________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः ।
यथाऽहं रथेन यास्यामि' इत्येवं परभावेनैतन्निर्देष्टव्यम् , एवमुपग्रहणभेदोऽपि 'विरमति 'इत्यादि युक्तः, आत्मार्थतया हि । विरमते ' इत्यस्यैव प्रयोगस्य सङ्गतेः, न चैव लोक-शास्त्रविलोपः, सर्वत्रैव नयमते तल्लोपस्य समानत्वादिति सम्मतिवृत्ती व्यवस्थितम् , यद्यपि 'ग्राममधिशेते' इत्यादी प्रामो. तरद्वितीयादिपदादधिकरणत्वत्वादिप्रकारकप्रतीत्यर्थमधिकरणत्वत्वादिविशिष्टे लक्षणैव स्वीकार्या, तन्निरूढत्वसमानार्थमेव च विशेषानुशासनमपि वक्तुं शक्यते, तथाप्युक्तविपरीतप्रयोगप्रामाण्याय " उपपदविभक्तेः कारकविभक्तिबलीयसी" इत्यादिन्यायसाम्राज्याच्चायं विशेष इति दिक् ।। ३४ ॥ उक्तयुच्या यथानेनर्जुसूत्रीय युवा यास्यथेति मतं दुध्यते तथाऽऽह---
सामानाधिकरण्यं चेन्न विकारा-ऽपरार्थयोः।
भिन्नलिङ्ग-वचः-सङ्ख्या-रूपशब्देषु तत् कथम् ? ॥ ३५॥ नयामृत-सामानाधिकरण्यामिति । चेत्- यदि, विकारा-ऽपरार्थयो:-विकारा-ऽविकारार्थकशब्दयोः, ‘पलालं दहति 'इत्यादौ सामानाधिकरण्यम्- एकार्थान्वयजननयोग्यत्वं नेष्टं ऋजुसूत्रनयेन लोक-शास्त्रयोः सर्वप्रकारेणाविरोधः प्रमाणराजस्थाद्वाद एव, नयमते तु सर्वस्मिस्तद्विरोधस्तत्तन्नयवादिभिः वहस्तित एवेति नैकोऽपि नयवादो तदोष स्वविरोधिनयवादिनं प्रत्यभिधातुं शक्नोति स्वपदकुठार प्रहारकल्पस्वादिति निषेधहेतुमुपदर्शयतिसर्वत्रैवेति । तल्लोपस्य लोक-शास्त्रविलोपस्य। उक्तार्थस्यादेयत्वप्रतिपत्तये त्वाह-इति सम्मतिवृत्ती व्यवस्थितम । भधिकरणत्वेन ग्रामस्य प्रतिपत्तये शब्दनयस्तत्र 'प्रामेऽधिशेते' इति सप्तम्यन्तमेव प्रामपदमुररीकरोति, तत्र द्वितीयान्तत्वेऽपि ग्रामपदस्य द्वितीयाया अधिकरणत्वत्वविशिष्ट लक्षणया 'ग्राममधिशेते' इति प्रयोग उपपद्यते, सप्तमीस्थाने द्वितीयाऽनुशासनमपि द्वितीयाया अधिकरणत्वत्यविशिष्टे लक्षणाया निरूढत्वज्ञापनार्थमेवेति यद्यपि वक्तुं शक्यते तथापि 'ग्रामे अधिशेते' इति प्रयोगोऽपि प्रामाणिकानां भवति, तनिहाय 'उपपदविभः कारकविभक्तिबलीयसी' इति न्यायाश्रयणमावश्यकमतो द्वितीयामुपपदविभक्ति बाधित्वा कारकविभक्तिः सप्तम्येव तत्र भवतीति शब्दन यस्याभिप्राय इति प्रन्थकृत् स्वयं विवेकमुपदर्शयति- यद्यपीति । लक्षणेव द्वितीयाविभक्तलक्षणैव । 'तन्निरूढत्वसमानार्थमेव' इत्यस्य स्थाने 'तन्निरूढत्वज्ञापनार्थमेव ' इति पाठो युक्तः । तन्निरूढत्वेति- उक्तलक्षणानिरूढत्वेत्यर्थः। उक्तविपरीतप्रयोगेति- 'प्राममधिशेते' इति प्रयोगविपरीत ‘ग्रामेऽधिशेते' इति प्रयोगेत्यर्थः ॥ ३४ ॥
पञ्चत्रिंशत्तमपद्यमवतारयति-उक्तयुक्त्यति । अनेन शब्दनयेन । 'युवा यास्यथ' इति स्थाने 'युवां यास्यथः । इति पाठो युक्तः । विवृणोति-सामानाधिकरण्यमितीति । 'चेद्' इत्यस्य विवरणम्- यदीति । विकारापरार्थयोः' इत्यस्य विवरणम्-विकाराविकारार्थ कशब्दयोरिति । पलाल दहतीति- अत्र ‘पलालम् ' इत्यविकारार्थकशब्दः, ‘दहति ' इति विकारार्थक शब्दः, यो हि दहनक्रियाकाले यद्रूपेण वर्तते तस्य दहनमग्निना भवति, पलालस्य याक्संस्थानादिरूपेणावस्थानमविकृतरूपेणाग्निसंयुक्तावस्थातः प्राक् ताद्रूप्येणावस्थानं नामिसंयुक्ततावस्थायां किन्तु पूर्वरूपपरावर्तनभस्मीभवनलक्षणविकृतरूपेणेत्यतस्तयोः सामानाधिकरण्यं नेष्टमृजुसूत्रनयेन । सामानाधिकरण्यमेकाधिकरणवृत्तित्वं सुप्रसिद्धम् , तदत्र न युक्तमतस्तस्य विवरणम्- एकार्थान्वयजननयोग्यत्वम् , तस्य निषेधः सर्वथा न सम्भवति व्यवहारनयेन 'पलालं दहति' इत्यत्र तयोरुक्तस्वरूपस्य सामानाधिकरण्यस्याभ्युपगमादतः पूरयति-इष्टमृजुसूत्रनयेनेति"पलालं न दहत्य निर्भिद्यते न घट: क्वचित् । नासंयतः प्रव्रजति भव्योऽसिद्धो न सिध्यति" || [नयोपदेशश्लोक. ] इत्यभियुक्तबचनेन ऋजुसूत्राभीष्टं प्रतिपादितं प्राक् । यद्यर्थकचेत्पदनित्यसम्बन्धात् तहत्यिनुक्तोऽपि मूले समागच्छत्येवेत्याशयेन तहीति पूरितम् । तादृशेषु भिनलिङ्ग-वचः-सङ्ख्या-रूपेषु, 'तटस्तटी तटम्' इत्यस्य 'इत्यादिषु' इत्यत्रान्वयः, तथा च 'तटस्तटो तटम्' इत्यत्र कथं सामानाधिकरण्यमित्यन्वयः, एवमग्रेऽपि, भिन्नलिङ्गशब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र' तटः, तटी, तटम्' इत्युदाहृतम्, भिन्नवचश्शब्दे सामानाधिकरण्यं न सम्भवतीत्यत्र 'गुरुः, गुरवः'