________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिया समलतो नयोपदेशः ।
१७७
इह " कुम्भाकुम्भ० " इत्यादिगाथापश्चार्द्धन षट् भङ्गाः साक्षादुपात्ताः, सप्तमस्तु आदिशब्दात्, तद्यथा-कुम्भः १, अकुम्भः २, अवक्तव्यः ३, उभयत्ति- संश्चाऽसंश्च ' इत्युभयम् ४, ' समवक्तव्यः' इत्युभयम् ५, तथा 'असन्मवक्तव्यः' इत्युभयम् ६, आदिशब्दसगृहीतस्तु सप्तमः ‘सनसनवक्तव्यः' इति ; अत्रोभयपदस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तावपि समभिव्याहारत्रै. विध्याद् आवृत्या त्रिविधोभयबोध इति न्यायमार्गः, सामान्यशकावप्युभयपदादे कदैव समभिव्याहारमहिम्ना त्रिविधविशेषप्रकारको बोध इत्यनुभवमार्गः, " तदेवं स्याद्वाददृष्टसप्तभेदं घटादिकमर्थं यथावचनाद् वाक्यस्वाभाव्यादेव स्यात्पद मेवकारश्च भङ्गमात्रे समनुगच्छतः, तथा च स्यादयं कुम्भ एव इति प्रथमो भङ्गः, स्यादयमकुम्भ एवेति द्वितीयो भङ्गः, इत्येवं दिशा सप्त भगा अत्र ज्ञेयाः । चतुर्थ पञ्चम- षष्ठभङ्गा उभयधर्मसम्मेलन.. समुद्भवा इति 'कुम्भा कुम्भा ऽवत्तन्वोभयरूवाइ' इत्यत्रोभयपदतः प्रकटिता भवन्तीत्याह- उभयतीति - सामान्यतः सप्तमजी 'स्यादस्ति, स्यान्नास्ति' इत्येवं दिशैव प्रवर्तते तदनुसन्धानेन 'सँचाऽसँश्च' इत्यभयमित्याधुक्त्या चतुर्थादिभङ्गानेडनम् , प्रकृताभिप्रायेण तु 'कुम्भश्चाकुम्भश्च' इत्युभयम्, 'कुम्भोऽवक्तव्यः' इत्युभयम् , तथा 'अकुम्भोऽवकव्यः' इत्युभयमित्येवमुल्ले खो बोध्या, सप्तमभोलेखस्तु 'सनसन्नवक्तव्यः' इत्यस्य स्थाने 'कुम्भोऽकुम्भोऽवक्तव्यः' इत्येवं ज्ञेयः । ननु 'कुम्भा-ऽकुम्भा.ऽवत्तचोभयरूवाइ' इत्यत्रैकस्यैवोभयपदस्य भूयमाणत्वेन तस्य समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये शक्तत्वेन ततः कुम्भत्वा-कुम्भवोभयप्रकारकबोधस्य चतुर्थभङ्गजन्यतयाऽभिप्रेतस्य कुम्भत्वा-वक्तव्यत्वोभयप्रकारकबोधस्य पञ्चमभङ्गजन्यतयाऽभिप्रेतस्याकुम्भत्वा-वक्तव्यत्वोभ य प्रकारकबोधस्य वा षष्ठभङ्गजन्यतयाऽभिप्रेतस्यकस्यैवोत्पादः स्यादेकस्य समभिव्याहारस्य कविधबोधजनन एव सामादित्यत आह- अत्रोभयपदस्येति । सनभिव्याहारत्रैविध्शादिति - कुम्भा ऽकुम्भोभयेति कुम्भा- वक्तव्योभयेति अकुम्भाऽवतव्योभवेत्येवं समभिन्याहार. वैविध्यादित्यर्थः। ननु सकृदुचरितः शब्दः सकृदेवार्थ गम यतोति नियमादुभयपदस्थ अदुचरितस्य कुम्भाकुम्भोभयादिसमभिव्याहारेवेक एव कश्चित् समभिव्याहारो न तु समभिव्याहारत्रैविध्यमिति