________________
१८२
____नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः।
.----
-.-...
चेत् ? तर्हि भिन्नानि लिङ्ग वचः सङ्ख्या-रूपाणि येषां तादृशेषु शब्देषु · तटस्तटी तटम् , गुरुर्गुरवः, स च त्वं च यास्यथः, कुरुते करोति ' इत्यादिषु कथं सामानाधिकरण्यम् ? न कथरिवदित्यर्थः, यथा हि त्वया ' अग्निष्ठोमयाजी पुत्रोऽस्य जनिता' इत्युक्तं स्वीक्रियते, कालभेदात् , तथा लिङ्गादिभेदादर्थभेदः सुतरां स्वीकर्तव्य इत्युपदेशः ॥ ३५ ॥ समभिरूढं लक्षयति--
नयः समभिरूढोऽसौ यः सत्स्वर्थेष्वसंक्रमः।
शब्दभेदेऽर्थभेदस्य व्याप्त्यभ्युपगमश्च सः ॥ ३६ ॥ नयामृत--' नयः' इति । यः सत्स्वर्थेषु घटादिष्वसङ्कमो घटाद्यन्यशब्दावाच्यत्वमसौ नयः समभिरूढः, यत् सूत्रम्-" वत्थूओ संकमणं होइ अवस्थू गये समभिरूढे" [ विशेषावश्यकनियुक्ति गाथा-२१८५ ]त्ति " सत्स्वर्थेष्वसङ्कमः" [ तत्वार्थसू० अ० १, सूत्र. ३५ ] इति तत्त्वार्थभाष्यम् , तत्र च यद्यपि यथाश्रुतार्थोऽभावालम्बनत्वेनासम्भवी, संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वं घट-पटादिसझाभेदेनार्थभेदाभ्युपगन्तरि नैगमादावतिव्याप्तम् , तथापि शब्दभेदेऽर्थभेदस्य व्याप्तेरभ्युपगमः सोऽसङ्कभइत्युदाहृतम्, भिन्न सङ्ख्याशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र स च त्वं च यास्यथः' इत्युदाहृतम् , भिन्नरूपशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'कुरुते करोति' इत्युदाहृतम् । कालभेदेनार्थभेदो यथर्जुसूत्रेण स्वीक्रियते तथा लिङ्गादि. भेदादर्थभेदोऽपि तेन स्वीकर्तव्य इति ऋजुसूत्रं प्रति शब्दनयस्योपदेशः शिक्षणस्वरूप एतत्पद्याभिप्रेत इत्याह-यथा हीति । त्वया ऋजुसूत्रनयेन. युष्मच्छब्देन सूत्रस्योपदर्शनत उपदेशस्वरूपतोक्तवाक्यस्य प्रतीयते । ' इत्युक्तं स्वीक्रियते, कालभेदात्' इत्यस्य स्थाने 'इत्युकमयुक्त स्वीक्रियते, कालभेदादर्थभेदात्' इति पाठो युक्तः, अत्र वतेमान कालवर्तिनो देवदत्ताभिख्यस्य षष्ठ्यन्तेदंशब्दप्रतिपाद्यस्य जनितेतिशब्दप्रतिपाद्य भविष्यकालीनजन्मवान् दूरकालविप्रकर्षाजन्यत्वाभावेन न पुत्रः, किन्त्वेतत्कालीन देवदत्तक्षणघटितसन्तानगतभविष्यत्कालीनजन्मवत्पुरुषीयगर्भगताद्यक्षणस्वरूपकुर्वपात्मकभविष्यत्शणविशेषप्रभवविसदृशमन्ततिपतिताद्यक्षणविशेषप्रभवद्वितीयक्षणविशेष प्रभवादिक्रमोपजाताव्यवहितस्वकर्वद्रपात्मकक्षणविशेषस्यैव जन्यत्वादुक्तजन्मवान् पुत्र इत्यसंलग्नकत्वादस्य 'पुत्रो जनिता' इति न संभवति, तथा यश्च पुत्रस्तत्सन्तानगत आद्यक्षणस्वरूप: सोऽन्योऽन्यश्च तत्सन्तानपतितोऽग्निष्टोमाभिधयागकरणसमर्थ इति 'पुत्रोऽग्निष्टोमयाजी' इत्यपि न सम्भवतीति 'अग्निष्टो. मयाजी पुत्रोऽस्य जनिता' इति वचनमयुक्तं त्वया ऋज सूत्रनयन स्वीक्रियते. काल भेदादर्थभेदादित्यर्थः । “स्वीकर्तव्यः' इत्यत्रापि “स्त्रया' इत्यस्य सम्बन्धः ॥ ३५॥
षदत्रिंशत्तमपद्यमवतारयति - समभिरूढमिति । विवृणोति-नय इतीति । ' असामः' इत्यस्य विवरणम्-- घटाद्यन्यशब्दावाच्यत्वमिति, यथा घटशब्दवाच्यस्य चेष्टाविशेषवतो घटस्य घनशब्दान्यक्रम्भ कलशादिशब्दानभिधेयत्वमिति, विषय-विषयिणोरभेदोपचाराद् घटस्य घटशब्दान्यशब्दावाच्यत्वाभ्युपगमस्य समभिरूढनयत्वे तद्विषयस्योक्तावाच्यत्वस्यापि समभिरूढनयत्वम् । निरुक्तासक्रमस्य समभिरूढनयत्वे सूत्रं प्रमाणयति-यत सूत्रमिति । वत्थूओ० इति "वस्तुनः सस्क्रमणं भवति अवस्तु नये समभिरूढे” इति संस्कृतम् । उक्तार्थे तत्त्वार्थभाष्य संवादमाह -- सत्स्वथैष्विति । उपचारतो निरुक्तसमभिरूढलक्षणं सम्भवदप्युक्तासङक्रमे ज्ञानविशेषस्वरूपे समभिरूढे प्रसिद्धलक्ष्यस्वरूपेऽसम्भवं ज्ञानगतस्यान्यादृशस्य तस्यातिव्याप्ति चोपदर्शयन् निष्कृष्टं दोषलेशा सम्पृक्तं तल्लक्षणमुपदर्शयति-तत्र चेति । यथाशृतार्थः असक्रमशब्दाभिधेयार्थः । अभावालम्बनत्वेन समाभावलक्षणाभावविशेषस्वरूपपर्यवसनत्वेन । असम्भवी समभिरूढनये ज्ञानविशेषस्वरूपे कुत्रापि लक्ष्ये न सम्भवतीति । संक्षेति- इदं लक्षणं ज्ञानगतं समभिरूढ लक्ष्ये सर्वत्र वर्तते, घट-कुटकुम्भादिसज्ञामेदनार्थभेदाभ्युपगन्तृत्वस्य शकेन्द्र-पुरन्दरादिसंज्ञाभेदेनार्थ भेदाभ्युपगन्तृत्वस्य च समभिरूडे सत्त्वात् , किन्वतिव्याप्तिदोषकलितमिदं घट पटादिसंज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वस्य नैगमादिनयेऽप्यलक्ष्ये वृत्तेरित्यर्थः । शब्दभेद इति-यस्मिन्