________________
नयामृततरङ्गिणी- तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
व्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्व । ननु पर्यायनयविचारे कार्यक्षणेषु कारणक्षणानामव्यवहितपूर्ववर्तितयैव हेतुत्वमुक्तं तत् कथमिह पर्यायप्रकृतिकशुद्धर्जुसूत्रनयविचारे क्रियमाणं कृतमेवेत्यस्योपपादनाय तेषां कार्यसहवर्तितयैव हेतुत्वं वदतां न पूर्वापरविरोध इति चेत् ? सत्यम् - तत्र पूर्वक्षणानामुवरोरक्षणहेतुत्वस्य विवक्षितस्य पौर्वापर्यनियमेनैवोपपत्तेः, अत्र तु व्यवहारोपगृहीतं घटादिकिञ्चित्कालस्थायिकार्यमादाय तत्र क्रियाजन्यत्वं शुद्धर्जुसूत्रनयेन विचार्यत इति कार्यसहवर्तितयैव तद्धेतुत्वकल्पनाद् विरोधगन्धस्याप्यभावात्, अत एव यत्र शुद्धपर्यायाणां कार्य कारणभावश्चिन्त्यते, यथा- केवलदर्शना"वधिकक्षणेषु केवलज्ञानावधिकक्षणानाम्, तत्र पौर्वापर्यगर्भ एव हेतुहेतुमद्भावो न तु कार्य सहवर्तितयैव, सर्वक्षणानामेकक्षणैकशेषताप्रसङ्गादिति सुदृढमवधारणीयम् ।
अथ ' क्रियमाणम् ' इत्यत्र वर्तमानत्वमानशोऽर्थः ' कृतम्' इत्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानत्वं विद्यमानकालवर्तित्वम्, अतीतत्वं च विद्यमानध्वंसप्रतियोगि कालवृत्तित्वम्, विद्यमानत्वं च तत्तकृतमिति युक्तमित्याशयेनाह - कारणाभावस्यैवेति- एवकारेण कारणाव्यवहितोत्तर समयत्वाभावसामध्युत्तरस मयत्वाभावस्रामध्यभावादेः कार्याभावव्याप्यत्वस्य व्यवच्छेदः । शङ्कते - नन्विति । तत् तर्हि । तेषां कारणानाम्, पर्यायनयसामान्यविचारे अव्यवहितपूर्ववर्तित्वेन कारणत्वमुक्तं पर्यायनयविशेषर्जु सूत्रनयविचारे तु कार्यसहवृत्तितथा कारणत्वमित्युच्यते इति कथं न पूर्वापरग्रन्थविरोधोऽर्थात् पूर्वापरप्रन्यविरोधः स्यादेवेति मुकुलितोऽर्थः । समाधत्ते - सत्यमिति यथा भवतोद्भावितं तथैवोक्तमस्तोत्यर्थः । एवमपि न पूर्वापरयन्धविरोध इत्याह- तत्रेति - पर्यायनयविचार इत्यर्थः, अविरलक्रमेण क्षणिकसन्ततिसिद्धये पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणं प्रति हेतुत्वं यद् विवक्षितं तत् कार्य-कारणयोः पौर्वापर्यनियमेनैवोपपत्तिपद्धतिमेतीत्यतोऽव्यवहितपूर्ववर्तितया कारणत्वं पर्यायनयविचारे पूर्वमुक्तमित्यर्थः । अत्र तु शुद्धर्जुसूत्रनय विचारे पुनः । व्यवहारोपगृहीतं व्यवहारनयस्वीकृतम् । आदाय आश्रित्य । तत्र घटादिकार्ये । तद्धेतुत्वकल्पनात् घटादिकार्य प्रति कियाया हेतुस्वकल्पनात् घटादिकार्ये घटादिकरणक्रिया घटादिकार्यसहवृत्तितया हेतुरिति यदा घटकरणक्रिया