________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो भयोपवेश
पदार्थः, तथा च संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं समभिरूढत्वमिति लक्षणलाभान कोऽपि दोष, एवम्भूते चातिव्याप्तिवारणाय तदन्यत्वेन विशेषणीयम् ।। ३६ ॥ एतन्मते शब्दनयशिक्षाप्रकारमाह- तटस्तटं तटीत्यादौ, शब्दभेदोऽर्थभिद् यदि ।
तद् घटः कुम्भ इत्यादौ, कथं नेत्यस्य मार्गणा ॥ ३७ ॥ नयामृत-तट इति ! हे शब्दनय ! यदि तव मते ' तटस्तटी तटम् ' इत्यादौ शब्दभेदोऽर्थ भिनत्तीत्यर्थभिद्-अर्थभेदकारी, तत्-तर्हि, ' घटः कुम्भः' इत्यादौ शब्दभेदः कथं नार्थभित् ? इति अस्य-समभिरूढनयस्य, मार्गणा-विचारणा; अयं भावः-यदि लिङ्ग वचनभिन्नानामर्थानां ध्वनिभेदाद् भेदस्तवानुमतस्तर्हि घट-कुम्भादिशब्दवाच्यानामपि किमिति भेदो नेष्टः ? ध्वनिभेदस्यात्रापि समान. त्वात् । किञ्च, विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे प्रयोजकं त्वयोच्यत इति गौरवम् , मया तु विभिन्नशब्दवाच्यत्वमेव तथा वाच्यमिति लाघवम , न च नानार्थकैकशब्दवाच्यानामप्यर्थानां यथा नाभेदस्तथा भिन्नशब्दवाच्यानामपि न भेदो भविष्यतीत्याशङ्कनीयम् , यतो विभिन्नशब्दवाच्यत्वस्यार्थभेदप्रयोजकत्वं, न तव्यापकत्वं येन नानार्थस्थले व्यापकाभावाद् व्याप्याभाव आपादयितुं शक्येत, किन्तु तव्याप्यत्वम् , न च व्याप्याभावाद् व्यापकाभाव आपादयितुं शक्यते, तथा सत्ययोगोलकेऽ. शब्दे यद्यच्छन्दभेदस्तत्र तत्तच्छब्दार्थ भिन्नार्थकत्वमित्याकारकव्याप्तेोऽभ्युपगमः सोऽसङ्क्रमपदार्थः, न चोक्तव्याप्तेरभ्युपगमो नैगमादौ समस्ति, घटशब्दे कट कम्भादिशब्दभेदस्य सत्त्वेऽपि कट-कुम्भाद्यर्थभिन्नार्थकत्वस्याभावादित्यर्थः । तथा च निरुक्तव्याप्रसङ्क्रमपदार्थत्वे च । संज्ञाभेदनियतार्थभदाभ्युपगन्तृत्वमेवम्भूतेऽपि समस्तीति तत्रातिव्याप्तिवारणायैवम्भूतभिन्नत्वे सति संज्ञाभेदनियतार्थ भेदाभ्युपगन्तृत्वं समभिरूढत्वमित्येवं लक्षणमादरणीयमित्याह-एवम्भूते चेति ॥ ३६ ॥
सप्तत्रिंशत्तमपद्यमवतार-ति- एतन्मत इति- समभिरूढनयमत इत्यर्थः । विवृणोति-तट इतीति । हे शब्दनय! यदि तव मते' इत्येतत् पूरण निरुक्तपद्यस्य शब्दनयशिक्षणप्रवणत्वावगतये। तब शब्दनयस्य । निरुक्तपद्यभावार्थमाविष्करोति- अयं भाव इत्यादिना । “लिङ्ग-वचनभिन्न' इति स्थाने 'लिङ्ग-वचनादिभिन्न' इति पाठो युक्तः । तव शब्दनयस्थ, अस्य 'नेष्टः' इत्यत्राप्यन्वयः। अत्राधि घट-कुम्भादिशब्दवाच्यष्वपि । शब्दनयमतापेक्षया स्वमते लाघवं स्वमतोपादेयत्वोपोद्धलकमुपदर्शयति-किञ्चेति । त्वया शब्दनयेन । मया तु समभिरूढनयेन पुनः । तथा वाच्यम् अर्थभेदे प्रयोजकं वाच्यम् । ननु विभिन्नशब्दवाच्यत्वं नार्थभेदे प्रयोजक सिंह-सूर्येन्द्र-विष्ण्वादीनामेकहरिशब्दवाच्यानां विभिन्नशब्दवाच्यत्वाभावेऽपि भेदस्य सद्भावादित्याशय प्रतिक्षिपति-न
चेति- अस्य ' आशङ्कनीयम्' इत्यनेनान्वयः । नानार्थकैकशब्दवाच्यानां नानाप्रवृसिनिमित्तकर्याचकशब्दवाच्यानाम्, एकशब्दवाच्यत्वं यथा नाभिदप्रयोजक तथा भिन्नशब्दवाच्यत्वं नार्थभेदप्रयोजकम् , शब्दभेदा-उमेदयोरर्थभेदा-ऽभेदानियामक त्वादिति शङ्कामुकलितोऽर्थः । निषेधे हेतुमाह- यत इति । न तद्वयापकत्वम् अर्थभेदव्यापकत्वं विभिन्नशब्दवाच्य. त्वस्य नार्थभेदप्रयोजकत्वम् । व्यापकाभावात् अर्थभेदव्यापकस्य विभिन्नशब्दवाच्यत्वस्य नानार्थशब्दवाच्येष्वभावात् । व्याप्याभावः विभिन्नशब्दवाच्यत्वव्याप्यस्यार्थभेदस्याभावः। तर्हि किमर्थभेदप्रयोजकत्वमिति पृच्छति-किन्विति । उत्तरयति-तद्वयाप्यत्वमिति - विभिन्नशब्दवाच्यत्वेऽर्थभेदव्याप्यत्वमेवार्थभेदप्रयोजकत्वमित्यर्थः, यत्र यत्र विभिन्नशब्दवाच्यत्वं तत्रार्थभेद इत्येवमत्र व्याप्तिः । न च ' इत्यस्य शक्यते ' इत्यनेनान्वयः । 'तथा सत्ययोगोलकेऽव्यभिचारात्' इत्यस्य स्थाने 'अयोगोलके धूमाभावेऽपि वयभावाभावेन व्यभिचारात्' इति पाठो युक्तः । तस्मात् विभिन्नशब्दवाच्यत्वस्यार्थभेदव्याप्यत्वस्यैवार्थभेदप्रयोजकत्वरूपत्वात् । शब्दाभेदादिति- शब्दभेदस्य तत्राभावादेव ततोऽर्थभेदस्याभाव इति बोध्यम् । लक्षणेति- सिंहादेर्यलक्षण तत्सूर्यादौ नास्ति, यच्च सिंहादीनां स्वरूपं तश सूर्यादीनामिति शब्दभेदाभावेऽपि