________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः !
दित एव प्रबन्धेनोत्पद्यमानं तद्रूपतयोत्पन्नमभिप्रेतरूपतया चोत्पत्स्यते, एवमुत्पन्नमप्युत्पद्यमानमुत्पत्स्यमानं च तथोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नं च इत्येकैकं त्रैकाल्यं प्रतिपद्यते, एवं विगच्छदादिकाल येणायुत्पद्यमानादिरे कैकखैकाल्यं प्रतिपद्यते, यदैवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यवेत्यादिरीत्या, ( एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः ( सम्मतिवृत्तितः, ) एवं स्थित्याऽपि त्रिकाल एव सप्रपञ्चकम्, एवं स्थितिरप्युत्पाद- विनाशाभ्यां सप्रपञ्चाभ्यां त्रिकालस्पर्शिनी प्रदर्शनीयेति सर्वैरेभिः धर्मैः त्रिकालस्पर्शिभिरविनाभूतं द्रव्यं प्रतिपादयद् वाक्यं प्रमाणमेवेति, तदिदमाह सम्मतिकार:
१७४
स्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम् इत्येवं त्रिकालोत्पत्तियोगेन विगमवतो नव भेदाः विगच्छतः स्थीयमान स्थास्यमान- स्थितस्वरूपेण त्रिप्रकारत्वम्, विगमिष्यतः स्थीयमान स्थास्यमान- स्थितस्वरूपेण त्रिप्रकारत्वम्, विगतस्य स्थीयमान स्थास्यमान- स्थित स्वरूपेण त्रिप्रकारत्वम् इत्येवं त्रिकालस्पर्शिस्थितियोगेन विगमवतो नव भेदाः; ते च विगमकृतप्रकारा मिलिताः सप्तविंशतिभेदाः; उपदर्शिताश्चोत्पत्ति-स्थिति-विगमप्रकारा एकत्र मिलिता एकाशीतिसङ्ख्यका भवन्ति, तद्युक्तं च द्रव्यं प्रमाणविषयः, तदर्थकं च " कज्जमाणे कडे " इति भगवद्वचनमित्येतद्भावयति तथाद्वीति । तेन रूपेण एकतन्त्वाद्यात्मकपटत्वेन रूपेण । उत्तरत्रापि द्वितीयादितन्तुप्रवेशसमयेऽपि । 'नोत्पन्नम् ' ' अनुत्पन्नम् ' इत्युभयत्र ' तेन रूपेण ' इत्यस्यानुकर्षेण सम्बन्धः, तत्र ' तेन रूपेण ' इत्यस्य द्वितन्त्वाद्यात्मकपटरूपेणेत्यर्थः । अन्तेऽपि चरमतन्तुप्रवेशसमयेऽपि । उत्पन्नांशेनैवेति-- आयतन्तुप्रवेशसमये यद्रूपेणोत्पन्नं तद्रूपेणैव द्वितीयादितन्तुप्रवेशसमयमारभ्य चरमतन्तुप्रवेशपर्यन्तमुत्पत्तौ स्त्रीक्रियमाणायां फलान्तरस्य प्रथमतन्तुप्रवेशसमयोत्पन्नकार्यरूपफलव्यतिरिक्तफलस्याभावप्रसङ्ग इत्यर्थः । आदित एव प्रथमतन्तुप्रवेश समयादारभ्यैव । प्रबन्धेन क्रमिकपूर्वापरपर्याय खरूपप्रवाहात्मना । उत्पद्यमानं घटादि द्रव्यमिति दृश्यम् । तद्रूपतयोत्पन्नं यत्प्रबन्धेनोत्पद्यमानं पटादि द्रव्यं तद् यद्यदेकतन्त्वात्मत्व- द्वितन्त्वात्मत्वादिरूपं निष्पन्नं तत्तद्रूपतयोत्पन्नम् । अभिप्रेतरूपतया चोत्पत्स्यते प्रबन्धेनोत्पद्यमानमेव पदादि द्रव्यमभिप्रेतं यत्सहस्रतन्त्वायात्मकपटादि