________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
ऋजुसूत्राद्विशेषिततरत्वं वक्तुं युक्तम्, एवं सति ऋजुसूत्राभिमतं सत्त्वमुपमृद्या सत्त्वग्रहणव्यापृतस्य व्यवहारस्यापि ततो विशेषिततरार्थत्वापत्तेः, विशेष्यकभङ्गा निर्धारकवचनापत्तेश्चेति; तत्रायमस्माकं मनीषोन्मेषः - पाश्रिता सप्तभङ्गी सङ्ग्रह - व्यवहारर्जुसूत्रैर्व्यञ्जनं पर्यायाश्रिता शब्द- समभिरूढैवम्भूतैः सम्मतौ सूचिता, तथाप्येतत् प्रकारद्वयाभिधान मर्थ- व्यञ्जनसाधारणं पर्यांयसामान्याश्रितसप्तभङ्गया अनुपलक्षणम्, सा च स्व-परपर्यायाणां क्रम-युगपद्विवक्षावशात् नयद्वयेन, शुद्ध-शुद्धतरपर्यायविवक्षया च नयत्रयेणापि सम्भवतीति ऋजुसूत्र - शब्दप्रयुक्तसप्तभङ्गयां द्वितीयादिना, व्यवहारर्जुसूत्रप्रयुक्तायां च तस्यां तृतीयादिना भङ्गेन ऋजुसूत्राच्छब्दस्य विशेषिततरार्थत्वमुक्तम, न चैवं ऋजुसूत्रस्वीकृतसत्त्वापेक्षया सत्तामाहिणो माशङ्कय प्रतिक्षिपति न चेति- अस्य ' युक्तम्' इत्यनेनान्त्रयः, ऋजुसूत्राभिमतं यत् सत्त्वं - लिङ्गवचनादिभेदेऽप्यभिन्नस्य क्षणमात्रस्थायिनोऽर्थक्रियाकारित्वलक्षणं सत्त्वं प्रथमभङ्गप्रतिपाद्यम्, तद् उपमृद्य - लिङ्ग-वचनादिभेदे भेदोऽवश्यमेव भवति ततो न तस्य सत्त्वमित्येवं प्रतिक्षिप्य तथाभूतस्य यदयत्वं तत्प्रतिपादकभङ्गोऽपि वाच्य वाचकयोरभेदाभ्युपगमतस्तदाख्यः; एवम्भूतो यो द्वितीयभङ्गस्तदुपस्थापनात्, शब्दस्य - शब्दनयस्य, ऋजुसूत्राद्-ऋजुसूत्रनयाद् विशेषिततरत्वं वक्तुम्-अभिधातुं न च युक्तमित्यर्थः । निषेधे हेतुमाह एवं सतीति उक्तदिशा ऋजुपुत्राच्छन्दस्य विशेषिततरत्वाभ्युपगमे सतीत्यर्थः । यद्यपि स्वरूपसत्वं व्यवहारोऽप्यभ्युपगच्छति तथापि यादृशं सत्त्वमृजुसूत्रोऽभ्युपगच्छति न तादृशं सत्त्वं व्यवहारः स्वीकरोतीति तादृशसत्त्वं प्रतिक्षिप्य तादृशसत्त्वाभावलक्षणमसत्त्वं गृह्णात्येव व्यवहारस्तदालम्बनेन स्वान्नास्तीति द्वितीयभङ्गः प्रवर्तयितुं शक्नोत्येव स इति । तेन द्वितीयभङ्गेन व्यवहारस्यापि ऋजुसूत्राद् विशेषिततरत्वं स्यादित्याह - ऋजु सूत्राभिमतमिति । ततः ऋजुसूत्रात्। एवं च मङ्गमात्रस्यैव तत्तन्नयविषयप्रतिपादकतया स्वमूलीभूनन पनिनयप्रवर्तितभङ्गार्थप्रतिपक्षार्थावेदकत्वेन स्वमूलीभूतनयार्थविशेषकत्वतोऽयमेव भङ्गो विशेषक इति निर्धारणमपि न भवेदित्याह - विशेष्यकेति - 'विशेष्यकभङ्गानिर्धारकवचनापत्तेश्च' इत्यस्य स्थाने 'विशेष कभङ्गनिर्धारकवचनानुपत्ते च ' इति पाठो युक्तः ।
૨૦૧
