________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिन्यां समलतो मयोपदेशः । १६३ पादनात् ; कृतमेव क्रिया जनयति, नाकृतमसत्त्वात् , क्रियाजनितस्वाश्च कृतमित्यन्योऽन्याश्रय इति चेत् ? न-घटत्वादिनैव घटादिक्रियाजन्यत्वात् तत्र कृतत्वाप्रवेशादर्थादेव समाजात् कृतत्वोपपत्तेः, यदि च क्रियमाणं न कृतं तदा क्रियासमये कार्याभावात् ततः पूर्व ततः पश्चाच कारणाभावात् तत्कार्य न भवेदेव; सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान दोष इति चेत् ? न-सामग्रीसमयस्यैव कार्यव्याप्यत्वोपगमौचित्यात् , अन्यथा व्यवहितोत्तरकालेऽपि कार्योत्पत्तिप्रसङ्गात् , अव्यवहितोत्तरत्व. प्रवेशे गौरवात्, द्वि-विक्षणादिव्यवधानाभावनिवेशे विनिगमकाभावात् , कारणाभावस्यैव कार्याभाव. मानस्य घटस्य निष्पन्नस्वरूपस्याकृतत्वाभावादेव कृतत्वमित्येतावतव कृतस्य करणम्, यथा च नीलसामग्रीतो नीलस्य घटसामग्रीतो घटस्योत्पत्तौ सत्यां स घटो नीलघटोऽर्थादेव भवति, न तु नीलघटत्वस्य किञ्चित्कारणनिरूपितकार्यतावच्छेदकत्वं तथा घटक्रियातो जायमानस्य घटस्य सत्त्वादेव नाकृतत्वमित्यकृतत्वाभावादेव कृतत्वम्, कृतत्वं हि निष्पन्न. क्रियखरूपत्वम्, तत्र निष्पन्नतांश-क्रियांशयोर्यजनकं तत एव तद् भवतीत्यर्थसमाजात् तदुत्पत्तिरिति समाधत्ते-नेति । तत्र क्रियाजन्यतावच्छेदककोटौ यदि च क्रियमाणस्य कृतत्वं नोपेयते तदा यदा क्रियाकाले कार्यमनिष्पन्नमेवमास्थेयमन्यथा निष्पन्नस्य तस्य कृतत्वं स्यादिति क्रियमाणस्य तदानीं कार्यस्य कृतत्वमिति वहस्तितमेवेति विवादपर्यवसानम् , अनि. पन्नत्वे चानिष्पन्नं च वस्तु न स्वस्वरूपतामचतीति क्रियासमये कार्याभावः, कियासमयात् पूर्व च क्रियारूपकारणस्यैवा. भावः, एवं क्रियासमयात् पश्चादपि कारणस्याभाव इति कदापि तत् कार्य न स्यादतः क्रियमाण मित्याह- यदि चेति । ततः क्रियासमयात्, एबमप्रेऽपि । यदा स्वोत्तरसमयत्वसम्बन्धेन सामग्री तदा कालिकसम्बन्धेन कार्योत्पत्तिरित्येवं सामग्री-कार्योत्पत्त्योाप्यव्यापकमावस्याङ्गोकारात् सामग्यव्यवहितोत्तरसमये कार्योत्पत्तौ न कश्चिद् दोष इति शङ्कते- सामग्या इति । तदुत्तरेति- सामग्युत्तरेत्यर्थः। यदा सामग्री तदा कार्यमित्येव तयोर्याप्य व्यापकमायो न तु सामय्युतरसमयत्वस्य कार्यव्याप्यत्वमिति सामग्रीसमय एवं कार्य न तु सामव्युत्तरसमय इति समाधत्ते-नेति । अन्यथा सामध्युत्तरसमयत्वस्य कार्यव्याप्यत्वाभ्युपगमे। व्यवहितोत्तरकालेऽपि