SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः। चासन्निति तृतीयोलिंख्यमानावच्छेदकप्रतीत्याऽपि सापेक्षत्वं भावनीयम , अत एव परेऽपि व्याप्यवृत्तावप्यव्याप्यवृत्ताविव प्रतीतिबलात् तत्तद्वच्छिन्नवृत्तिकत्वं स्वीकुर्वते, इति दिक् ॥ ५ ॥ नय-प्रमाणवाक्ययोः कथं भेद इति व्युत्पादयति-- सप्तभङ्गयात्मकं वाक्यं प्रमाण पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यच्चैकधर्मगम् ॥ ६ ॥ नया०- सप्तेति । सप्तमङ्गयात्मकम् 'स्यादस्त्येव, स्यानास्त्येव' इत्यादिकं वाक्यं प्रमाणम् , यतः पूर्णबोधकृत सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकतापर्याप्तिमत् , तदाहुः- "स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः" १, "स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयो भङ्गः” २, "स्यादस्त्येव स्यानास्त्येवेति क्रमतो विधि-निषेधकल्पनया तृतीयो भङ्गः" ३, “स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया चतुर्थः" ४, "स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधि-निषेधकल्पनया च पञ्चमः" ५, “स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिः निषेधकल्पनया च षष्ठः" ६, "स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतो विधि-निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः" ७, [ प्रमाणनयतत्त्वालोकालङ्कारचतुर्थपरिच्छेदे १५, १६, १७, १८, १९, २०, २१, इति या तृतीया, या च 'परद्व्याद्यपेक्षया' इति तृतीया तयोल्लिख्यमाना याऽवच्छेदक प्रतीतिस्तयाऽपि सापेक्षत्वं भावनीयमित्यर्थः । अवच्छेदकप्रतीत्यनुरोधेन व्याप्यवृत्तर मि सावच्छिन्नवृत्तिकत्वतः सापेक्षकत्वं नैयायिका अपि स्वीकुर्वन्तीत्याहअत एवेति- अवच्छेदकपतीतिबलत: सापेक्षत्वादवेत्यर्थः । परेऽपि नैयायिका अपि “साध्यासामानाधिकरण्यानधिकरण्यम्" इतिव्यानलक्षणव्याख्या सार्वभौमेन "हेतुतावच्छेदकसम्बन्धेन हेत्वधिकरणावच्छेदेन साध्याधिकरणनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाभावाधिकरणत्वाभाववत्वम्" इति कृता, तत्र 'पर्वतो वह्निमान् धूमाद' इत्यादौ हेतुतावच्छेदकसम्बन्धेन संयोगेन धूमरूपहेत्वधिकरणं पर्वतः, तदवच्छेदेन वयधिकरणनिरूपित संयोगसम्बन्धावच्छिन्नवृत्तित्वाभावाधिकरणत्वं पर्वतीय रूपे प्रसिद्धम् , तदभाववत्त्व धूमे इत्येवं लक्षणसमन्वयः कृतः, तथा च, पर्वतीयरूपे वयधिकरणनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्वाभाववत्त्वं व्याप्यवृत्त्येव, तथापि 'पर्वते पर्वतीयरूपे न वह्निसंयुक्तत्वम्' इति प्रतीतिवलाद् व्याप्यवृत्तेरपि पर्वतीयरूपनिष्टवह्निमत्संयुक्तत्वाभावाधिकरणत्वस्य पर्वतावच्छिन्नपर्वतीयरूपनिरूपितवृत्तित्वमव्याप्यवृत्ताविव नैयायिकाः स्वीकुर्वन्ति, एवमन्यत्रापि दोध्यमित्यर्थः ॥ ५ ॥ षष्ठं पद्यमवतारयति-नय-प्रमाण वाक्ययोरिति । सप्तभङ्गयात्मकमिति पद्यं विवृणोति- सप्तेतीति | सप्तभङ्गयात्मकवाक्यस्य प्रमाणरूपतायां हेतुः पूर्णबोधजनकत्वम् , तत्प्रतीतये 'पूर्णवोधकृत्' इत्युक्तमित्याह-पूर्णबोधदितिपूर्णबोधजनकत्वात् प्रमाणमित्यर्थः । 'पूर्णबोधकृत्' इत्यस्य विवरणम्- 'सप्तविधजिज्ञासानिवर्तकशाब्दबोधजनकता. पर्याप्तिमत्' इति । सप्तमज चात्मकमहावाक्यस्वरूपाधिगतये तदवयवानां सप्तानामपि भनानां प्रत्येक क्रमेण स्वरूपमुपदर्शयति-तदाहरिति । 'स्थादस्त्येव' इत्यादिभङ्गस्वरूपावधारणं सुगममेवेति नात्र व्याख्यानमपेक्षितमिति बोध्यम् । एते चेति- वस्तुनि प्रतिपर्यायं विधि-निषेधप्रकारापेक्षयेते सप्तव भङ्गा इत्यन्वयः, यथा वस्तुनोऽस्तित्वधत्मिकपर्याय समाश्रित्य 'स्यादस्त्येव सर्वम्' इत्यादयः सप्त भङ्गा भवन्तीति तत्समुदायात्मकं महावाक्यमे का सप्तभङ्गी, तथा वस्तुनो त्मकपर्यायं समाश्रित्य 'स्यान्नित्यमेव सर्वम्' इति विधिकल्पनया प्रथमो भङ्गः, 'स्यादनित्यमेव सर्वम् इति निषेधकल्पनया द्वितीयो भङ्गा इत्येवं प्रकारण सप्तभनप्रवृत्त्या तत्समुदायात्मकमहावाक्यात्मिका द्वितीया सप्तभङ्गी, एवं भेदादिधर्ममुपादाय तृतीय-तुरीयाद्या अपि सप्तभङ्गायः सम्भवन्तीति धर्मभेदेनाऽनन्ता अपि सप्तभङ्गयः, तथापि प्रतिधर्म सप्तानामेव
SR No.008444
Book TitleNayopadesha Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages210
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy