________________
-
A
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। भिमानात् , अयं हि पृथुबुध्नाद्याकारकलितं मृन्मयं जलाहरणा दिक्रियाक्षम प्रसिद्ध भावघटमेवेच्छति, शब्दार्थप्रधानत्वात् , ' घट चेष्टायाम् 'इति शब्दार्थस्य भावघट एव योगात्, न तु नाम-स्थापना-द्रव्यरूपाः(पं) त्रयः(य), तत्रोक्तार्थ(ों)योगात्, तथा चैतत् संवाद्याह भाष्यकार:" णामादयो ण कुम्भा तक्कजाकरणओ पडाइ छ । पञ्चक्खविरोहाओ तल्लिंगाभावओ वा वि" ॥
[विशेषावश्यकभाष्यगाथा-२२२९ ] नाम-स्थापना-द्रव्यघटा घटत्वेन न व्यवहर्तव्याः, घटार्थक्रियाकारित्वाभावात् , अघटत्वेन प्रतीयमानत्वात् , घटव्यवस्थापकधाभावाचेत्येतदर्थः । यद्वा सप्तभङ्गयर्पणाद् अस्य विशेषः, ऋजुसूत्रस्य हि प्रत्युत्पन्नोऽविशेषित एव कुम्भोऽभिप्रेतः, शब्दमयस्य तु ( स एव सद्भावादिभिर्विशेषिततरोऽभिमत इत्येवमनयोर्मेदः, तथाहि-स्वपर्यायैः पर( विशेषावश्यकवृत्तितः )पर्यायैरुभयैर्वाऽर्पितोऽयं कुम्भाकुम्भा. ऽवक्तव्योभयरूपादिभेदेन सप्तभङ्गी प्रतिपद्यते इति, यद् भाष्यम् -- " अहवा पच्चुप्पण्णो उज्जुसुत्तस्साविसेसिओ चेव । कुम्भो विसेसिययरो सम्भावाईहिं सहस्स ।। सब्भावा-ऽसम्भावोभयप्पिओ सपर-पजओभयओ। कुम्भा-ऽकुम्भा ऽवत्तबोभयरूवाइभेओ सो"।
[विशेषावश्यकभाष्यगाथे-२२३१, २२३२ ]
" नामादयो न कुम्भास्तत्कार्याकरणतः पटादिवत् । प्रत्यक्षविरोधात् तल्लिङ्गाभावतो वाऽपि ॥” इति संस्कृतम् , अत्र तल्लिसाभावत इत्यस्य घटत्वसाधकलिङ्गाभावत इत्यर्थः । उक्तभाष्यव वनाभिप्रेतमर्थमुपदर्शयति-नामेति- 'नाम-स्थापना-द्रव्यघटाः' इति पक्षनिर्देशः, 'घटत्वेन न व्यवहलेव्याः' इति साध्यनिर्देशः, 'घटाथेक्रियाकारित्वाभावाद्' इत्यको हेतुः, “अघटत्वेन प्रतीयमानत्वाद्' इति द्वितीयः, 'घटव्यवस्थापकर्माभावाद्' इति तृतीयः, प्रथमे यद् यदर्थक्रियाकारि न भवति न तत तद्रूपेण व्यवहर्तव्यमिति, यद् यद् विरुद्धधर्मेण प्रतीयते न तत् तद्रण व्यवहृर्तव्यमिति, यद् यद् व्यवस्थापकधर्मरहितं न तत् तद्रूपेण व्यवहर्तव्यमिति च सामान्यतो व्याप्तिरत्र ज्ञेया । प्रकारान्तरेणोत्तराझैपदर्शितमृजुसूत्राच्छन्दनयस्य विशेषमुपदर्श. यितुमुत्तरार्द्ध व्याख्यानयति - यद्वेति - 'अस्य विशेषः' इति पूर्वार्दोकोऽत्रानुकृष्टः। शब्दनथे ऋजुसूत्रतः सप्तभङ्ग थर्पणप्रयुक्तविशेषमेव प्रपञ्चयन्नाह-ऋजुसूत्रस्य हीति । प्रत्युत्पन्नः वर्तमानकक्षणमात्रस्थायी । अविशेषित एव सद्भावा.ऽ सद्भावा ऽवक्तव्यत्वादिधर्मेरविशेषित एव । स एव प्रत्युत्पन्न: कुम्भ एव । 'सद्भावादिभिः' इत्यत्रादि दादसद्भावादीनां ग्रहणम् । अनयोः ऋजुसूत्र-शब्दनययोः, शब्दनये यथा सप्तभङ्गी प्रवर्तते तथोपदर्शयति-तथाहीति-स्वपर्यायैरर्पितोऽयं कुम्भः कुम्भो भवति, परपर्यायरर्पितोऽयं कुम्भोऽकुम्भो भवति, युगपदर्पितस्व-परपर्यायाभ्यामयमवक्तव्यो भवति, क्रमाप्तिस्वपरपर्यायाभ्यामयं कुम्भोऽकुम्भश्च भवति, अर्पितवपर्याय युगपदर्पितस्वपरपर्यायोभयतोऽयं कुम्भोऽवक्तव्यश्च भवति, अर्पितपरपाय-युगपदर्पितस्वपरपर्यायोभयतोऽयमकुम्भोऽवकरच भवति, क्रमार्पितवपरपर्याय-युगपदर्पितस्वपरपर्यायोभय. तोऽयं कुम्भोऽकुम्भोऽवक्तव्यश्च भवति, एवं च सप्तविधधर्माकलनात् तदुपदर्शिका सप्तभती प्रवर्तते, तां च स्वप्रतिपादकत्वसम्बन्धेन कुम्भः प्रतिपद्यत इत्यर्थः । उक्तार्थ भाष्य संवादमाह-- यद भाष्यमिति अहवा० इति- 'अथवा प्रत्युत्पन्नः ऋजुसूत्रस्याविशेषित एव । कुम्भो विशेषिततरः सद्भावादिभिः शब्दस्य ॥ सद्भावा- ऽसद्भावोभयार्पितः स्वपर. पर्यायोभयतः। कुम्भा.ऽकुम्भा- ऽवक्तव्योभयरूपादिभेदः सः" ॥ इति संस्कृतम् । द्वितीयगाथोत्तरार्द्धन यथा सप्तभनी समादिष्टा भवति तथोपदर्शयति- इहेति। द्वितीयगाथोत्तरार्द्ध षष्णां भङ्गानां साक्षादुपात्तत्वं सप्तमभङ्गस्यादिपदलभ्यत्वं च भावयति-तद्यथेति- यद्यपि 'कुम्भः, अकुम्भः' इत्येकैकमेव पदमुपात्तं तथापि नैकपदतोऽन्वयबोध इति 'अयम्' इति धर्मिवाचक्रपदं प्रतिभई ज्ञेयम् , यतो विशेषिततरत्वं कुम्भस्यैव शब्दनयाभिप्रेतम् , तस्य स्विदं शब्देनैव सर्वभङ्गेधूपक्षेपः, "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥
इति