तदा घटोत्पत्तिः, यैवोत्पत्तिः सैव स्थितिः, तत्कालयोरभेदात् क्रियाऽन्यदा नास्तीति कार्यमप्यन्यदा न विद्यत इत्यतः क्षणिकत्वं सिध्यतीत्याशयेन कार्य सहवृत्तितया ऋजुसूत्रनये हेतुत्वमुच्यत इति भिन्नाभिप्रायप्रवृत्तयोः पूर्वोत्तरग्रन्थयोर्न विरोध इत्याशयः । अत एवेति यत एव क्षणिकसन्ततिसिद्धये पूर्वेक्षणानामुत्तरक्षणं प्रति कारणत्वमुपेयते तत एवेत्यर्थः । यथेति - केवलज्ञान-केवलदर्शनोपयोगयोः क्रमिकत्वेन पूर्व केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलदर्शनान्तरितक्रमिक केवलज्ञानसन्तति केवलज्ञानान्तरित क्रमिक केवलदर्शन सन्ततिसिद्धये केवलदर्शनावधिकक्षणेषु - केवलदर्शनात्मक - क्षणेषु क्षणमात्रस्थावित्वात् केवलदर्शनस्य क्षणत्वं तथा केवलज्ञानस्यापि क्षणानां तदात्मकत्वादेव तदवधिकत्वम्, यद्यपि केवलदर्शनमवधिरुत्तरतया यस्य क्षणस्य स केवलदर्शनावधिकः केवलदर्शनाव्यवहितपूर्वक्षणः, एवं केवलज्ञानमवधिरुत्तरतया यस्य क्षणस्य स केवलज्ञानावधिक इत्येवमप्यत्र व्युत्पत्तिः सम्भवति तथापि तथा विवक्षायां न किञ्चित् प्रयोजनम् । केवलज्ञानावधिकक्षणानां केवलज्ञानात्मक क्षणानाम् क्षणत्वेनोत्कीर्तनं च शुद्धपर्यायत्वप्रतिपत्तये, तथा च शुद्धपर्यायात्मक केवलदर्शन- केवलज्ञान कार्यकारणभावचिन्तनस्थले इत्यर्थः । तत्र केवलज्ञान - केवलदर्शनयोः । केवलज्ञान - केवलदर्शनयोः कार्यसहवर्तितया कार्यकारणभावाभ्युपगमे यदैव केवलदर्शनं तदैव केवलज्ञानं यदेव केवलज्ञानं तदैव केवलदर्शनमित्येक क्षणमात्ररूपतापत्तौ क्रमिक केवलज्ञान- केवलदर्शनसन्तत्युच्छेदः प्रसज्यत इत्याह- सर्वेक्षणानामिति ।
१६४
ननु तत्तदर्थोपस्थित्यनुकूलव्यापार पर्यवसितप्रयोगाधारकाललक्षणवर्तमानकालवर्तिकृतिविषयत्वलक्षणक्रियमाणत्वाश्रये तत्तदर्थोपस्थित्यनुकूलव्यापारात्मकप्रयोगाधारका लवर्तिध्वंसप्रतियोगि काललक्षणातीत कालवृत्तिकृतिविषयत्वस्यासम्भवेन क्रियमाणं कृतमित्यत्रान्वयस्यैवानुपपत्तिरिति शङ्कते - अथेति । तत्र वर्तमानत्वाऽतीतत्वयोर्मध्ये | लिप्युच्चारणादिसाधारणमितिइयं लिपिरेतदक्षरे सङ्केतितति लिपिग्रहणे तत्तदक्षरस्मरणे तत्तदक्षरसमूहात्मक पदस्मृतितस्तत्तदर्थोपस्थितिर्भवतीत्येवं परम्परया तंतदर्थोपस्थितिप्रयोजकत्वेन लिप्यां तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम्, उच्चार्यमाणश्च शब्दो ज्ञायते तज्ज्ञानाच्च तत्संकेतितस्यार्थस्य स्मरणमित्येवं परम्परया तत्तदर्योपस्थितिप्रयोजकत्वेनैवोच्चारणे तत्तदर्थोपस्थित्यनुकूलव्यापारत्वमित्यस्यो भय साधा