________________
नयामृततरङ्गिणी - तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
व्यापारात् क्रियाकाल निष्ठाकालयोर्भेद एव व्यवहारनयसम्मत आपतति, तथापि " 'भूतियैषां क्रिया ] इत्याश्रयणादुत्पत्तिरूप क्रियायास्तन्निष्ठायाश्च यौगपद्यमविरुद्धमिति । " कज्जमाणे कडे " [ ]ति भगवद्वचनं तूत्पा दादीना मे कधर्मिसंसर्गितया त्रैकाल्यविषयत्वेन प्रमाणार्थकतया व्याख्येयम्, तथाहि - आद्यतन्तुप्रवेश क्रियासमये पटद्रव्यं यदि तेन रूपेण नोत्पन्नं तर्छु'त्तरत्रापि नोत्पन्नमित्यन्ता( न्तेऽप्य ) नुत्पन्नं स्यात्, उत्पन्नांशेनैव चोत्पत्तौ फलान्तराभावप्रसङ्गः, इत्या
"3
सैव ० [
१७३
"
'भूतिर्येषाम् " इति पाठो युक्तः, अत्र “ करणं सैव चोच्यते " इति द्वितीयचरणम् एषां घटपटादिकार्यक्षणानां या भूतिर्भवनमुत्पत्तिरिति यावत् सैव क्रिया, करणमप्येषां सैव उत्पत्तिरेवेत्यर्थः । इत्याश्रयणात् इति वचनाभिप्रेतार्थाभ्युपगन्तृतस्य क्रियाकाल-निष्ठाकालयोरैक्य संसिद्धये आश्रयणात् । तन्निष्ठायाः उत्पत्तिक्रिया सिद्धत्वस्य । सर्वेषां घटादीनां क्षणमात्र स्थायित्वेन पूर्वपूर्व कार्यस्योत्तरोत्तर कार्यदित्यन्तभिन्नत्वेन विनाशस्य तुच्छरूपतयाऽतिरिक्तस्य कारणजनितस्याभावेन यदैव वस्तुन उत्पत्तिस्तदैव तस्य परिनिष्पत्तिस्वरूपोत्पत्तिरूपा स्थितिर्या निष्ठार्थतया गीयत इत्यैक्यादेव तयोः कालस्याप्यैक्यमृजुसूत्रनये इत्यर्थः । ननु भगवद्भिस्तीर्थकृद्भिः सर्वज्ञैरपि क्रियमाणं कृतमित्युपेयते तत् कथं सुसङ्गतम् ? तेषामृजुसूत्रनयमात्राभ्युपगन्तृत्वाभावेन क्रियाकाल-निष्ठा का लयोर्भेदस्याप्युपगन्तृत्वादित्यत आह-कजमाणे- इति क्रियमाणं कृतमिति संस्कृतम् । 'भगवद्वचनं तु' इत्यस्य ' व्याख्येयम्' इत्यनेनान्वयः । 'उत्पादादीनाम्' इत्यत्रादिपदात् स्थिति-विगमयोरुपग्रहः । एकधर्मिसंसर्गितयेति यदेव यस्योत्पादस्तस्य तदैव स्थितिर्विगमश्चेत्येवमेकधर्मिसंसर्गितयेत्यर्थः । त्रकाल्यविषयत्वेनेति- उत्पतेर्विद्यमान काल सम्बन्धित्वं यद्वशादुत्पत्तिमत उत्पद्यमानत्वम् उत्पत्तेरतीतकालसम्बन्धित्वं यद्वशादुत्पत्तिमत उत्पन्नत्वम् उत्पत्तेर्भविष्यत्कालसम्बन्धिस्त्रं यद्वशादुत्पत्तिमत उत्पत्स्यमानत्वम् एवं स्थितेर्विद्यमानकाल म्बन्धिवं यतः स्थितिमतः स्थीयमानत्वम्; स्थितेरतीतकालसम्बन्धित्वं यतः स्थितिमतः स्थितत्वम् स्थितेर्भविष्यत्कालसम्बन्धित्वं येन स्थितिमतः स्थास्यमानत्वम् एवं त्रिगमस्य वर्तमानकालसम्बन्धित्वं गतो विनाशप्रतियोगिनो विगच्छद्भावः, विगमस्य भूतकालसम्बन्धित्वं यतो भवति विनाशिनो विगतत्वम्, विगमस्य भविष्यत्कालसम्बन्धित्वं येन विनाशितो विगमिष्यद्भावः इत्येवं त्रैकाल्यविषयत्वेनेत्यर्थः । प्रमाणार्थकतया प्रमाणविषयी भूतोत्पादादित्रयात्मक वस्तुविषयत्वेन । अत्र उत्पद्यमानस्य उत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् एवमुत्पत्स्यमानस्योत्पत्स्यमानोत्पद्य मानोत्पन्नस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् एवमुत्पन्नस्योत्पन्नोत्पद्यमानोत्पत्स्यमानस्वरूपेण त्रिकालोत्पत्तिसम्बन्धकृतेन त्रिप्रकारत्वम् इत्येवमुत्पत्तिमतस्त्रि कालोस्पत्तियोगेन नव भेदाः, तत्रोत्पद्यमानस्य स्थित स्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् उत्पद्यमानस्य स्थितस्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् उत्पन्नस्य स्थित स्थीयमान स्थास्यमानस्वरूपेण त्रिप्रकारत्वम् इत्येवं त्रिकालस्थितियोगे नोत्पत्तिमतो नव भेदाः; तथोत्पद्यमानस्य विगत विगच्छद्-विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम् उत्पत्स्यमानस्य विगत विगच्छद् - विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम् उत्पन्नस्य विगत विगच्छद्विगमिष्यत्स्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालविगम योगेनोत्पत्तिमतो नव भेदाः, ते चोत्पत्तिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः एवं स्थीयमानस्य स्थीयमान स्थास्यमान स्थितस्वरूपेण त्रिकालस्थितिसम्बन्धकृतेन त्रिप्रकारत्वम् एवं स्थितस्य स्थित स्थीयमान- स्थास्यमानस्वरूपेण त्रिकालस्थितिसम्बन्धकृतेन त्रिप्रकारत्वम्, स्थास्यमानस्य च स्थास्यमान- स्थीयमान- स्थितस्वरूपेण त्रित्रकारत्वम् इत्येवं स्थितिमतस्त्रिकालस्थितियोगेन नव भेदाः; तथा स्थीयमानस्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, स्थास्यमनस्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम् स्थितस्योत्पद्यमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, इत्येवं त्रिकालोत्पत्तियोगेन स्थितिमतो नव भेदाः; तथा स्थीयमानस्य विगत- विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम्, स्थास्यमानस्य विगत विगच्छद् विगमिष्यदूपेण त्रिप्रकारत्वम् स्थितस्य विगत-विगच्छद् विगमिष्यद्रूपेण त्रित्रकारत्वम्, इत्येवं त्रिकालविगमयोगेन स्थितिमतो नव भेदाः, ते च स्थितिकृतप्रकारा मिलिताः सप्तविंशतिभेदाः, एवं विगच्छतो विगच्छद्विगमिष्यद्-विगत स्वरूपेण त्रिकालविगमसम्बन्ध कृतेन त्रिप्रकारत्वम्, विगमिष्यतो विगमिष्यद्-विगच्छद्-विगतरूपेण त्रिप्रकारविगतस्य विगत विगच्छद् विगमिष्यद्रूपेण त्रिप्रकारत्वम् इत्येवं विगमवतस्त्रिकालविगमयोगेन नव भेदाः विगच्छत उत्पद्यमानोत्पत्स्यमानोत्पन्नस्त्ररूपेण त्रिप्रकारत्वम्, विगमिष्यत उत्पयमानोत्पत्स्यमानोत्पन्नस्वरूपेण त्रिप्रकारत्वम्, विगत
7
खम्