इत्थं स्थूलविचारतोऽनुपपद्यमानतामर्पणविषयत्वेनाभिमताया: सप्तमङ्गथा उपदर्शयेदानीं स्वाकूतोपदर्शकं सूक्ष्मविचारं तत्र ग्रन्थकृदुद्भावयति - तत्रेति । अयं ' यद्यपि ' इत्यादिनाऽनन्तरमेव वक्ष्यमाणः । यद्यपीति- सङ्ग्रह - व्यवहारर्जुसूत्रे रर्थ .. पर्यायाश्रिता सप्तभङ्गी सम्मतौ सूचितेत्यन्वयः । व्यञ्जनेति-शब्द- समभिरूढैवम्भूतैर्व्यञ्जनपर्यायाश्रिता सप्तभङ्गी सम्मतौ सूचितेत्यन्वयः । एतत् प्रकारद्वयाभिधानम् अर्थयात्रित सप्तभङ्गीव्यञ्जनपर्यायाश्रित सप्तभङ्गीद्वयाभिधानं सम्मतिगतम् । अथैति - ' अर्थ- व्यञ्जनसाधारणं पर्याय सामान्याश्रितसप्तभङ्गया अनुपलक्षणम्' इत्यस्य स्थाने * अर्थ-व्यञ्जनसाधारणपर्यायसामान्याश्रितसप्तभङ्गया अप्युपलक्षणम्' इति पाठो युक्तः, तथा च सप्तभङ्गया त्रिधा विभाग एवमायाति- अर्थपर्यायात्रिता व्यञ्जनपर्यायाश्रिता पर्यायसामान्याश्रिता च सप्तभङ्गीति । तत्र पर्यायसामान्याश्रिता या सप्तभङ्गी तद्बटको भङ्गः कश्चिदर्थनयविषयीभूतार्थप्रतिपादकः कश्चित् तु शब्दनयविषयीभूतार्थप्रतिपादकोऽपि तत्र यः शब्दनयविषयीभूतार्थप्रतिपादको भङ्गो द्वितीयादिस्तृतीयादिर्वा तेन भङ्गेन शब्दनयस्यर्जुसूत्रनयाद् विशेषिततरार्थत्वम् तावता विशेषकभङ्गावधारणवचनमपि सम्भवतीत्याह- सा चेति- पर्यायसामान्याश्रिता सप्तभङ्गी चेत्यर्थः अस्य 'सम्भवति इत्यनेनान्वयः, ' नयद्वयेन ' इत्यस्यापि सम्भवति इत्यनेनान्वयः । नयद्वयप्रयुक्तसप्तभायां द्वितीयादिना भङ्गेन नयत्रयप्रयुक्तसप्तभङ्गयां तृतीयादिना भन ऋजुसूत्राच्छन्दनयस्य विशेषिततरार्थत्वमित्युपदर्शयति- ऋजुसूत्रेति - ऋजुसूत्रोऽर्थनयः शब्दश्च शब्दन यस्तदुभयप्रयुक्त सप्तभक्तचामित्यर्थः । द्वितीयादिना' इत्यस्य ' भङ्गेन' इत्यनेनान्वयः । 'व्यवहारर्जुसूत्रप्रयुक्तायां च' इत्यस्य स्थाने 'व्यवहारर्जुसूत्र - शब्दप्रयुक्तायां च' इति पाठो युक्तः, व्यवहारर्जुसूत्रार्थयौ शब्दश्व शब्दनयः, एतत्रितयप्रयुक्तायां चेत्यर्थः । तस्यां सप्तभक्तायाम् | 'द्वितीयादिना' इत्यत्रादिपदात् तृतीयादीनामुपग्रहः । ' तृतीयादिना' इत्यादिपदात् पञ्चमादीनामुपग्रहः, ऋजुसूत्र - शब्दप्रयुक्त भङ्गयां स्यादस्तीति प्रथमभङ्ग ऋजुसूत्र विषयप्रतिपादकः स्यान्नास्तीति द्वितीयभङ्गः शब्दनयविषयप्रतिपादकः स्यादवक्तव्य इति तृतीयादयो भङ्गा नयद्वयविषयप्रतिपादका इति द्वितीयादिषु सर्वेषु भूतेषु शब्दनयविषवसद्भावाद विशेषकत्वं युक्तम्, व्यवहारर्जुमूत्रशब्दप्रयुक्तसप्तभङ्गयां प्रथमभङ्गो व्यवहारनयविषयप्रतिपादकः, द्वितीयो भऋजुसूत्र नयविषयप्रतिपादकः, तृतीयो भृङ्गः शब्दनय
4