________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलहतो नयोपदेशः ।
भावनान्वयिन्येवाख्यातार्थसङ्ख्यान्वयात् , अथाख्यातार्थसमान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत् ? न-धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्यो. पस्थिते हेतुत्वात् , शक्त्येति प्रवेशे गौरवात् , ' प्रजयति' इत्यादावनन्वयप्रसनाच, 'पाकोऽयम्' इत्यादी घ 'स्तोकं पचति, स्तोकः ( पाकः)' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्टे शक्तिस्वीकारान्न दोष इति दिक् ।
तदेवं नैयायिकोक्तव्युत्पत्तो तन्नीत्यैवातिप्रसङ्गस्य दर्शितत्वात् , ज्ञानोत्पत्तिकाले नाशोत्पत्तिकालेऽपि
पूर्वीलक्षणाकाला ज्ञानस्य स्वरूपसम्बन्धेन ज्ञानाश्रयत्वप्रकारकचैत्रादिनामार्थविशेष्यकशाब्दबोधे 'जानाति चैत्रः' इत्यादि. समभिव्याहारलक्षणाकालाज्ञानस्य च हेतुताकल्पने गौरवादिलर्थः। स्यादेतदित्यादिनोद्भावितामाशङ्कां प्रतिक्षिपति-मैवमित्यादिना । तथा सति जानातीत्यादौ ज्ञाधातोनिवति लक्षणया लक्ष्यार्थस्य ज्ञानवतो नामार्थेऽन्वयमभ्युपेत्याख्यातार्थभावनायास्तत्रान्वयबोधानभ्युपगमे सति । आख्यातार्थसहयानन्वयप्रसङ्गात् जानातीत्याख्यातेकवचनार्थकत्वसङ्ख्य या नामार्थचैत्रादौ योऽन्वयबोधो भवति स न स्यात् । तत्र हेतुमाह- भावनेति- आख्यातार्थभावनाया यत्रान्वयस्तत्रैवाख्यातसङ्खचाया अन्वय इति नियमेन आख्यातार्थभावनायाः प्रकृतेऽन्वयानभ्युपगमे आख्यातार्थसङ्ख्याया अपि तत्रान्वयो न स्यादित्र्थः । ननु विशेष्यतासम्बन्धेन यत्राख्यातार्थभावनाप्रकारकबोधस्तत्र तार्थविशेष्यतार्थसम्बन्धनाख्यातसङ्ख्याप्रकारकबोध इत्येव नेष्यते येन भावनाविशेष्यत्वमारूपातार्थ सङ्घयान्वये प्रयोजकं स्यात् , किन्तु प्रथमान्तपदोपस्थितार्थ एवाख्यातार्थसङ्ख यान्वय इति आख्यातार्थसङ्खयान्वये प्रथमान्तपदोपस्थाप्यत्यमेव प्रयोजकमिति चैत्रादौ प्रथमान्तपदोपस्थाप्ये आख्यातार्थसङ्खयान्वय उपपद्यतेतरामिति शङ्कते- अथेति । तन्त्रम प्रयोजकम्, विशेष्यतासम्बन्धेन धात्वर्थप्रकारकबोधत्वावच्छिन्न प्रत्येव विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्योपस्थितेः कारणत्वम् , न तु विशेष्यतासम्बन्धेन शक्त्या धात्वर्थप्रकारकबोधं प्रति विशेष्यतासम्बन्धेनाख्यातादिप्रत्ययजन्योरस्थितेः कारणत्वम् , कार्यतावच्छेदककोटौ शक्त्येति प्रवेशे गौरवात् ; 'प्रजयति' इत्यादौ प्रपूर्वकाजधातोर्लक्षणयैवोपस्थितस्याख्यातार्थेन सममन्वयस्वीकारेण तादृशान्वयबोधस्य शक्त्या धात्वर्थप्रकारकान्वयबोधत्वलक्षण कार्यतावच्छेदकानाकान्तत्वेन 'प्रजयति' इति समभिव्याहारादनुत्पादप्रसङ्गात् , एवं च 'जानाति' इत्यादौ न धातोर्ज्ञानाश्रये लक्षणा किन्तु आख्यातस्यैवाश्रयत्वे लक्षमा आख्यातलक्ष्यार्थ एवाश्रयत्वे धात्वर्थस्य ज्ञानस्य निरूपितत्वसम्बन्धेनान्वयः, इत्थं च 'नष्टो घटः' इत्यादौ नश्धातोनशिप्रतियोगिनि लक्षणायामपि लक्ष्यार्थस्य नाशप्रति. योगिनोऽभेदसम्बन्धेन न नामार्थे घटेऽन्वयः सम्भवति, ताशबोधस्यापि निरुक्तकार्यतावच्छेदकाकान्तत्वेन विशेष्यतासम्बन्धेन तं प्रति कारणस्य विशेष्यतासम्बन्धेन प्रत्ययजन्योस्थिते मार्थ घटेऽभावादित्यर्थः । ननु 'पाकोऽयम्' इत्यादौ पचधातोरेव पाके शक्तिने तु घञ इति पधातूपस्थाप्यस्य पाकस्याभेदेन नामार्थ इदमऽन्वय इति तद्बोधस्य पधात्वर्थपाकप्रकारकस्य विशेष्यतासम्बन्धेन नामार्थे उत्पत्तस्त्र प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेनाभावाद् व्यभिचार इति नोक्त कार्यकारणभावसम्भव इत्यत आह-पाकोऽयम्' इत्यादौ चेति-'स्तोकं पचति' इत्यत्र ‘क्रियाविशेषणानां कर्मत्वम्' इत्यनुशासनात् पच्धात्वर्थपाकेऽभेदेन विशेषणस्य स्तोकार्थस्य वाचकात् स्तोकपदाद् द्वितीया, 'स्तोकः पाकः' इत्यत्र स्तोकपदार्थस्य न पचधात्वर्थेऽभेदेन विशेषणत्वं तथा सत्युक्तानुशासनबलादत्रापि द्वितीयाप्रसक्ती 'स्तोकं पाकः' इति स्यान्न तु ' स्तोकः पाकः' इति, भवति च 'स्तोक पाकः' इतिवत् 'स्तोकः पाकः' इत्यपि, तदनुरोधेन पचूधातूत्तरघञोऽपि धात्वर्थतावच्छेदकपाकत्वविशिष्टे शक्तिरूपेयते, तथा च घजन्तपाकपदार्धे नामार्थ एवाभेदेन स्तोकरूपनामार्थस्यान्वय इति तत्र विशष्य विशेषणवाचक्रपदयोः समान विभक्तिवचनत्वनियमबलात् 'स्तोकः पाकः' इति प्रयोग इति, एवं च 'पाकोऽयम्' इत्यत्र घजन्तपाकनामार्थस्यवाभेदेनेदमो नाम्नोऽर्थेऽन्वयो न तु पधात्वर्थस्येति व्यभिचाराभावादुक्त कार्यकारणभावः सम्यगेवेति भावः ।
क्रियाकाल निष्ठाकालयोरैक्यमाश्रित्य · क्रियमाणं कृतम् ' इति यजुसूत्रनयाभिप्रेतं तदुपसंहरति- तदेवमिति । नैया. यिकोक्तव्युत्पत्ताविति - धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे सामानविशेष्यत्वप्रत्यासत्या धातुजन्योपस्थितहेतुत्वमित्यादि