________________
नयामृतसरङ्गिणी-तरङ्गिणीतरणिभ्यां समलकतो नयोपदेशः ।
__" उप्पजमाणकालं उप्पन्नं ति विगयं विगच्छंतं । दवियं पण्णवयंतो तिकालविसयं विसेसेइ" ॥
[सम्मतितृतीयकाण्डे गाथा-३७ ] ॥ ३२ ॥ शब्दन लक्षयति---
विशेषिततरः शब्दः प्रत्युत्पन्नाश्रयो नयः ।
तरप्रत्ययनिर्देशाद् विशेषिततमेऽगतिः ॥ ३३ ॥ नयामृत-विशेषिततर इति । विशेषिततरः प्रत्युत्पन्नाश्रय अजुसूत्राभिमतग्राही नयः शब्द इत्याख्यायते, यत् सूत्रम्-" इच्छइ विसेसियतरं पच्चुप्पण्णं णओ सदो" [विशेषावश्यकनियुक्तिगाथा-२१८४ ]त्ति, तत्र तरप्रत्ययनिर्देशाद् विशेषिततमाधोवर्ति विषयत्वलाभाद् विशेषिततमे समभिरूदे एवंभूते चाऽगतिः-नातिव्याप्तिः ॥ ३३ ॥ ऋजुसूत्राद् विशेषमस्य स्पष्टयति--
ऋजुसूत्राद् विशेषोऽस्य भावमात्राभिमानतः।
सप्तभङ्गधर्पणाल्लिङ्गभेदादेवार्थभेदतः ॥ ३४ ॥ नयामृत-ऋजुसूत्रादिति-अस्य-शब्दनयस्य ऋजुसूत्राद्, विशेष:-उत्कर्षः, भावमात्रस्यायति- सर्वैरेभिरिति । उक्तॉर्थ सम्मतिसंवादमुपदर्शयति- तदिदमाहेति । उपज० इति- " उत्पद्यमान कालमुत्पन्न मिति विगतं विगच्छत् । द्रव्यं प्रज्ञापयस्त्रिकालविषय विशेषयति" ।। इति संस्कृतम् ॥ ३२ ॥ इति ऋजुसूत्रनयनिरूपणम् ।। ____ अथ शब्दनयनिरूपणम् । त्रयस्त्रिंशत्तमपद्यमवतारयति- शब्दनयमिति । विवृणोति - विशेषिततर इतीति । प्रत्युत्पन्नाश्रय इति मूलम् , तद्विवरणमर्थगत्या- ऋजुसूत्राभिमतग्राहीति- प्रत्युत्पन्न - वर्तमानकक्षणवृत्ति वस्तु ऋजु. सूत्राभिमतं तदाश्रयितुं प्रहीतुं स्वभावो यस्य स तदात्रयस्तद्राहीति, अमुमर्थमुपादायोक्तव्याख्यानम्। 'इत्याख्यायते' इति पूरणम्, एवंविधो नयः शब्द इति नाम्ना गीयत इत्यर्थः । निरुक्तशब्दनयलक्षणे सूत्रसम्मतिमुपदर्शयति- यत् सूत्रमिति । इच्छा इति- “इच्छति विशेषिततरं प्रत्युत्पन्नं नयः शब्दः” इति संस्कृतम् । विशेषिततर' इत्यत्र सरप्रत्ययोपादानप्रयोजनीभूतविशेषिततमसमभिरूढैवम्भूतातिव्याप्तिवारणप्रदर्शनपरमुत्तराई सङ्गमयति- तत्रेति- उक्तलक्षणे इत्यर्थः । यः खलु विशेषिततमविषयको न भवति स एव विशेषिततरविषयकः, विशेषित-विशेषिततर-विशेषिततम् इत्येवं क्रमेणैव विशेषितादीनां निर्देशो भवति, ततस्तरप्रत्ययस्तमप्प्रत्ययादपकृष्टार्थप्रत्यायकत्वादधोवती,तत उत्कृष्ठार्थप्रतिपादकत्वात् तमा प्रत्यय ऊर्ववर्तीति वस्तुस्थितायुक्तलक्षणे तर प्रत्ययनिर्देशतोऽधोवर्तिविषयत्वस्य लाभेन तस्य विशेषिततमविषयकत्वाद् विशेषिततमयोः समभिरूद्वैवम्भूतयोरभावेन न तयोरुक्तलक्षणस्यातिव्याप्तिरित्याह- तरप्रत्ययनिर्देशादिति । अलक्ष्ये लक्षणगतिरतिव्याप्तिः, तदभावे नातिव्याप्तिरित्यनुसन्धाय 'अगतिः' इत्यस्य व्याख्यानम्- 'नातिव्याप्तिः' इति ॥ ३३ ॥
चतुस्त्रिंशत्तमपद्यमवतारयति-ऋजुसूत्रादिति। अस्य शब्दनयस्य। विवृणोति-ऋजुसूत्रादितीति । भावमात्रा. मिमानित्वमेव शब्दनयस्य स्पष्टयति- अयं हीति हि यतः, अयं शब्दनयः, 'इच्छति' इत्यनेनान्वयः । भाव. घटमात्राभ्युपगन्तृत्वे हेतुमाह- शब्देति- शब्दन यस्य शब्दार्थप्राधान्येऽपि कथं भावघटमात्राभ्युपगन्तृत्वमित्यपेक्षायामाह'घट चेष्टायाम्' इतीति । शब्दार्थस्य घटरूपशब्दार्थस्य चेष्टालक्षणस्य, चेष्टा चात्र जलाहरणादिक्रियारूपैव । भावघट एव पृथुबुध्नाद्याकारकलितमृन्मयपात्रविशेष एव । न त्विति - नाम- स्थापना-द्रव्यरूपं त्रयं न तु-नैव, 'इच्छति' इत्यस्यानुकर्षण सम्बन्धः । तत्र हेतुमाह-तत्रेति- नाम स्थापना-द्रव्येश्वित्यर्थः। उकाति-जलाहरणादिक्रियारूपघटशब्दार्थेत्यर्थः । उक्तार्थे भाष्यसंवादमाह- तथा चेति-- शब्दनयस्य शब्दार्थप्रधानत्वेन नामादिषु त्रिषु शब्दार्था घटनाच्छन्दनयाविषयत्वव्यवस्थितौ चैत्यर्थः। एतत्संवादि "ऋजुसूत्राद् विशेषोऽस्य” इति पद्यसंवादि। णामादयो. इति