________________
नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः ।
तदापि तदुत्पत्तिप्रसङ्गोऽसत्वे च कार्याव्यवहितपूर्व वृत्तित्वाभावेनाकारणत्वाऽऽपत्तिरिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपायाः कारणतायाः कार्यसहवृत्तितानियमात्, अत एव ' कुर्वद्रूपत्वमप्रामाणिकं बीजत्वादिना साङ्कर्याज्जातिरूपतदसिद्धेः' इति निरस्तम् । अथैवं चक्रभ्रमणाद्युपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः ? यदि क्रियमाणः कृत एवेति चेत् ? न-घटजननव्यापाररूपायाः क्रियाया दीर्घकालत्वासिद्धेः, चरमसमय एव तदभ्युपगमात्, घटगताभिलाषोत्कर्षवशादेव मृन्मर्दनायान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात्, तदुक्तं महाभाष्यकृता
१६२
•
$
" पड्समयकज्जकोडी- निरवेक्खो घडगयाहिलासो सि । पइसमयकज्जकोडिं थूलमइ ! घडं मिलाएसि " ॥ -- [ विशेषावश्यकभाष्यगाथा- २३१८ ] इति, कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम्, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपघटोत्पत्तिप्राक्कालेऽसत्त्वे पुनः । अकारणत्वापत्तिः तत्कार्याव्यवहितपूर्वकालवृत्तित्वमेव तत्कार्यं प्रति कारणत्वमिति तस्याः क्रियाया घटोत्पत्त्यव्यवहितपूर्वकालवृत्तित्वाभावात् घटं प्रति कारणत्वं न स्यादित्यर्थः । प्रतिक्षेप हेतुमुपदर्शयति- कार्यव्याध्यति - कारणस्य यत् कार्यव्याप्यत्वं यदा कारणं तदा कार्यम्' इत्येवं प्रतीयमानं तच्च दण्डत्वादिना दण्डादेर्न सम्भवति दण्डत्वादिना दण्डादेः सत्त्वेऽपि घटादेरसत्वात्, किन्तु घटादिकुर्वद्रूपत्वात्मकपरिणाम विशेषरूपेण, घटादिकुर्बद्र्पत्वात्मकपरिणामविशेषविशिष्टदण्डादेर्यदा सत्त्वं तदानीं घटादेः सत्त्वस्यावश्यम्भावादिति तथाभूतव्याप्यत्वस्यावच्छेदको यः कुर्वद्रूपत्वात्मकः परिणामविशेषस्तद्रूपाया दण्डादिगतकारणताया घटादिकार्यसमकालवृत्तित्वस्य श्यम्भावान्न तथाभूत कारणता - लक्षणकारणसूक्ष्मक्रियाया घटाद्युत्पत्तेः प्राक् पश्चाच सत्वमतो नोत्पत्तेः प्राक् पश्चाच्च घटाद्युत्पत्तिप्रसङ्गो नवा पूर्ववर्तित्वाभावेऽप्यकारणत्वस्य प्रसङ्गः, तत्कार्यकाले तथाभूतपरिणामसद्भावत एव कारणत्वस्य सम्भवादित्यर्थः । अत एव इत्यस्य ' निरस्तम्' इत्यनेनान्वयः अत एव कुर्वद्रूपत्वात्मक परिणामविशेषरूपकारणतायाः कार्य सहवृत्तित्वनियमादेव । लाङ्कर्यादिति - बीजत्वाद्यभाववति मृदादिलक्षणकारणे कुर्वपत्वं कुर्वद्रूपत्वाद्यभाववति बीजादाव कुर्वद्रूपत्वमित्येवं परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः कुर्वन्द्रपात्मके बीजादौ सामानाधिकरण्येन साङ्कर्यादित्यर्थः । तदसिद्धेः कुर्वदूपत्वासिद्धेः, जातिरूपतया कुर्वद्रूपत्वस्यानभ्युपगमादेव तद्रूपतया तदसिद्धिर्न दोषाय कारणत्वप्राहकप्रमाणेन विषयीकरणादेव नाप्रामाणिकत्वं तस्येत्याशयः । नन्वाद्यचक्रभ्रमणादिक्रियाया आरभ्य चरमसमयकालीन घटजननानुकूल क्रियापर्यन्तं प्रतिसमयं घटजननं भवति ' क्रियमाणं कृतम्' इति पक्षे, तथा च चक्रभ्रमणप्रथम समयादारभ्य चरमसमयपर्यन्तमभिव्याप्य यो घटजननव्यापारलक्षणदीर्घक्रियाकालस्तस्मिन् प्रथमसमयावच्छेदेनापि क्रियमाणो घटः कृत एवेति निष्पन्नस्वरूपस्य तस्य दर्शनं कुतो न स्यादित्याशङ्कते - अथैवमिति । घटजनन व्यापारलक्षणा घटोत्पत्तिक्रिया चरमसमय एव न प्रथमचक्रभ्रमणादिसमये, तदानीं मृन्मर्दनायान्तरालिककार्यमेव क्रियते, 'घटो मे भवतु' इति योऽयं घटकर्तुरुत्कृष्टघटाभिलाषस्तद्वशादेव चरमसमयातिरिक्तसमयेऽपि 'घटं करोमि । इति व्यवहारो भवति, न तु वस्तुमत्या तदानीं घटकरणमिति घटाभावादेव न तदानीं घटो दृश्यत इति समाधत्ते नेति । तद्भ्युपगमात् घटजननव्यापाररूपक्रियाऽभ्युपगमात् । उक्तार्थे महाभाष्यसंवादमाह - तदुक्तमिति । पइसमय० इति - " प्रतिसमय कार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि । प्रतिसमयकार्यकोटिं स्थूलमते ! घटं लगयसि ॥ इति संस्कृतम् । ननु घटादिक्रिया कृतमेव घटं करोति नाकृतम् तथा च कृतं सिद्धमेव तत्करणेन नापूर्व किञ्चिन्निष्पद्यत इति तत्र न क्रिया साफल्यमञ्चतीत्याशङ्कां प्रतिक्षिपति कृतस्यैवेति । क्रियया यदा घटस्य निष्ठा भवति तदेव घटः कृत इत्युच्यते नान्यथेति कृतत्वसम्पादकतया क्रियायाः साफल्यं भवत्येवेति प्रतिक्षेप हेतुमुपदर्शयति-क्रिययैवेति- एवकारेण कियातिरिक्तस्य निष्टाजनकत्वव्यवच्छेदः । ननु यद्यकृतं क्रिया न जनयति किन्तु कृतमेव, यतः अकृतस्यासत्त्वेन करणव्यापारविषयत्वासम्भवात् तर्श्वन्योऽन्याश्रयोऽत्रोपतिष्ठते कियाजनितत्वात् कृतत्वं सम्पद्यते कृतत्वाच क्रियाजनितत्वमित्याशङ्कते - कृतमेवेति । नाकृतम् अकृतं क्रिया न जनयति, असस्वात् अकृतस्य स्वरूपत एवासत्वेन क्रियाजनितत्वाभावात् । कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वं नाभ्युपगम्यते किन्तु घटत्वायवच्छिन्नं प्रति घटादिक्रियात्वेन कारणत्वमित्येवोपेयत इति क्रियाजन्यतावच्छेदककोटौ कृतत्वस्याप्रवेशान्नो दिशाऽन्योऽन्याश्रयः, क्रियातो जाय