________________
मयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलतो नयोपदेशः।
rooran mirrorroriwwwwwurer
. नयामृत-पलालमिति । अत्र दहनादिक्रियाकाल एव तनिष्ठाकाल इति दह्यमानादेर्दग्धत्वाच. व्यभिचारात् तदवस्थाविलक्षणपलालाद्यवस्थावच्छिन्नेन समं दहनादिक्रियान्वयस्यायोग्यत्वात् 'पलालं न दहत्यमिः' इत्यादयो व्यवहारा निषेधमुखा उपपद्यन्ते, विधिमुखस्तु व्यवहारोऽत्र 'अपलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धः सिध्यति' इत्येवमाकार एव द्रष्टव्यः, अत एव-" सो समणो पबइओ" [ ] इति ( सूत्रमपि सङ्गच्छते । नन्वेत )नये कृतकरणापरिसमाप्तिः, सिद्धस्यापि साधने करणव्यापारानुपरमादिति चेत् ? न-कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः; न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वं तादृशानामेव तेषां कचित् घटोत्पत्त्यनन्तरमपि सम्भवे तदा तदुत्पत्तिप्रसङ्ग इति वाच्यम् , तत्सत्त्वेऽपि सूक्ष्म क्रियाविगमकल्पनात् ; न च तरिक्रयाया घटोत्पत्तेः प्राक् सत्त्वे रूपयोः क्रिया निष्ठयोः । अत्रार्थे ऋजुसूत्राभिमतान्तराभिहितविषये । अन्यत् स्पष्टम् ॥ ३० ॥ . - उतार्थसंवादकपरवचन विवृणोति-फ्लालमितीति । अत्र ऋजुसूत्रनये। दहनादिक्रियाकाल एव दहनादिसाध्या. वस्थाकाल एव । तन्निष्ठाकालः दहनादिसिद्धावस्थाकाल: । ननु दहनादेरुत्पद्यमानावस्थारूपदहनादिसाध्यावस्थाकाले 'दह्यते' इति प्रत्ययात् तदानी वस्तुनो दह्यमानत्वम् , दहनादेनिष्पन्नतावस्थारूपदहनादिसिद्धावस्थाकाले 'दग्धः' इति प्रत्ययात् तदानी वस्तुनो दग्धत्वमित्येवं तयोमैदे जाग्रति सति कथमैक्यावधारणं न्याय्यमित्यत आह-दह्यमानादेरिति-तथा चैतन्मते यदा 'दह्यते' इति प्रत्ययस्तदेव 'दग्धः' इत्यपि प्रत्यय इति यदा दह्यमानत्वं तदानीं दग्धत्वमपि समस्त्ये. वेति । यो हि दह्यमानाद्यवस्थस्तेनैव समं दहनादिक्रियाऽन्वेति, स च पलालादिस्वरूपतोऽन्य एव संवृत्त इति तेनान्वीयमाना दहनादिक्रिया न पलालादिनाऽन्वेतुमुत्सहते, यदाऽविचलपलालादिस्वरूपं तदा विक्रियाविशेषखरूपलक्षणा न दहनादि. क्रिया, यदा च सा न तदानीमविचलितपलालादिखरूपमित्येवं तयोभिन्नकालत्वेनान्वयस्यायोग्यत्वात् 'पलालंन दहत्यग्निः' इत्यादयो निषेधमुखा एव व्यवहारा ऋजुसूत्रनये युज्यन्ते, न तु 'पलालं दहत्यग्निः' इत्यादयो विधिमुखा व्यवहारा इत्याह- तदवस्थेति-दह्यमानाद्यवस्थेत्यर्थः। तत् किं विधिमुखा व्यवहारा न भवन्त्येवास्मिम् नये, भवन्ति यदि तर्हि कीदृशास्त इत्यपेक्षायामाह-विधिमुखस्त्विति । अत्र ऋजुसूत्रनये । 'संयतः प्रव्रजति' इत्येवं विधिमुखे व्यवहारे सूत्रस्वारस्य दर्शयति- अत एवेति- अस्य सङ्गच्छते' इत्यनेनान्वयः । सो० इति- " स श्रमणः प्रबजितः" इति संस्कृतम् । क्रियाकाल-निष्ठाकालयोरभेददाार्थ परकीयाशङ्का प्रतिक्षेप्तमुत्थापयति-नन्विति। एतन्नये क्रिया-निष्ठाकालाभेदाभ्युपगन्तृनये । कृतकरणापरिसमाप्तिरिति-क्रियमाणस्य कृतत्वाव्यभिचारार्थ यस्मिन् क्षणे यद् वस्तु क्रियते तस्य तदानीं कृतत्वमभ्युपेयम्, एवं च कृतस्य करणं खहस्तितमेव, तथा च करणव्यापारानन्तरं निष्पन्नस्यापि वस्तुनः क्रियमाणत्वस्योपपत्तये पुनरपि करणं तस्योपेयम् , तदानीमपि च कृतं तत् क्रियमाणमिति पुनरपि करणामास्थेयमित्येवं दिशाऽनवस्थान स्यादित्यर्थः । अत्रैव हेतुमाह-सिद्धस्यापीति । साधने उत्पादने। समाधत्ते-नेति । क्रियोपरमेणं करणन्यापारोपरमेण, यदर्थ करणस्य व्यापारस्तस्थ निष्पत्तौ सत्यां तस्य स्वयमेवोपरम इत्यभीष्टे : कार्ये उत्पन्ने सति करणपापारः स्वयमुपरत इति तद्रपकारणाभावान्न कृतस्य करणमित्याशयः । न च ' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः। यादृशेति- चक्रभ्रमणादिलक्षणेत्यर्थः । र्व घटोत्पत्तित: प्राकाले। तादृशानामेव तादृशव्यापारवतामेव । तेषां दण्डादीनाम् । तदा घटोत्पत्त्यनन्तरक्षणे । तदुत्पतिप्रसङ्गः उत्पन्नस्यैव घटस्य पुनरुत्पत्तिप्रसङ्गः । निषेधहेतुमाहतत्सत्त्वेऽपीति-घटोत्पत्त्यनुकूलम्यापारवतां दण्डादीनां सत्त्वेऽपीत्यर्थः । सूक्ष्मकियेति- यादृशक्रियया दण्डादिव्यापारभावमापनयाऽवश्यं घटाद्युत्पत्तिः सैव सूक्ष्मक्रियाशब्देनात्राभिप्रेता, तस्शस्तदानीं विगमादेव न घटाद्युत्पत्तिप्रसङ्ग इत्यर्थः । ननु घटोत्पत्त्यनुकूला या सूक्ष्मक्रिया कल्प्यते सा यदि घटोत्पत्तेः प्राक्क्षणे वर्तते तदा तस्या घटोत्पत्तिव्याप्याया: सद्भावतो घटोत्पत्तेरपि तदानीं सद्भावप्रसङ्गः, अथ सा घटोत्पत्तिप्राक्क्षणे न वर्तते तदा घटोत्पत्तिकारणत्वमेव तस्या न स्थादित्याशय प्रतिक्षिपति-न चेति-अस्य वाच्यम्' इत्यनेनान्वयः । तक्रियायाः घटोत्पसिनियतायाः सूक्ष्मक्रियायाः । तदाऽपि घंटोत्पत्तिप्राकालेऽपि । तत्सत्त्वप्रसङ्गः घटोत्पत्तिसंवप्रसङ्गः । असत्त्वे च तस्याः सूक्ष्मक्रियायां
२१