सामग्रीव्यवहितोत्तरकालेऽपि, अपिना सामग्यव्यवहितोत्तरकालस्योपग्रहः, सामग्युत्तरकालत्वस्य सामग्रीव्यवहितोत्तरसमये सामय्यव्यवहितोत्तरसमये च सत्वेन तदुमयत्र कार्योत्पत्तौ सत्यामेव सामग्युत्तरत्वस्य कार्यव्याप्यत्वं सम्भवति, अन्यथा व्यभिचारेण सामग्युत्तरत्वस्य कार्यव्याप्यत्वमेव न भवेदिति सामम्युत्तरसमयमात्र एवं कार्यजनिः स्यादित्यर्थः। ननु यदा स्वाव्यवहितोत्तरत्वसम्बन्धेन सामग्री सामग्यव्यवहितोत्तरसमयत्वं वा तदा कार्यमित्येवं व्याप्तेरुपगमात् सामग्यव्यवहितोत्तरसमय एव कार्य न सामग्रीव्यवहितोतरसमय इत्यत आह- अव्यवहितोत्तरत्वप्रवेशे गौरवादिति-प्रकारविधया व्यायकोटौ व्याप्यतावच्छेदकसंसर्गकोटौ वाऽव्यवहितोत्तरत्वप्रवेशे गौरवप्रसङ्गादित्यर्थः । किच, सामग्यनन्तरं द्विक्षणव्यवधाने यदि कार्य जायते तदा तत्र द्विक्षणव्यवधानेऽस्यव्यवहितत्वसम्पत्तये त्रिक्षणादिव्यवधानाभावो निवेश्यः यद्ये कक्षणव्यवधान एव कार्यमुत्पद्यते तदा द्विक्षणादि. व्यवधानाभावो निवेश्यः, एवं त्रिक्षणव्यवधानेऽपि यदि कार्य जायते तदा चतुःक्षणादिव्यवधानाभावो निवेश्यः, न च सामग्रीक्षणभिक्षणे कार्योत्पादे सामग्युत्तरद्वितीयक्षण एव सामग्युतरतृतीयक्षण एव कार्य जायत इत्याद्यपगमे विनिगमकं किश्चिदिति विनिगमकाभावात् सर्वस्यापि द्वि-विक्षणादिव्यवधानादेरभावस्य निवेशेऽपि गौरवं सामग्यव्यवहितोत्तरसमयत्वस्य कार्यव्याप्यत्वपक्षे इत्याह-द्वि-विक्षणादीति । पर्यायनये एक कुर्वद्रूपात्मकं तत्कार्यकारणं यदा तदा कुर्वद्रूपात्मक तस्कार्यकारणान्तरमध्यवश्यमेव समस्तीति कारणे सत्यवश्यमेव कार्यमिति सामय्याः कार्यव्याप्यत्वकल्पनापेक्षया कारणस्यैव कार्यव्याप्यत्वं लाघवात् , तत्रापि यदा कारणं तदा कार्यमित्येव व्याप्तिने तु कारणोत्तरसमये कार्यनिति, तथा च कारणसमय एवं कार्यम् , यथा च कारणे सत्यवश्यं कार्यमिति नियमः, तथा कारणाभावे सत्यवश्यं कार्याभाव इत्यपि नियम एव, कारणस्य कार्यसमव्याप्यत्वेन कारणामावस्यापि कार्याभावसमव्याप्यत्वम् , तेन कारणस्य कार्यव्याप्यत्वे कारणाभावस्य व्याप्याभावरूपत्वेन कार्यरूपव्यापकाभावस्य व्यापकत्वमेव, तथा च व्यापकस्य तस्य सत्त्वेऽपि नावश्यं व्याप्यस्य कार्यामावस्य सत्त्वमित्युकेविकाशः, इत्यं च कारणाभावस्य कारणोत्तरकाले सत्त्वेन तदानी कार्याभावस्यैव सत्त्वं न कार्यस्येति कार्य-कारणयोरेककालस्वमेवेति क्रियारूपकारणकाले नियमेन कार्यस्य सत्त्वानिष्पन्नत्वमपि तस्येत्यतः कृतत्वमपीति क्रियमाणं