________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
व्यवहारस्यापि ततो विशेषिततरार्थत्वप्रसङ्गदूषणानुद्धारः, सम्प्रदायाविरुद्धभङ्ग विषयी भूतेनार्थेन विशेषिततरत्वस्थाभिधित्सितत्वात्, सम्प्रदायश्चोत्तरोत्तर भङ्गप्रवृत्तावुत्तरोत्तरनयावलम्बनेनैव दृष्टो नान्यथेति न कश्चिद् दोष इति । वा- अथवा लिङ्गभेदादेरर्थभेदाश्रयणादस्य शब्दनयस्य ऋजुसूत्राद् विशेषः तथाहि( 'तटः, तटं, तटी' इत्यादौ ) अन्यलिङ्गवृत्तेः शब्दस्यान्यलिङ्गभेदलक्षणेन, ' गुरुः, गुरवः' इत्यादौ च वचनभेदलक्षणेन वैधर्म्येणार्थभेदस्य स्पष्टमनुभवात्, एवमन्यकारकयुक्तं यत् तदेवास्य मते अपरकारकसम्बन्धं नानुभवतीति अधिकरणवद् ग्रामोऽधिकरणाभिधानविभक्तिवाच्य एव, न कर्माभिधानविभक्तयभिषेय, इति ' ग्राममधिशेते ' इति प्रयोगोऽनुपपन्नः, तथा पुरुषभेदेऽपि नैकं वस्त्विति ' एहि ! मन्ये " रथेन यास्यसि, नहि यास्यसि, यातस्ते पिता' इति च प्रयोगो न युक्तः, अपि तु ' एहि । मन्यसे
१८०
विषयप्रतिपादकः, चतुर्थभङ्गस्तु प्रथम-द्वितीयभङ्गसंयोजनत इति न तत्र शब्दनयप्रतिपादकतेति तं परित्यज्य तृतीयादीनां भङ्गानां विशेषकत्वमिति विशेष कभङ्गनिर्धारकवचनोपपत्तिरिति । ननु ऋजुसूत्राभ्युपगत प्रथम भङ्ग प्रतिपाद्य सत्त्वविरुद्धासत्त्वप्रतिपादक द्वितीयभङ्गाभ्युपगन्तृत्वेन यथा शब्दस्य ऋजुसूत्राद् विशेषिततरत्वं तथोक्तंदिशा व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादिति पूर्वमुपदर्शितं दूषणं तदवस्थमेवेत्याशङ्क्य प्रतिक्षिपति न चैवमिति । 'पेक्षयाऽससाग्राहिणः ' इत्यकार प्रश्लेषः । ततः ऋजुसूत्रात् । निषेधे हेतुमाह- सम्प्रदायेति यदा प्रथमभन्न ऋजुसूत्रनयावलम्बनेन तदा द्वितीयभङ्गस्तदुतरशब्दनयावलम्बनेनैव भवितुमर्हतीति सम्प्रदायः तेन यस्यां सप्तभट्ट्यां प्रथमभङ्गः सङ्ग्रहनयावलम्बनेन तस्यामेव द्वितीयभङ्गो व्यवहारनयावलम्बनेन, न तु यस्यां सप्तभङ्गयां प्रथमभङ्ग ऋजुसूत्रनयावलम्बनेन, तस्यां द्वितीयभङ्गो व्यवहारनयावलम्बनेन, तथा च ऋजुसूत्रनयप्रवृत्त प्रथमभङ्गानन्तरं व्यवहारनयप्रवृत्तो द्वितीयभङ्गः सम्प्रदायविरुद्ध एव न तु सम्प्रदायाविषद्ध इति न तद्विषयीभूतेनार्थेन विशेषिततरत्वम् सम्प्रदायश्चेदृश एव न त्वन्यादृश इति तु तथादर्शनादेव निर्णीयत इत्याह- सम्प्रदायश्चेति । पये 'लिङ्गभेदादेवार्थभेदतः' इति स्थाने 'लिङ्गभेदादेवऽर्थभेदतः ' इति पाठो युक्तः, तमघलम्ब्य प्रकारान्तरमृजुसूत्राच्छब्दस्य विशेषिततरत्वे