कथं त्रिविधोभयबोध इत्यत आहमावृत्येति- उभयपदस्य त्रिवारमुच्चारणं क्रियत इत्युच्चारणभेदादुभयपदानि त्रीणि संवृत्तानीति समभिव्याहारत्रैविध्यात् त्रिविधोभयबोधो न्यायमार्गपरिनिष्ठित इत्यर्थः । उभयपदस्य सामान्यत उभयत्वावच्छिन्न एवं शक्तिः, न तु समभिव्याहृतपदार्थतावच्छेदकद्वयप्रकारकबुद्धिविषये एवमपि समभिव्याहारमहिम्ना सामान्यशक्कादप्युभयपदात् कुम्माकुम्भोभयत्वप्रकारकस्य कुम्भा वक्तव्यत्वोभयत्वप्रकारकस्याकुम्भा-ऽवक्तव्यत्वोभयत्वप्रकारकस्य चैकदैव बोधस्यानुभवबलादभ्युपगमविषयत्वमित्याह-सामान्यशक्तावपीति । सप्तभङ्गयर्पणाद् विशेषिततरत्वं शब्दन यस्थ ऋजुसूत्राद् यत् प्रक्रान्तं तभिगमनपरां विशेषावश्यकोक्ति प्रश्नाति-- तदेवमिति। तत् तस्मात् । एवं ' स्यात् कुम्भः, स्यादकुम्भः' इत्येवं प्रकारेण । स्याद्वाददृष्टसप्तभेदम् अनन्तधर्मात्मकवस्वभ्युपगमपरस्याद्वादप्रमाणराजाकलितकुम्भत्वा-ऽकुम्भस्वादिसप्तविध. धर्मविशिष्टम् । यथाविवक्षितं स्वपर्यायापेक्षया कुम्भत्वेन विवक्षितं परपर्या यापेक्षयाऽकुम्भत्वेन विवक्षितमित्येवं विवक्षामनतिक्रम्य तत्तद्धर्माकलितम्। एकेन केनापि भक्तकेन यदा सत्त्वधर्मावलम्बनेन ऋजुसूत्रः स्यादस्तीति भङ्गेन घट प्रतिपादयति तदाऽसत्त्वधर्मावलम्बनेन शब्दनयः स्यान्नास्तीति द्वितीयम नासत्त्वधर्मवत्सया विशेषिततरं घटं प्रतिपद्यते इत्यर्थः। ननु स्याद्वाददृष्टसप्तधर्मवत्तयैव घट किमिति न प्रतिपद्यते शब्दन यः? एवमपि ऋजुसूत्रात् स्लपर्यायापित कुम्भत्वैकधर्मालिशितघटाभ्युपगमप्रवणाद् विशेषिततरत्वं शब्दन यस्य स्यात् , एवं सति सप्तमचर्पणादिति हेतुरपि विशे. षिततरत्रे सम्यगुपपद्यते, एकमङ्गेन विशेषिततरत्वे तु सप्तमङ्गयैकदेशकभनार्पणस्व सप्तभनयमत्वेन विवक्षायामुपचारेण तदुपपादनं स्पादित्यत आह-नयत्वादिति - यदि स्याद्वाददृष्ट सप्तभेदमेत्र घटादिकं सम्पूर्ण या सप्तभाया प्रतिपादनतों विशेषिततरं घटमसौ शब्दन यः स्वोकुर्यात् तदा प्रतिधर्म सप्तधर्मप्रतिपादकमसावशेषधर्माकलितवस्तुविषयकं प्रमाणमेव मवेत्र तु वस्त्वंशग्राहकनयरूपः स्यादतो नयत्वान्यथानुपपत्त्य केनैव केनापि भनेन विशेषिततरं घटादिकं शब्दनयः प्रतिपद्यत इत्यर्थः । यद्भक्षविषयीभूतधर्मवतया घटादिकमसावभ्युपगच्छति तद्धर्माविशेषितमेव घटादिकमृजुसूत्रोऽभिमन्यत इत्येतावताऽस्यर्जुसूत्राद् विशेषिततरवस्तुमाहित्वेन ततो विशेषिततरत्वमप्युपपद्यत एव, मनसप्तकंप्रवृत्तौ सत्यामेव यद्ध