवेति भावभेदस्य भावः प्रतियोगीति भावरूपप्रतियोगिनो ज्ञानमन्तरेणापि भावभेदरूपाभावस्य स्वरूपतो भानं संभवतीत्यभिप्रायकस्य प्राचां वचनस्येत्यमेवोपपत्तेः । समवाय-स्वसमवायिसमवतत्वान्यतरसम्बन्धन सत्त्ववत्त्वलक्षणभावत्वाश्रयस्य चक्षुराद्ययोग्यत्वे तद्भेदस्य कथं योग्यत्वमित्यपेक्षायामाह- पिशाचादिभेदवदिति- पिशाचादेश्चक्षुरादीन्द्रियायोग्य