________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः ।
१९
स्यादेतत्- अत्र नश्धातोः प्रतियोगिनि लक्षणयाऽभेदेनेवास्तु प्रातिपदिकार्थेन सममन्वयः, एकदेशे नाशे कृत्प्रत्ययार्थोत्पत्तेरन्वयश्च व्युत्पत्तिवैचित्र्यात् ; न च धात्वर्थस्याख्याताधर्थ एवान्वयनियमात् कथमेवमिति वाच्यम् , शक्त्यैव धात्वर्थप्रकारकबोधे आख्यातादिजन्योपस्थितेहेतुत्वात् , अत एव 'जानाति' इत्यादौ ' ज्ञाधातोर्ज्ञानवति लक्षणया प्रातिपदिकार्थेनान्वयसम्भवे आख्यातार्थोऽयोग्यत्वान्न भासते' इति चिन्तामणिकदुक्तं युक्तम , अनया भल्या धातोः परम्परया मुख्यार्थबाधप्रदर्शनेन तल्लक्षणासूचनस्यैदा. भिप्रेतत्वात् , एवं हि निरूपितत्वसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकावान्तरशाब्दबोधे तद्धेतुत्वादि. गौरवं निरस्तं भवति, न च सामान्यतो हेतुत्वं क्लप्तमेवेति क गौरवमिति वाच्यम् , तथापि तत्तदा. कासाज्ञानादिहेतुताकल्पने गौरवादिति; मैवम्-तथा सति 'जानाति' इत्यत्राख्यातार्थसङ्ख्यानन्वयप्रसङ्गात् , क्रियते, यथा- 'सम्पन्नो व्रीहिः' इत्यत्र पदार्थतावच्छेदके बोहित्वे एकत्वस्यान्वयः, इति ‘पदार्थः०' इत्यादिनियमसोचनेन पदार्थकदेशेऽपि नाशे कृत्पदार्थान्वयो व्युत्पत्तिवैचित्र्यादुपयत इत्याशङ्कते- स्यादेतदिति । अत्र ‘नष्टो घटः' इत्यादौ । प्रतियोगिनि नाशप्रतियोगिनि । “लक्षणया' इत्यनन्तरं 'लक्ष्यार्थस्य तस्य' इति शेषः । अभेदेनैव अभेदसम्बन्धेनैव । एकदेशे नाशप्रतियोगिरूपपदार्थकदेशे। ननु धात्वर्थस्य नाशप्रतियोगिनि नामार्थे घटे नान्वयः सम्भवति, धात्वर्थस्य प्रत्ययान सममेवान्वयस्य नियमादित्याशङ्का प्रतिक्षिपति- न चेति- अस्व 'वाच्यम्' इत्यनेनान्वयः । कथमेवम् धात्वर्थस्य नाशप्रतियोगिनोभैदेन कथं नामानान्वयः। निषेधे हेतुमाह-शक्त्यैवेति-विशेष्यतासम्बन्धेन धातुशक्त्युपस्थाप्यार्थप्रकारकशाब्दबोधे विशेष्यतासम्बन्धेनाख्यातादिजन्योपस्थितेर्हेतुत्वम् , अतो धातोः शक्यार्थस्य न नामार्थेऽमेदेनान्वयः, प्रकृते तु नश्वातोर्लक्ष्यार्थस्य नाशप्रतियोगिनोऽभेदेन नामार्थे घटेऽन्वय इति तत्र नोक्तकार्यकारणभावविरोध इत्यर्थः । नामार्थेन समं धातुलक्ष्यार्थस्यान्वये गङ्गशोपाध्यायव चनसंवादमुपदर्शयति-अत पवेति- धातुशक्यार्थप्रकारकबोध एवाख्यातादिजन्योपस्थितेहेतुत्वादेवेत्यर्थः । 