________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / व्यभिचारात , तस्मान्नानार्थस्थले शब्दाभेदाद् भेदाभावेऽपि लक्षण-स्वरूपादिभेदाद् भेदो भविष्यति, नयर्थभेद एकमेव प्रतिनियतं प्रयोजकम् , भिन्नशब्दवाच्यतया तु भिन्नकालवृत्तितयै (ये)वार्थभेदो ध्रुवः, इति सर्वमनाविलम् / / 37 // ननु यद्येवं समभिरूढनयमते शब्दभेदादेवार्थभेदस्तदा शब्दानां व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तमित्यागतम् , तथाच 'डित्थः, डवित्थः' इत्यादिपारिभाषिकी सज्ञा नः छियेत, तत्रेच्छामात्रस्योपाधित्वेन यथास्थित व्युत्पत्तिनिमित्ताभावादिति चेत् ? अष्टापत्तिरित्यभिप्रायवानाह-- संज्ञाऽर्थतत्वं न ब्रूते, त्वन्मते पारिभाषिकी / अनादिसिद्धः शब्दार्थो, नेच्छा तत्र निबन्धनम् // 38 // नयामृता-संक्षेति। त्वन्मते-समभिरूढनयमते, पारिभाषिकी संज्ञा-डित्थ-डवित्थादिका, अर्थतत्त्वं न ब्रूते-पदार्थानुभवं न जनयति, यतः शब्दार्थोऽना दिसिद्धः-स्वाभाविकधर्मनिबन्धनः, तत्र-शब्दार्थे, इच्छा न निबन्धनमतिप्रसङ्गात् , इतीच्छाविशिष्टशक्यभावात्तस्याऽवोधकत्वमिति भावः / तदिदमुक तत्वार्थभाष्ये-'तत्र पारिभाषिकी नार्थतत्त्वं ब्रवीति ' [ तत्त्वार्थसूत्रे, अ० सू० ] इति // 38 // एवम्भूतं लक्षयति एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः / राजचिरैर्यथा राजा, नान्यदा राजशब्दभाक् // 39 // लक्षण-स्वरूपादिभेदान्नानार्थकर्यादिशब्दवाच्यानां सिंहादीनां भेदो भविष्यतीत्यर्थः / यदि विभिन्नशब्दवाच्यत्वमेकमेवार्थभेदे प्रयोजकं स्यात् तर्हि नानार्थस्थले तदभावादर्थभेदो न स्यान्न चैवमित्याह - वहीति / एवं च शब्दनयशिक्षणार्थं यत् सममिरूढस्याभिमतं तदुपदर्शयति-भिन्नशब्दवाच्यतयेति, या ऋजुसूत्रेण विभिन्न कालवृत्तितयाऽर्थभेदोऽभ्युपगतः शब्दनयेनापीष्टः सः, तथा भिन्नशब्दवाच्यतयाऽर्थभेदोऽवश्यमुपेयो नात्र कश्चिद्दोष इत्येवं समभिरूढनयाभिमतं सकलमनाविलं दोषासम्पृक्तमित्यर्थः // 37 // अष्टात्रिंशत्तमपद्यमवतारयति-नन्वित्यादिना !'शब्दभेदादेव' इत्येवकारेण लिङ्ग-वचनादिभेदानां व्यवच्छेदः, तेन स्वरूपादिभेदतोऽर्थभेदेऽपि न क्षतिः / तथा च व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वे च / ' छिद्यत' इत्यस्य स्थाने 'उच्छित ' इति पाठो युक्तः / तत्र डिस्थ-डवित्यादिसंज्ञायाम् / इच्छामात्रस्येति- " डिस्थः काष्ठमयो हस्ती" इत्यादिवचनेन काष्ठनिर्मितहस्त्यादिषु कस्यचिदिच्छया सतितो डित्यादिशब्द इतीच्छामात्रस्यैव तत्प्रवृत्ती निमितत्वं न तु डिस्थादिपदस्य किञ्चिद् व्युत्पत्तिनिमित्तमिति व्युत्पत्तिनिमित्तात्मकस्य प्रवृत्तिनिमित्तस्याभावात् पारिभाषिकी डित्यादिसंज्ञा न कस्यचिदर्थस्य बोधिका, न चार्थशून्या संज्ञा भवतीति समभिरूढमते तदुच्छेदः प्रसज्येतेत्यर्थः / अत्र आशङ्किते पारिभाषिकसंज्ञोच्छेद प्रसङ्गे / इष्टापत्तिः समभिरूढनयस्येष्टापादनम् / विवृणोति-संझतीति / ' त्वन्मने पारिभाषिकी ' इति मूले 'तन्मते पारिभाषिकी ' इति पाठ एवं युक्तः, टीकायामपि 'स्वन्मते' इति स्थाने 'तन्मते' इत्येव प-ठो युक्तः। उत्तरार्धस्य निषेधहेतुप्रतिपादकत्वं स्पष्टयितुं 'यतः' इति हेतुवचनपूरणम् / तस्याऽबोधकत्व' इति स्थाने ' तस्या अबोधकत्व ' इति पाठो युक्तः, तस्याः-पारिभाषिकसंज्ञायाः। पारिभाषिकसंज्ञायाः समभिरूढमते नार्थतत्वबोधकत्वमित्यत्र तत्त्वार्थभाष्यसम्मतिमुपदर्शयति-तदिनमकमिति / तत्र समभिरूढमते / / 38 // एकोनचत्वारिंशत्तमपद्यमवतारयति- एवम्भूतं लक्षयतीति / विवृणोति- एवंभूतस्त्वितीति ! व्यजनमर्थविशेषणं