स्वरूपं तद्रूपेणोत्पत्स्यत इत्यर्थः । एवमिति यथोत्पद्यमानमुत्पन्नमुत्पत्स्यमानमिति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । तथेति - यथोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेति कृत्वा त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । एवमिति यथा त्रिकालोत्पत्तियोगेन त्रैकाल्यं प्रतिपद्यते तथेत्यर्थः । 'विगच्छदादि' इत्यादिपदाद् विगत- विगमिष्यतोरुपग्रहः । विगच्छदादिकालत्रयेणोत्पद्यमानादित्रिकं यथा त्रैकाल्यं प्रतिपद्यते तथोपदर्शयति- यदेवोत्पद्यमानमिति । ' इत्यादिरीत्या' इत्यत्रादिपदाद् यदैवोत्पन्नं तदेव विगतं विगच्छत् विगमिष्यच यदैवोत्पद्यमानं तदैव विगतं विगच्छद् विगमिष्यच्च' इत्यनयोरुपग्रहः । ' इत्यादिरीत्या' इत्यनन्तरम् - " एवं स्थीयमानादिकालत्रयेणाप्युत्पद्यमानादिरे केक स्त्रैकाल्यं प्रतिपद्यते यदेवोत्पद्यमानं तदैव स्थितं स्थीयमानं स्थास्यमानं चेत्यादिरीत्या " इति पाठो युज्यते, अस्य भावना पूर्ववत् । यथा च त्रिकालस्पर्शिन उत्पत्तिमत उक्तदिशा त्रिकालस्पर्शिविंगमयोगेन त्रिकालस्पास्थितियोगेन च सप्तविंशतिविधत्वं तथा विगमवतोऽपीत्याह एवं विगमोऽपीति । त्रिकालः विगच्छद्-विगमिष्यविगतरूपः प्रत्येकं विगतादित्रिकरूपतापन्नः । उत्पादादिना अत्र " उत्पन्नादिना " इति पाठो युक्तः, तस्योत्पन्नादिकालत्रयेणेत्यर्थः । दर्शनीय इति यदैव विगच्छत् तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या दर्शनीय इत्यर्थः । समपञ्चकम्' इत्यनन्तरं ' दर्शनीयः' इत्यनुषज्यते । स्थित्थापीत्यस्य त्रिकालस्पर्शिन्या स्थिस्यापीत्यर्थः, तथा च विगत विगच्छद् विगमिष्यद्रूपस्य विगमयोगिनः स्थित्या त्रिकालस्पर्शिन्या प्रदर्शनम्, यदैव विगतं तदैव स्थितं स्थीयमानं स्थास्यमानं च यदैव विगच्छत् तदेव स्थितं स्थीयमानं स्थास्यमानं च यदैव विगमिष्यत् तदैव स्थितं स्थीयमानं स्थास्यमानं चेति रीत्येत्यर्थः । यथा चोतदिशा विगमवतः सप्तविंशतिविधत्वं तथा स्थितिमतोऽपीत्याहएवं स्थितिरपीति- त्रिकालस्पर्शिनी स्थितिरपि सप्रपञ्चाभ्यामुत्लाद - विनाशाभ्यां प्रदर्शनीयेत्यन्वयः तथा च स्थितस्थीयमान स्थास्यमानत्रिकं प्रत्येकं स्थितादित्रिकरूपतापन्नमुत्पन्नादि कालत्रयेण विगतादिकालत्रयेण व त्रैकाल्यं प्रतिपद्यते, यथा यदेव स्थास्यमानं तदैवोत्पन्नमुत्पद्यमानमुत्पत्स्यमानं चेत्यादिरीत्या यदेव स्थास्यमानं तदैव विगतं विगच्छद् विंगमिष्यचेत्यादिरीत्या च एकाशीतिभेदमाग्भिरुत्वादादित्रिक रविनाभूतस्य द्रव्यस्य प्रतिपादकत्वाद् वाक्यस्य प्रामाण्यमित्युपदर्श
6