________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिस्यां समलङ्कृतो नयोपदेशः ।
च 'ज्ञातो घटः, नष्टो घट:' इति व्यवहारात्, क्रियाकालेsपि निष्ठार्थाविरोधात् तत् क्रियमाणं कृतम्' इत्यन्वयो नानुपपन्नः, सर्वत्र कालवर्तिता विशेषरूपसिद्धत्वस्य निष्ठार्थत्वात् तस्य चादिसमवायावच्छेदेन साध्यत्वेन सममविरोधात्, चिरनष्टे 'इदानीं नष्टः' इति, चिरोत्पन्ने च ' इदानीमुत्पन्नः ' इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावच्छिन्न साध्यत्वविशिष्टसिद्धत्वोपस्थित्यैव न भविष्यति, इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन भजनीयमिति सिद्धान्तः सङ्गच्छते । सिद्धत्व विशिष्टसाध्यतायाः सिद्धत्व नियतत्वाच्छुद्धसिद्धतायाश्च विशिष्टसाध्यताऽनियतत्वात्, तदाह भाष्यकार:तेणेह कज्जमाणं नियमेण कथं कथं तु भयणिज्जं । किंचिदिह कज्जमाणं उवरयकिरियं व होजाहि " ।। -- [ विशेषावश्यक भाष्यगाथा- २३२० ] इति, अस्तु वा विपरिणामस्वरूप निष्पत्यादिरूपाननुगतैव निष्ठा, समभिव्याहारविशेषादेव बोधविशेषोपपत्तेः, परमुक्तयुक्तेः क्रियाकालो (नयरहस्यतः ) निष्ठाकालं न विरुणद्धीति किमतिविस्तरेण ? ॥ ३१ ॥
46
ननु यद्येवं कारणव्यापारचरमक्षण एव क्रियाकालो निष्ठाकालश्च भाष्यकृता निर्णीतस्तदा शास्येक
f
१७१
व्युत्पत्तौ ' क्रियमाणम्' इत्यत्र क्रियायां वर्तमानकालवृत्तित्वान्वयः ' कृतम्' इत्यत्र क्रियायामतीतकालवृत्तित्वान्वय इति वर्तमानकालवृत्तिक्रियाया अतीतकालवृत्तित्वासम्भवान्न क्रियमाणं कृतमित्यस्योपपादिकायामित्यर्थः । तनीत्यैव नैयायिको व्युत्पत्त्यैव । अतिप्रसङ्गस्येति- चिरविनष्टेऽपि घंटे विद्यमाननाशप्रतियोगित्वस्य सत्वेन ' नश्यन् घटः' इति प्रयोगप्रसङ्गस्येत्यर्थः । क्रियाकाले निष्टार्थाविरोधं व्यवहारबलादुपपाद्य ततः ' क्रियमाणं कृतम्' इत्यत्रान्वयोपपत्ति भावयतिज्ञानोत्पतिकाल इति । यादृशस्य निष्ठार्थस्योत्पत्तिसमयेऽपि सत्त्वतो न साध्यत्वेन समं विरोधस्तं भावयति सर्वत्रेति । तस्य च कालवर्तिताविशेषरूपसिद्धत्वस्य पुनः । यदि वर्तमान निष्ठाकालयोर्न विरोधः किमिति चिरनष्टे ' इदानीं नष्टः ' इति, चिरोत्पन्ने च ' इदानीमुत्पन्नः' इति च न प्रतीतिरित्यपेक्षायामाह - चिरनष्ट इति । प्रतीतिः' इत्यस्य 'न भविष्यति' इत्यनेनान्वयः । समभिव्याहारविशेषात् 'नष्ट:' इति पदे ' उत्पन्नः' इति पदे चान्यवहितोत्तरत्वसम्बन्धेन इदानीमितिपदवत्त्वलक्षणा काङ्क्षाबलात् । उक्तोपपादनप्रकारस्यर्जुसूत्र सिद्धान्तविशेषोपष्टम्भकत्वं दर्शयति- इत्थमेवेति उक्तप्रकाराश्रयणादेवेत्यर्थः । ' कृतमेव ' इत्येवकारेणाकृतत्वव्यवच्छेदः, तेन कृतत्वविनिर्मुक्तं क्रियमाणत्वं नास्त्येवेति दर्शितम् । क्रियमाणत्वेन भजनीयम् कृतं क्रियमाणमक्रियमाणं च । सिद्धत्वविशिष्टेति यदा नाश उत्पद्यते तदानीं नाशस्य सिद्धत्वमपि साध्यत्वमपीति तत्कालीना नाशगता साध्यता सिद्धत्वविशिष्टेति तस्याः सिद्धत्वव्याप्यत्वाद् यत्र सिद्धत्वविशिष्टसाध्यता तत्र सिद्धत्वं समस्त्येवेत्यतः क्रियमाणं कृतमेवेत्यर्थः । शुद्धसिद्धतायाश्चेति चिरनष्टस्य घटादेर्नाशः पूर्वमेवोत्पन्न इदानीं नोत्पद्यत इति एतत्काले तन्नाशगता सिद्धतैव न त्वेतत्कालावच्छिना साध्यतेति सा शुद्धसाध्यता, तस्याः पुनरेतरकालावच्छिन्न साध्यतालक्षणा या विशिष्टसाध्यता तद्वयाप्यत्वाभावादतः कृतं क्रियमाणं न भवत्यपीत्यर्थः । उक्तार्थे भाष्यकारवचनसंवादमुपदर्शयति तदादेति । तेणे६० इति - "तेनेह क्रियमाणं नियमेन कृतं कृतं तु भजनीयम् । किश्चिदिह क्रियमाणमुपरतक्रियं च भवेत् " ॥ १ ॥ इति संस्कृतम् । कालवर्तिताविशेषरूपमेव सिद्धत्वं निष्ठाप्रत्ययार्थ इत्येवमेकरूपैव निष्ठेत्येकस्वरूपाया निष्ठाया अभावेऽपि न नः किञ्चिदपचीयते, अननुगतस्वरूपत्वेऽपि तस्यास्तत्तत्स्वरूपायाः समभिव्याहारविशेषाद् बोधविशेषः स्यादेव एवमप्युक्तयुक्तया क्रियाकालस्य निष्ठाकालेन सममविरोध एवेत्युपसंहरति- अस्तु बेति । यस्मिन् काले यद् वस्तु यथैवोत्पन्नं तथैवावतिष्ठते न तु सदृशरूपेण विसदृशरूपेण वा परिणमते तदा तद् वस्तु विरिणामस्वरूपमिति तद्वषैव तस्य निष्ठा, प्रतिक्षणं किञ्चित्किचिदेशेनोत्पद्यमानं पटादि वस्तु यदा निष्पन्नं सम्पूर्णस्वरूपं भवति तदानीं स्वरूप निष्पत्तिरूपैव तस्य निष्ठेत्याह- विपरिणामेति । पटं किन्तु । अन्यत् स्पष्टम् ॥ ३१ ॥
द्वात्रिंशत्तमं प्रथमवतारयति नन्विति । तदानीं शाट्येकदेशदाहकाले । तनिष्ठाकालस्य शाटीदाह निष्ठाकालस्य,