'लक्षणया' इत्यनन्तरं तदुपस्थाप्यार्थस्येति शेषः । अन्वयसम्भवे अभेदेनान्वयसम्भवे । आख्यातार्थः यत्नः । अयोग्यत्वात् वर्तमानज्ञानाश्रये देवदत्ते 'देवदत्तो घटं जानाति, इति प्रयुज्यते, यदा तु देवदत्तो घटस्य ज्ञानार्थ यतते न तु वर्तमानघटविषयकज्ञानाश्रयस्तदानीं 'देवदत्तो घटं जानाति' इति न प्रयुज्यते, यदि तु तत्राख्यातार्थान्वयबोध उपयते तदा घटज्ञानानुकूलवर्तमानकालीनयत्नाश्रयत्वस्य देवदत्ते सत्त्वाद् 'देवदत्तो घटं जानाति' इति प्रयोगः स्यात् , न च भवति तदानीमेवं प्रयोगोऽतोऽयोग्यत्वादाख्यातार्थो न तत्र भासत इत्यर्थः । अनया भङ्गया 'ज्ञाधातोनिवति लक्षणयाः' इत्यादिवचनसन्दर्भण, लक्षणा तत्रैव भवति यत्र मुख्यार्थबाध इति ज्ञाधातोनिवति लक्षणोपदर्शनेन मुख्यार्थबाधो यतोऽत्र ततो लक्षणा समाश्रितेत्येवं परम्परया मुख्यार्थबाधप्रदर्शनेन, वस्तुत 'आख्यातार्थोऽयोग्यत्वान्न भासते' इत्युक्त्यैव परम्परया मुख्यार्थबाध उपदर्शितः, यद्यत्र धातोर्लक्षणयोपपत्तिर्न भवेत्, तदाऽऽख्यातस्यैव लक्ष्यार्थमाश्रयत्वमाश्रिल्यान्वय उपेयेतापि, तेन चाख्यातार्थोऽपि योग्यत्वाद् भासेत, न चैवम् , ज्ञाधातोनिवति लक्षणया प्रातिपदिकार्थनान्वयः सम्भवत्येव, एवं चाख्यातार्थोऽयोग्यत्वान्न भासत इत्यर्थस्योपोदलनाय 'ज्ञाधातोः' इत्याधुक्तिः, तत्र चाख्यातार्थस्याभासनं प्रधानतया तद्धे तुतया चायोग्यत्वं मुख्यार्थवाधपर्यवसितं प्रदर्शितमित्येतावता परम्परया मुख्यार्थबाधप्रदर्शनम् , यत्र च मुख्यार्थयाधस्तत्र शाब्दबोधोपपत्तये लक्षणा समाश्रियत एवेत्यतस्तेन लक्षणासूचनं तदुक्त्यभिप्रेतमिति बोध्यम् । ज्ञाधातुलक्ष्यार्थस्य ज्ञानवतोऽभेदन नामार्थेऽन्वयोपगमे ज्ञाननिरूपिताश्रयत्वप्रकारकनामार्थविशेष्यकान्वय. बोधलक्षणमहावाक्यार्थबोधस्यानभ्युपगमेन तत्कारणत्वमपि निरूपितत्वसम्बन्धेन ज्ञानप्रकारकाश्रयत्वविशेष्यकान्वयबोधलक्षणावान्तरबोधे न स्वीक्रियते नवाऽऽरूयातजन्याश्रयत्वोपस्थितस्तं प्रति कारणत्वमपीति लाधवमपीत्याह एवं हीति-- धातुलक्ष्यार्थस्याभेदेन नामार्थेऽन्वयोपगमे यत इत्यर्थः । तद्धेतुत्वादीति-जानातीत्याद्यानुपूर्वी लक्षणसमभिव्याहारज्ञानादिनिष्छकारणत्वादोत्यर्थः । ननु शाब्दबुद्धित्वावच्छिन्नं प्रत्याकाक्षाज्ञानत्वेन कारणत्वं क्लुप्तमेवेति न गौरवमित्याशङ्का प्रतिक्षिपतिन चेति- अस्य वाच्यम्' इत्यनेनान्वयः। निषेधे हेतुमाह- तथापीति- आकाङ्क्षाज्ञान शाब्दबोधयोः सामान्यतो हेतुहेतुमद्भावस्य क्लुप्तत्वेऽपीत्यर्थः। तत्तदाकाङ्क्षति- निरूपितत्वसम्बन्धेन ज्ञानप्रकार काश्रयत्वविशेष्यकशाब्दबोधे जानातीत्यानु.