उपदर्शयति- वेति- अस्यार्थः अथवेति । ' लिङ्गमेदादेः' इत्यत्रादिपदाद् वचनभेद-कारक भेद-पुरुष भेदोपग्रहणभेदानां ग्रहणम् । ' अर्थभेदतः' इत्यस्य विवरणम् - अर्थभेदाश्रयणादिति, यदि वस्तुस्थित्या लिङ्गभेदादितोऽर्थभेदः स्यात् सर्वमतेऽविशेषेण स भवेत् एवं च सर्वाभ्युपगतेन तेन न कस्यचिदेव विशेषिततरत्वमतोऽर्थ भेदाश्रयणादिति व्याख्यातम् तथा च न वस्तुस्थित्य लिङ्गभेदादितोऽर्थभेदः समस्ति, एवमपि शब्दनयस्ततस्तमाश्रयतीत्यतस्तेन तस्य विशेषिततरत्वमित्याशयः । क्रमेण लिङ्गभेदादितोऽर्थभेदं सोदाहरणं भावयति तथाहीत्यादिना । अन्येति अन्यलिङ्गवृत्तेः शब्दस्यान्यलिंग भेदलक्षणेन वैधम्र्येणार्थभेदस्य स्पष्टमनुभवादित्यन्वयः, अन्यलिङ्गवृत्तेः शब्दस्य - ' तट: ' इत्यत्र पुंलिङ्गे वर्तमानस्य तटशब्दस्य, अन्यलिङ्गभेदलक्षणेन-स्वस्माद् भिन्नलिङ्गो यः 'तदम्' इत्यत्र तटशब्दस्तस्माद् यो भेदस्तद्रूपेण वैधम्र्म्येण, अर्थभेदस्य- 'तरम्' इति नपुंसकलिङगत शब्दार्थात् 'तटः' इति पुंलिङ्गतटशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभवादमुभूयमानत्वादित्यर्थः, 'गुरुः' इत्येकवचनान्तगुरुशब्दस्य 'गुरवः ' " इति बहुवचनान्तगुरुशब्दस्य यो वचनभेदस्तदात्मकन वैधम्र्येण 'गुरुः' इत्यं कवचनान्तगुरुशब्दार्थाद् 'गुरवः इति बहुवचनान्तगुरुशब्दार्थस्य यो भेदस्तस्य स्पष्टमनुभूयमानत्वादित्यर्थः इत्थं लिङ्गभेदाद् वचनभेदाचार्थमुपदर्थ कारक. भेदादर्थमेदं सोदाहरणमुपदर्शयति एवमिति । अस्य मते शब्दनयस्य मते । ' अधिकरणवद् ग्राम ' इत्यस्य स्थाने 'अधिकरणीभवग्राम' इति पाठो युक्तः । अधिकरणाभिधानविभक्तिवाच्य एव अधिकरणस्याभिधानं कथनं यत एतादृशी या सप्तम्याख्या विभक्तिस्तद्वाच्य एव तदभिधेय एवं तथा च ग्रामस्याधिकरणत्वविवक्षायां प्रामे अधिशेते ' इति प्रयोग एव युक्तः । पुरुष भेदादर्थ भेदमुपदर्शयति- तथा पुरुषभेदेऽपीति । 'एदि मन्ये' इत्यादेविस्तरतोऽर्थोपवर्णनं नयप्रदीपव्याख्याने कृतमस्माभिरिति विशेषजिज्ञासुभिरवलोकनीयं तत् । उपग्रहण मेदादर्थभेदमुपवर्णयति - एवमिति । अत्र ' उपग्रहणभेदोऽपि अस्य स्थाने 'उपग्रहण भेदादर्थभेदेऽपि ' इति पाठो युक्तः, उप धातोः समीपे ग्रहणमादानं यस्येति व्युत्पत्योपग्रहणमुपसर्ग एवेति । ननु 'तटः, तटी, तटम्' इत्यादौ ' गुरुः, गुस्व:' इत्यादौ तथा कारकादिभेदेऽप्यर्थाभेद एव लोक-शास्त्रयोः प्रसिद्धः शब्दनये वित्थमुपगमे तद्विरोधः स्यादित्याशङ्कां प्रतिक्षिपति - न चैवमिति ।
›